भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 1.103

1.103.1

आगन् रात्री संगमनी वसूनां
विश्वं पुष्टं वस्व् आवेशयन्ती ।
अमावास्यायै हविषा विधेम-
-ऊर्जं वसाना पयसा न आगन् ॥

1.103.2

मा त्वा रात्रि पुरो दघन्
मोत पश्चाद् विभावरि ।
आयुष्मन्तः सुप्रजसः सुवीरा
ऋध्यास्म त्वा सुवर्चसः ॥

1.103.3

यस्य देवस्य सुमतौ सुनीतिर्
एति सुमतिं गृहाणाम् ।
आ मा पुष्टं च पोष्यं च
रात्र्या देवानां सुमतौ स्याम ॥

1.103.4

अहम् एवास्म्य् अमावास्या-
-अमा वसन्ति सुकृतो मयीमे ।
मयि देवा उभये साध्याश् च-
-इन्द्रज्येष्ठाः सम् अगच्छन्त सर्वे ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc