पैप्पलाद-संहिता · अध्याय 18.52
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स ग्राह्याः पाशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥
(…) ।
स निरृत्याः पाशान् (…) ॥
(…) ।
सो ऽभूत्याः पाशान् (…) ॥
(…) ।
स निर्भूत्याः पाशान् (…) ॥
(…) ।
स पराभूत्याः पाशान् (…) ॥
(…) ।
स देवजामीनां पाशान् (…) ॥
(…) ।
स ऋषीणां पाशान् (…) ॥
(…) ।
स आर्षेयानां पाशान् (…) ॥
(…) ।
सो ऽङ्गीरसां पाशान् (…) ॥
(…) ।
स आङ्गिरसानां पाशान् (…) ॥
(…) ।
सो अथर्वणां पाशान् (…) ॥
(…) ।
स आथर्वणानां पाशान् (…) ॥
(…) ।
स ऋतूनां पाशान् (…) ॥
(…) ।
स आर्तवानां पाशान् (…) ॥
(…) ।
स ओषधीनां पाशान् (…) ॥
(…) ।
स वीरुधां पाशान् (…) ॥
(…) ।
स वानस्पतीनां पाशान् (…) ॥
(…) ।
स वानस्पत्यानां पाशान् (…) ॥
(…) ।
स इदावत्सरस्य पाशान् (…) ॥
(…) ।
स परिवत्सरस्य पाशान् (…) ॥
(…) ।
स संवत्सरस्य पाशान् (…) ॥
(…) ।
सो ऽहोरात्रयोः पाशान् (…) ॥
(…) ।
सो ऽह्नोः संयतोः पाशान् (…) ॥
(…) ।
स इन्द्राग्न्योः पाशान् (…) ॥
(…) ।
स बृहस्पतेः पाशान् (…) ॥
(…) ।
स प्रजापतेः पाशान् (…) ॥
(…) ।
स परमेष्ठिनः पाशान् (…) ॥
(…) ।
स राज्ञो वरुणस्य पाशान् (…) ॥
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स मृत्योः पड्वीशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0