भाषा

ENहिગુ
ग्रंथ पाठ

पादार्थधर्मसंग्रह · श्लोक 11-322

11-322.2-

यदि.पुनर्.अन्त्यविशेषम्.अन्तरेण.योगिनाम्.योगजाद्.धर्मात्.प्रत्ययव्यावृत्तिः.प्रत्यभिज्ञानम्.च.स्यात्.ततः.किम्.स्यान्.नैवम्.भवति.।
यथा.न.योगजाद्.धर्माद्.अशुक्ले.शुक्लप्रत्ययः.संजायते.अत्यन्तादृष्टे.च.प्रत्यभिज्ञानम्.।
यदि.स्यान्.मिथ्या.भवेत्.तथेहाप्य्.अन्त्यविशेषम्.अन्तरेण.योगिनाम्.न.योगजाद्.धर्मात्.प्रत्ययव्यावृत्तिः.प्रत्यभिज्ञानम्.वा.भवितुम्.अर्हति.।
अथान्त्यविशेषेष्व्.इव.परमाणुषु.कस्मान्.न.स्वतः.प्रत्ययव्यावृत्तिः.कल्प्यते.इति.चेन्.न.तादात्म्यात्.।
इहातदात्मकेष्व्.अन्यनिमित्तः.प्रत्ययो.भवति.यथा.घटादिषु.प्रदीपात्.न.तु.प्रदीपे.प्रदीपान्तरात्.।
यथा.गवाश्वमांसादीनाम्.स्वत.एवाशुचित्वम्.तद्योगाद्.अन्येषाम्.तथेहापि.तादात्म्याद्.अन्त्यविशेषेषु.स्वत.एव.प्रत्ययव्यावृत्तिः.तद्योगात्.परमाण्वादिष्व्.इति.॥

मूल पाठ: Pādārthadharmasaṃgraha commentary on Kaṇāda's Vaiśeṣikasūtra · Edition: The Prasastapadabhasya with Commentary Nyayakandali of Sridhara. Ed. by V. P. Dvivedin. Sri Garbi Dass Oriental Ser., 13, Delhi: Sri Satguru Publications. [Reprint of the edition Benares 1895, Vizianagram Sanskrit Series ; 6] · Data entry Muneo Tokunaga Muroya · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc