पैप्पलाद-संहिता · अध्याय 1.109
सोमारुद्रा वि वृहतं विषूचीम्
अमीवा या नो गयम् आविवेश ।
बाधेथां द्वेषो निरृतिं पराचैः
कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥
तिग्मायुधौ तिग्महेती सुशेवौ
सोमारुद्राव् इह सु मृडतं नः ।
प्र णो मुञ्चतं दुरिताद् अवद्याद्
गोपायतं नः सुमनस्यमानौ ॥
सोमारुद्रा धारयेथाम् असुर्यं
प्र वाम् इष्ट्वा वरम् अश्नवातै ।
युवं नो धत्ताम् इह भेषजानि
प्र यच्छतं वृषणा जेत्वानि ॥
सोमारुद्रा युवम् अस्मास्व् अन्तस्
तनूषु विश्वा भेषजानि धत्तम् ।
अव स्यतं मुञ्चतं किं चिद् एनो
अङ्गेषु बद्धम् उत यदृशत्वि ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0