पादार्थधर्मसंग्रह · श्लोक 9.4-301
तथा.यन्त्रम्.उक्तेषु.गमन्विधिः.।
कथम्.यो.बलवान्.कृतव्यायामो.वामेन.करेण.धनुर्.विष्टभ्य.दक्षिणेन.शरम्.सन्धाय.सशराम्.ज्याम्.मुष्टिना.गृहीत्वा.आकर्षणेच्छाम्.करोति.सज्येष्व्.आकर्षयाम्य्.एतद्.धनुर्.इति.।
तदनन्तरम्.प्रयत्नस्.तम्.अपेक्षमाणाद्.आत्महस्तसम्योगाद्.आकर्षणकर्म.हस्ते.यदैवोत्पद्यते.तदैव.तम्.एव.प्रयत्नम्.अपेक्षमाणाद्.धस्तज्याशरसम्योगाद्.ज्यायाम्.शरे.च.कर्म.प्रयत्नविशिष्टहस्तज्याशरसम्योगम्.अपेक्षमाणाभ्याम्.ज्याकोटिसम्योगाभ्याम्.कर्मणी.भवतो.धनुष्कोट्योर्.इत्य्.एतत्.सर्वम्.युगपत्.।
एवम्.आकर्णाद्.आकृष्टे.धनुषि.नातः.परम्.अनेन.गन्तव्यम्.इति.यज्.ज्ञानम्.ततस्.तद्.आकर्शणार्थस्य.प्रयत्नस्य.विनाशस्.ततः.पुनर्.मोक्षणेच्छा.संजायते.तदनन्तरम्.प्रयत्नस्.तम्.अपेक्षमाणाद्.आत्माङ्गुलिसम्योगाद्.अङ्गुलिकर्म.तस्माज्.ज्याङ्गुलिविभागः.ततो.विभागात्.सम्योगविनाशः.तस्मिन्.विनष्टे.प्रतिबन्धकाभावाद्.यदा.धणुषि.वर्तमानः.स्थितिस्थापकः.संस्कारो.मण्डलीभूतम्.धनुर्.यथावस्थितम्.स्थापयति.तदा.तम्.एव.संस्कारम्.अपेक्षमाणाद्.धनुर्.ज्यासम्योगाज्.ज्यायाम्.शरे.च.कर्मोत्पद्यते.तत्स्व्.अकारणापेक्षम्.ज्यायाम्.संस्कारम्.करोति
तम्.अपेक्षमाण.इषुज्यासम्योगो.नोदनम्.तस्माद्.इषावाद्यम्.कर्म.नोदनापेक्षम्.इषौ.संस्कारम्.आरभते.।
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0