भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.36

1.36.1

याः पुरस्ताद् आचरन्ति
या वा पश्चात् सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥

1.36.2

या अधाराद् आचरन्त्य्
उत्तराद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥

1.36.3

याः पश्चाद् आचरन्ति
पुरस्ताद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥

1.36.4

या उत्तराद् आचरन्त्य्
अधराद् वा सदान्वाः ।
अश्मानम् ऋच्छन्तीर् यन्तु
यो ऽयं स्वादाव् अनाद्यः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc