भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 18.31

18.31.1

तस्मै प्राचीनाद् अन्तर्देशाद्
भवम् इष्वासम् अनुष्ठातारम् अकुर्वन् ।
भव एनम् इष्वासः प्राचीनाद् अन्तर्देशाद्
अनुष्ठाता(नु तिष्ठति य एवं वेद) ॥

18.31.2

तस्मै दक्षिणायाद् अन्तर्दशाच्
छर्वम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) ।
शर्व एनम् इष्वासो दक्षिणाद् अन्तर्देशाद्
(…) ॥

18.31.3

तस्मै प्रतीचीनाद् अन्तर्देशाद्
रुद्रम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) ।
रुद्र एनम् इष्वासः प्रतीचीनाद् अन्तर्देशाद्
(…) ॥

18.31.4

तस्मा उदीचीनाद् अन्तर्देशात्
पशुपतिम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) ।
पशुपतिर् एनम् इष्वास उदीचीनाद् अन्तर्देशाद्
(…) ॥

18.31.5

तस्मै ध्रुवाद् अन्तर्देशाद्
उग्रं देवम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) ।
उग्र एनं देव इष्वासो ध्रुवाद् अन्तर्देशाद्
(…) ॥

18.31.6

तस्मा ऊर्ध्वाद् अन्तर्देशान्
महादेवम् इष्वासम् (अनुष्ठातारम् अकुर्वन्) ।
महादेव एनम् इष्वास ऊर्ध्वाद् अन्तर्देशाद्
अनुष्ठाता (…) ॥

18.31.7

तस्मै सर्वेभ्यो ऽन्तर्देशेभ्य
ईशानम् इष्वासम् अनुष्ठातारम् अकुर्वन् ।
ईशान एनम् इष्वासः सर्वेभ्यो ऽन्तर्देशेभ्यो
ऽनुष्ठातानु तिष्ठति य (एवं वेद) ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc