भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.19

1.19.1

अस्मिन् वसु वसवो धारयन्त्व्
इन्द्रस् त्वष्टा वरुणो मित्रो अग्निः ।
इमम् आदित्या उत विश्वे च देवा
उत्तमे देवा ज्योतिषि धारयन्तु ॥

1.19.2

अस्मै देवाः प्रदिशज् ज्योतिर् अस्तु
सूर्यो अग्निर् उत वा हिरण्यम् ।
उत्तरेण ब्रह्मणा वि भाहि
कृण्वानो अन्यान् अधरान् सपत्नान् ॥

1.19.3

येनेन्द्राय समभरं पयांस्य्
उत्तरेण ब्रह्मणा जातवेदः ।
तेन त्वम् अग्न इह वर्धयेमं
रायस्पोषं श्रैष्ठ्यम् आ धेह्य् अस्मै ॥

1.19.4

ऐषां यज्ञम् उत वर्चो भरे ऽहं
रायस्पोषम् उत वित्तान्य् अग्ने ।
सपत्ना अस्मद् अधरे भवन्तु-
-उत्तमे देवा ज्योतिषि धत्तनेमम् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc