मेघदूत-अच्च्-वल्लभदेव · श्लोक 21-40
नीपं दृष्ट्वा हरितकपिशं केसरैर् अर्धरूढैर् आविर्भूतप्रथममुकुलाः कन्दलीश् चानुकच्छम्
दग्धारण्येष्व् अधिकसुरभिं गन्धम् आघ्राय चोर्व्याः सारङ्गास् ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥
उत्पश्यामि द्रुतम् अपि सखे मत्प्रियार्थं यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते
शुक्लापाङ्गैः सनयनजलैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथम् अपि भवान् गन्तुम् आशु व्यवस्येत् ॥
पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैर् नीडारम्भैर् गृहबलिभुजाम् आकुलग्रामचैत्याः
त्वय्य् आसन्ने फलपरिणतिश्यामजम्बूवनान्ताः संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥
तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलम् अविकलं कामुकत्वस्य लब्धा
तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यत् तत् सभ्रूभङ्गं मुखम् इव पयो वेत्रवत्याश् चलोर्मि ॥
नीचैराख्यं गिरिम् अधिवसेस् तत्र विश्रामहेतोस् त्वत्सम्पर्कात् पुलकितम् इव प्रौढपुष्पैः कदम्बैः
यः पण्यस्त्रीरतिपरिमलोद्गारिभिर् नागराणाम् उद्दामानि प्रथयति शिलावेश्मभिर् यौवनानि ॥
विश्रान्तः सन् व्रज वननदीतीरजातानि सिञ्चन्न् उद्यानानां नवजलकणैर् यूथिकाजालकानि
गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥
वक्रः पन्था यद् अपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूर् उज्जयिन्याः
विद्युद्दामस्फुरितचकितैस् तत्र पौराङ्गनानां लोलापाङ्गैर् यदि न रमसे लोचनैर् वञ्चितो ऽसि ॥
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य स्त्रीणाम् आद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥
वेणीभूतप्रतनुसलिलां ताम् अतीतस्य सिन्धुं पाण्डुच्छायां तटरुहतरुभ्रंशिभिर् जीर्णपर्णैः
सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्तीं कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः ॥
प्राप्यावन्तीन् उदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टाम् अनुसर पुरीं श्रीविशालां विशालाम्
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषैः पुण्यैर् हृतम् इव दिवः कान्तिमत् खण्डम् एकम् ॥
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः
यत्र स्त्रीणां हरति सुरतग्लानिम् अङ्गानुकूलः सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥
जालोद्गीर्णैर् उपचितवपुः केशसंस्कारधूमैर् बन्धुप्रीत्या भवनशिखिभिर् दत्तनृत्तोपहारः
हर्म्येष्व् अस्याः कुसुमसुरभिष्व् अध्वखिन्नान्तरात्मा नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥
भर्तुः कण्ठच्छविर् इति गणैः सादरं दृश्यमाणः पुण्यं यायास् त्रिभुवनगुरोर् धाम चण्डेश्वरस्य
धूतोद्यानं कुवलयरजोगन्धिभिर् गन्धवत्यास् तोयक्रीडानिरतयुवतिस्नानतिक्तैर् मरुद्भिः ॥
अप्य् अन्यस्मिञ् जलधर महाकालम् आसाद्य काले स्थातव्यं ते नयनविषयं यावद् अभ्येति भानुः
कुर्वन् संध्याबलिपटहतां शूलिनः श्लाघनीयाम् आमन्द्राणां फलम् अविकलं लप्स्यसे गर्जितानाम् ॥
पादन्यासक्वणितरशनास् तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश् चामरैः क्लान्तहस्ताः
वेश्यास् त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ति त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥
पश्चाद् उच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सांध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः
नृत्तारम्भे हर पशुपतेर् आर्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर् भवान्या ॥
गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस् तमोभिः
सौदामिन्या कनकनिकषस्निग्धया दर्शयोर्वीं तोयोत्सर्गस्तनितमुखरो मा स्म भूर् विक्लवास् ताः ॥
तां कस्यां चिद् भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात् खिन्नविद्युत्कलत्रः
दृष्टे सूर्ये पुनर् अपि भवान् वाहयेद् अध्वशेषं मन्दायन्ते न खलु सुहृदाम् अभ्युपेतार्थकृत्याः ॥
तस्मिन् काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिर् अतो वर्त्म भानोस् त्यजाशु
प्रालेयास्रं कमलवदनात् सो ऽपि हर्तुं नलिन्याः प्रत्यावृत्तस् त्वयि कररुधि स्याद् अनल्पाभ्यसूयः ॥
गम्भीरायाः पयसि सरितश् चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम्
तस्मात् तस्याः कुमुदविशदान्य् अर्हसि त्वं न धैर्यान् मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥
मूल पाठ: Meghadūta-acc-Vallabhadeva · Edition: Eugen Hultzsch: Kalidasa's Meghaduta, ed. from Manuscripts with the commentary of Vallabhadeva. London: Royal Asiatic Society 1911 (Prize Publication Fund ; 4) · Data entry Asko Parpola · GRETIL (Göttingen) · CC BY-NC-SA 4.0