भाषा

ENहिગુ
ग्रंथ पाठ

मीनाक्षीस्त्रोत्रम् · अध्याय 1

1

उद्यद्भानुसहस्रकॊटिसदृशां कॆयूरहारॊज्ज्वलां
बिम्बॊष्ठीं स्मितदन्तपंक्तिरुचिरां पीताम्बरालङ्कृताम्।
विष्णुब्रह्मसुरॆन्द्रसॆवितपदां तत्त्वस्वरूपां शिवां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारान्निधिम्

2

मुक्ताहारलसत्किरीटरुचिरां पूर्णॆन्दुवक्त्रप्रभां
शिञ्जन्नूपुरकिङ्किणीमणिधरां पद्मप्रभाभासुराम्।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासॆवितां
मीनाक्षीं प्रणतॊऽस्मि संततमहं कारुण्यवारान्निधिम्

3

श्रीविद्यां शिववामभागनिलयां ह्रीकारमन्त्रॊज्ज्वलां
श्रीचक्राङ्कित बिन्दुमध्यवसतिं श्रीमत्सभानायकीम्।
श्रीमत्षण्मुखविष्णुराजजननीं श्रीमज्जगन्मॊहिनीं
मीनाक्षीं प्रणतॊऽस्मि संततमहं कारुण्यवारान्निधिम्

4

श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां
श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम्।
वीणावॆणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां
मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारान्निधिम्

5

नानायॊगिमुनीन्द्रहृन्निवसतिं नानार्थसिद्धप्रदां
नानापुष्पविराजिताङ्घ्रियुगलां नारायणॆनार्चिताम्।
नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां
मीनाक्षीं प्रणतॊऽस्मि संततमहं कारुण्यवारान्निधिम्

मूल पाठ: mīnākṣīstrotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc