पैप्पलाद-संहिता · अध्याय 1.63
यत् ते अन्नं भुवस्पत
आक्षियेत पृथिवीम् अनु ।
तस्य नस् त्वं भुवस्पते
सं प्र यच्छ प्रजापते ॥
व्यात्ते परमेष्ठिनो
ब्रह्मणापीपदाम तम् ।
संवत्सरस्य दंष्ट्राभ्यां
हेतिस् तं सम् अधाद् अभि ॥
इयं तं भवस्त्व् आहुतिः
समिद् देवी सहीयसी ।
राज्ञो वरुणस्य बन्धो असि
सो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम्
अह्ने रात्रये बधान ॥
मृणो ऽसि देव सवितर् गायत्रेण छन्दसा
मृणामुष्य पशून् द्विपदश् चतुष्पदः ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्
तं जहि तं मृण तस्मै मा मीमृडस् तस्मै दुराहा ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0