भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.20

2.20.1

इमां नावम् आ रोहत-
-अच्छिद्रां पारयिष्ण्वम् ।
नराशंसस्य या गृहे
शतारित्रा भगस्य च ॥

2.20.2

उप धुव गुल्गुलुना-
-अयक्ष्माः सन्त्व् अघ्न्याः ।
रुद्रस्येष्वा यातुधानान्
अथो राज्ञो भवस्य च ॥

2.20.3

रुद्राव् ईशाते द्विपदां चतुष्पदां
तयोर् वयम् अधिवाके स्याम ।
पक्वैर् वित्थैः प्रतिभूषन्त एनौ
वयं देवानां सुमतौ स्याम ॥

2.20.4

प्रतीची नाम ते माता
शतवारो घ ते पिता ।
ततो ह जज्ञिषे त्वम्
अरिष्यन्त्य् अरुन्धति ॥

2.20.5

माता नामासि मातृतो
अमृतस्येव वा असि ।
अरुन्धति त्वं सर्वम्
अभि जीवम् अधा इदम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc