पैप्पलाद-संहिता · अध्याय 2.49
प्राची दिग् गायत्रं देवता ।
यद् देवेषु पितृषु मनुष्येष्व् एनश् चकारायं
त्वं तस्यावयजनम् असि ।
मुञ्चेमम् अस्माद् यक्ष्माद् अस्माद् आमयतः स्वाहा ॥
दक्षिणा दिग् रथन्तरं देवता । (…) ॥
प्रतीची दिग् वामदेव्यं देवता । (…) ॥
उदीची दिग् यज्ञायज्ञियं देवता । (…) ॥
ऊर्ध्वा दिग् बृहद् देवता ।
यद् देवेषु पितृषु मनुष्येष्व् एनश् चकारायं
त्वं तस्यावयजनम् असि ।
मुञ्चेमम् अस्माद् यक्ष्माद् अस्माद् आमयतः स्वाहा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0