भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.60

1.60.1

अभि त्वाम् अहम् ओजसा-
-इन्द्रो दस्यून् इवाभुवम् ।
सपत्नि नश्यताद् इतो
दूरं गच्छाध्य् ओकसः ॥

1.60.2

सासहा इद् अहं पतिं
सासहै श्वशुरा उभौ ।
अथो सपत्नीं सासहै
यथा नश्यात्य् ओकसः ॥

1.60.3

अभिभूर् अहम् आगमं
विश्वकर्मा महावदात् ।
अहं मित्रस्य कल्पयन्न्
एषु गृहेषु दुष्टरात् ॥

1.60.4

उत् तिष्ठ मम वा इदं
न तवेहापि किं चन ।
मां चैव पश्यन्न् आयत्य्
अमुं च दिवि सूर्यम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc