पैप्पलाद-संहिता · अध्याय 1.40
ममोभा मित्रावरुणा
ममोभेन्द्राबृहस्पती ।
मम त्वष्टा च पूषा च
ममैव सविता वशे ॥
मम विष्णुश् च सोमश् च
ममैव मरुतो भुवन् ।
सरस्वांश् च भगश् च
विश्वे देवा वशे मम ॥
ममोभे द्यावापृथिवी
अन्तरिक्षं स्वर् मम ।
ममेमाः सर्वा ओषधीर्
आपः सर्वा वशे मम ॥
मम गावो ममाश्वा
ममाजाश् चावयश् च ।
ममैव पुरुषा भुवन्
ममेदं सर्वम् आत्मन्वद्
एजत् प्राणद् वशे मम ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0