भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 16.120

16.120.1

यद् अवहन्यमानस्य तण्डुल स्कन्दति
समांसमामस्य वरः प्रमायुको भवति ॥

16.120.2

यद् अयस्ता भवति
पितृदेवत्यं करोति ॥

16.120.3

यद् विष्यन्दते
गृहाणां च पशूनां च पयो वि ष्यन्दते ॥

16.120.4

यद् अपसिञ्चति
गृहाणां च पशूनां च पयो ऽप सिञ्चति ॥

16.120.5

यद् आयवनी शीर्यते
गृहपतिर् म्रियते ॥

16.120.6

यद् दर्विः शीर्यते
गृहपत्नी म्रियते ॥

16.120.7

यत् कुम्भी विकसति
सर्वज्यानिर् दाता च प्रतिगृहीता च जीयेते ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc