भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.94

1.94.1

यास् ते शतं धमनयः
सहस्राणी च विंशतिः ।
बभ्रोर् अश्वस्य वारेण-
-अपि नह्यामि ता अहम् ॥

1.94.2

शतस्य ते धमनीनां
सहस्रस्यायुतस्य च ।
दृतेः पादम् इव सारथिर्
अपि नह्यामि यद् बिलम् ॥

1.94.3

परमस्यां परावति
शुष्को भण्डुश् च तिष्ठतः ।
ततः शुष्कस्य शुष्मेण
तिष्ठन्तु लोहिनीर् अपः ॥

1.94.4

परि वः सिकतामयं
मरुं बिले वपामसि ।
यकच् चिद् अस्रवीत् पुरा
तकच् चिद् अशमीद् इदम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc