पैप्पलाद-संहिता · अध्याय 2.86
प्राचीं दिशम् आस्थाम्
अग्निर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥
दक्षिणां दिशम् आस्थाम्
इन्द्रो मावत्व् ओजसे बलाय (…) ॥
प्रतीचीं दिशम् आस्थां
वरुणो मावत्व् ओजसे बलाय (…) ॥
उदीचीं दिशम् आस्थां
सोमो मावत्व् ओजसे बलाय (…) ॥
ध्रुवां दिशम् आस्थां
विष्णुर् मावत्व् ओजसे बलाय (…) ॥
ऊर्ध्वां दिशम् आस्थां
बृहस्पतिर् मावत्व् ओजसे बलाय
दिशां प्रियो भूयासम् ।
अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0