पैप्पलाद-संहिता · अध्याय 1.4
विद्म ते शर पितरं
पर्जन्यं भूरिरेतसम् ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥
इन्द्रेण वरुणेन चन्द्रेण सूर्येण च ॥
यद् आन्त्रेषु गवीन्योर्
यद् वस्ताव् अधि संस्रुतम् ।
(…) ॥
प्र ते भिनद्मि मेहनं
वर्त्रं वेशन्त्या इव ।
तेना ते तन्वे शं करं
पृथिव्यां ते निषेचनं
बहिष् टे अस्तु बाल् इति ॥
यथेषुका परापतद्
अवसृष्टाधि धन्वनः ।
एवा ते मूत्रं मुच्यतां
बहिर् बाल् इति सर्वकम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0