पादार्थधर्मसंग्रह · श्लोक 12-327
ननु.यद्य्.एकः.समवायो.द्रव्यगुणकर्मणाम्.द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः.सह.सम्बन्धैकत्वात्.पदार्थसङ्करप्रसङ्ग.इति.न.आधाराधेयनियमात्.।
यद्य्.अप्य्.एकः.समवायः.सर्वत्र.स्वतन्त्रः.तथाप्य्.आधाराधेयनियमो.ऽस्ति.।
कथम्.द्रव्येष्व्.एव.द्रव्यत्वम्.गुणेष्व्.एव.गुणत्वम्.कर्मस्व्.एव.कर्मत्वम्.इति.।
एवम्.आदि.कस्माद्.अन्वयव्यतिरेकदर्शनात्.।
इहेतिसमवायनिमित्तस्य.ज्ञानस्यान्वयदर्शनात्.सर्वत्रैकः.समवाय.इति.गम्यते.।
द्रव्यत्वादिनिमित्तानाम्.व्यतिरेकदर्शनात्.प्रतिनियमो.ज्ञायते.।
यथा.कुण्डदध्नोः.सम्योगैकत्वे.भवत्य्.आश्रयाश्रयिभावनियमः.।
तथा.द्रव्यत्वादीनाम्.अपि.समवायैकत्वे.ऽपि.व्यङ्ग्यव्यंजकशक्तिभेदाद्.आधाराधेयनियम.इति.॥
मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0