पैप्पलाद-संहिता · अध्याय 15.9
बृहस्पतिर् देवानाम् अध्यक्षः ।
(…) ॥
प्रजापतिः प्रजानाम् अध्यक्षः ।
(…) ॥
यमः पितॄणाम् अध्यक्षः ।
स मावत्व् अस्मिन् (…) ॥
पितरः परे ऽवरस् ततस् ततामहः ।
ते मावन्त्व् अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य्
अस्यां पुरोधायाम् अस्यां देवहूत्याम् अस्याम्
अकूत्याम् अस्याम् आशिषि स्वाहा ॥
देवानां देवा देवा देवेष्व् अधिदेवाः परा क्रमध्वम् ।
प्रथमा द्वितीयेषु द्वितीयास् तृतीयेषु ॥
त्रिर् एकादशा विश्वे वैश्वानरा
महि महान्तो न मारभध्वम् ।
इदं शकेयं यद् इदं कृणोमि स्वाहा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0