भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.63

2.63.1

सहस्वेदं सहमाने
अथो देवि सरस्वति ।
अथेदम् अश्विना लक्ष्म
रोहितं कृणुतं युवम् ॥

2.63.2

आसुरस्य मुखस्याग्ने
लक्ष्ममुखं नामासि ।
मेतो ज्यायो भूर् इत इत् कनीयो ऽसो
नश्येतः परो मा त्वा हिंसिषम् ॥

2.63.3

यासां पिता पर्जन्यो
भूमिर् माता बभूव ।
ह्वयामि सर्वा ओषधीर्
गोजाताः सोमजिन्वताः ॥

2.63.4

इदं सप्तप्रखे त्वं
किलासं नाशया त्वचः ।
निष्कृतिर् नाम वा असि
सेदं निष् कृधि भद्रया ॥

2.63.5

निष्कृतिर् नाम ते माता
निष्कृतिर् नाम ते पिता ।
उतो त्वम् असि निष्कृतिः
सेदं निष् कृधि भद्रया ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc