पैप्पलाद-संहिता · अध्याय 2.31
इमौ पादौ प्र हराम्य्
आ गृहेभ्यः स्वस्तये ।
इन्द्रः पश्चाद् इन्द्रः पुरस्ताद्
इन्द्रो नः पातु मध्यतः ॥
इन्द्रो भयं व्य् अस्यतु
शूद्राच् च न आर्याच् च ।
इन्द्रः पथिभिर् अद्रवद्
असमृद्धा अघायवः ॥
इन्द्रो हनिष्यतां वधं
वि नः पाशाँ इवाचृतत् ॥
एमं पन्थाम् अरुक्षाम
सुगं स्वस्तिवाहनम् ।
येन विश्वाः परि द्विषो
वृणक्ति विन्दते वस्व्
आस्तम् एत्य् अनाहतः ॥
परा व्रजतु कृन्तत्य्
अवकां विक्षणन्न् इव ।
विष्वञ्चो यन्त्व् ?अस्यपाला
विष्वञ्चः परिपन्थिनः ।
विष्वक् पुनर्भुवा मनो
असमृद्धा अघायवः ॥
स्वस्त्य् अन्व् अचाकशं
स्वस्ति प्रत्य् अचाकशम् ।
स्वस्ति पथिषु धन्वसु
स्वस्त्य् अप्स्व् अन्तः ।
परिव्रजन् स्वरित
स्वस्त्ययनम् असि ।
भारद्वाजं स्वस्ति पुनरायणम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0