पैप्पलाद-संहिता · अध्याय 2.75
प्रजापतिर् अनवर्तिः
स प्रजाभिर् अनवर्तिः ।
स मानवर्तिर् अनवर्तिं कृणोतु ॥
इन्द्रो ऽनवर्तिः
स वीर्येणानवर्तिः ।
(…) ॥
सोमो ऽनवर्तिः
स ओषधीभिर् अनवर्तिः ।
स मानवर्तिर् अनवर्तिं कृणोतु ॥
आपो ऽनवर्तयस्
ताः पर्जन्येनानवर्तयः ।
ता मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥
देवा अनवर्तयस् ते ऽमृतेनानवर्तयः ।
ते मानवर्तयो ऽनवर्तिं कृण्वन्तु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0