पैप्पलाद-संहिता · अध्याय 1.81
यज्ञस्य चक्षुः प्रभृतिर् मुखं च
वाचा श्रोत्रेण मनसा जुहोमि ।
इमं यज्ञं विततं विश्वकर्मणा-
-आ देवा यन्तु सुमनस्यमानाः ॥
ये देवानाम् ऋत्विजो ये च यज्ञिया
येभ्यो हव्यं क्रियते भागधेयम् ।
इमं यज्ञं सह पत्नीभिर् एत्य
यावन्तो देवास् तति मादयन्ताम् ॥
यन् मा हुतं यद् अहुतम् आजगाम
यस्माद् अन्नान् मनसोद्रारजीमि ।
यद् देवानां चक्षुष आगसीनम्
अग्निष् टद् धोता सुहुतं कृणोतु ॥
अग्नेष् ट्वा जिह्वया हुतम् इष्टं मरुद्भिर्
अनुमतं पितृभिः प्राश्नामि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0