पैप्पलाद-संहिता · अध्याय 18.33
स महिमा सद्रुर् भूत्वान्तं भूम्या अगच्छत् समुद्रो ऽभवत् ।
तं प्रजापतिश् च परमेष्ठी चापश् च श्रद्धा च वर्षं च भूत्वानु व्य् अवर्तन्त ।
तं यज्ञश् च लोकश् चान्नं चान्नाद्यं च भूत्वाभि पर्य् आ वर्तन्त ।
ऐनम् आपो गच्छन्त्य् ऐनं वर्षं गच्छत्य् ऐनं श्रद्धा गच्छत्य्
ऐनं दीक्षा गच्छत्य् ऐनं यज्ञो गच्छत्य् ऐनं लोको गच्छत्य्
ऐनम् अन्नं गच्छत्य् ऐनम् अन्नाद्यं गच्छति य (एवं वेद) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0