पैप्पलाद-संहिता · अध्याय 16.129
यो व आपो अपां भागो ऽप्स्व् अन्तर् यजुष्यो देवयजनः ।
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥
(…) अपाम् ऊर्मिर् अप्स्व् अन्तर् यजुष्यः (…) ॥
(…) अपां वेगः (…) ॥
(…) अपां बिन्दुः (…) ॥
(…) अपां गर्भः (…) ॥
(…) अपां वत्सः (…) ॥
(…) अपां वृषभः (…) ॥
(…) अपाम् अश्मा पृश्निर् दिव्यो ऽप्स्व् अन्तर् यजुष्यः (…) ॥
यो व आपो अपां हिरण्यगर्भो ऽप्स्व् अन्तर् यजुष्यो देवयजनः ।
इदं तम् अति सृजामि तं माभ्य् अव निक्षि ।
तेन तम् (…) ॥
ये व आपो अपाम् अग्नयो ऽप्स्व् अन्तर् यजुष्या देवयजनाः ।
इदं तान् अति सृजामि तान् माभ्य् अव निक्षि ।
तैस् तम् अभ्य् अति सृजामि
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
तं वधेयं तं स्त्विषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0