भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.79

1.79.1

वर्चस्वान् असि देवेषु
वर्चस्वान् ओषधीष्व् आ ।
अथो वर्चस्विनं कृधि
यम् अश्वत्थाधिरोहसि ॥

1.79.2

यम् अश्वत्थो अध्यरुक्षद्
राजा मनुष्यं जनम् ।
इन्द्रम् इव वि मृधो हनत्
तस्माद् राष्ट्रम् अनपच्युतम् ॥

1.79.3

आरोहो नाम वा असि
सहस्वान् उद् अजायथाः ।
तं त्वा सपत्नसासहम्
अश्वत्थ बिभराद् अयम् ॥

1.79.4

राजा वा असि भूतानाम्
ऋषभो वीरुधां पतिः ।
स नः सपत्नान् अश्वत्थ
विषूचो व्य् उद् आ कृधि ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc