पैप्पलाद-संहिता · अध्याय 17.43
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तस्य प्राणान् सं वृह तस्य प्राणान् वि वृह ॥
इन्द्रो ऽसीन्द्रस्य रूपम् असि प्रजापतिर् असि परमेष्ठ्य् असि ॥
स्वर् असि स्वर्गो ऽसि स्वर्गलोको ऽसि स्वर्गं मा लोकं गमय ॥
येनास्य वहस् तेन यज्ञो येन वहति तेन लोकः ॥
येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्वः ॥
ये ऽस्य पादाः सा प्रतिष्ठा ।
प्रति तिष्ठति प्रजया पशुभिर् गृहैर् धनेन
य एवं विद्वान् अनडुहो व्रतं बिभर्ति ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0