पैप्पलाद-संहिता · अध्याय 1.38
इमा यास् तिस्रः पृथिवीस्
तासां ह भूमिर् उत्तमा ।
तासाम् अधि त्वचो अहं
सम् उ जग्रभ भेषजम् ॥
श्रेष्ठम् असि वैरुधानां
वसिष्ठं भेषजानाम् ।
यज्ञो भग इव यामेषु
देवेषु वरुणो यथा ॥
रेवतीर् अनाधृष्ठाः
सिषासन्तीः सिषासथ ।
एता स्थ केशवर्धनीर्
अथो स्थ केशदृंहणीः ॥
दृंह मूलम् अग्रं यच्छ
वि मध्यं यमयौषधे ।
केशवर्धनम् अस्य् आथर्वणं
केशदृंहणम् अस्य् आथर्वणम् ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0