पैप्पलाद-संहिता · अध्याय 2.66
भगाय राज्ञे प्रथमं जुहोमि
विश्वे देवा उत्तरे मादयन्ताम् ।
उशन् पत्नीभ्य उशतीभ्य आभ्यः
पतिम् अग्न आ वह रातहव्यः ॥
पतिं वृणीष्व हविषा गृणाना
तम् आ वहात् सविता तं ते अग्निः ।
तस्मै नमस्व शतशारदाय
भगभक्ता भगवती सुवीरा ॥
यम् अर्यमन् पतिम् अस्यै दिदेशिथ
जने चित् सन्तं तम् इहा वहासि ।
सुमङ्गल्य् अपतिघ्नी सुशेवा
रायस्पोषेण तम् इषा सचस्व ॥
यं ते पतिम् अर्यमा जायमानायै
धाता चकल्प तम् इहा वहासि ।
अभिवरेण हविषा जुहोमि
प्रजानन्न् ऐतु सुमनस्यमानः ॥
पतिं ते द्यावापृथिवी अधातां
पतिं मित्रावरुणा वातो अग्निः ।
सप्त र्षयो ऽदितिः सोम इन्द्रस्
ते त्वा देवाः पतिवत्नीं कृण्वन्तु ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0