पैप्पलाद-संहिता · अध्याय 15.7
मित्रः पृथिव्या अध्यक्षः ।
स मावत्व् अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य्
अस्यां पुरोधायाम् अस्यां देहहूत्याम्
अस्याम् आकूत्याम् अस्याम् आशिषि स्वाहा ॥
वरुणो ऽपाम् अध्यक्षः ।
(…) ॥
वायुर् अन्तरिक्षस्याध्यक्षः ।
(…) ॥
सूर्यो दिवो ऽध्यक्षः ।
(…) ॥
चन्द्रमा नक्षत्राणाम् अध्यक्षः ।
(…) ॥
वसुः संवत्सराणाम् अध्यक्षः ।
(…) ॥
संवत्सर ऋतुनाम् अध्यक्षः ।
(…) ॥
अग्निर् वनस्पतीनाम् अध्यक्षः ।
(…) ॥
इन्द्रः कर्मणाम् अध्यक्षः ।
(…) ॥
सविता प्रसवानाम् अध्यक्षः ।
(…) ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0