पादार्थधर्मसंग्रह · श्लोक 9.5-305
स्रोतोभूतानाम्.अपाम्.स्थलान्निम्नाभिसर्पणम्.यत्.तद्.द्रवत्वात्.स्यन्दनम्.।
कथम्.समन्ताद्.रोधह्सम्योगेनावयविद्रवत्वम्.प्रतिबद्धम्.अवयवद्रवत्वम्.अप्य्.एकार्थसमवेतम्.तेनैव.प्रतिबद्धम्.उत्तरोत्तरावयवद्रवत्वानि.सम्युक्तसम्योगैः.प्रतिबद्धानि.।
यदा.तु.मात्रया.सेतुभेदः.कृतो.भवति.तदा.समन्तात्.प्रतिबद्धत्वाद्.अवयविद्रवत्वस्य.कार्यारम्भो.नास्ति.सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषाम्.अवयवद्रवत्वानाम्.प्रतिबन्धकाभावाद्.वृत्तिलाभः.।
ततः.क्रमशः.सम्युक्तानाम्.एवाभिसर्पणम्.ततः.पूर्वद्रव्यविनाशे.सति.प्रबन्धेनावस्थितैर्.अवयविर्.दीर्घम्.द्रव्यम्.आरभ्यते.तत्र.च.कारणगुणपूर्वक्रमेण.द्रवत्वम्.उत्पद्यते.तत्र.च.कारणानाम्.सम्युक्तानाम्.प्रबन्धेन.गमने.यद्.अवयविनि.कर्मोत्पद्यते.तत्.स्यन्दनाख्यम्.इति.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0