मेघदूत · श्लोक 41-60
तस्याः किं चित् करधृतम् इव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम्
प्रस्थानं ते कथम् अपि सखे लम्बमानस्य भावि ज्ञातास्वादो विवृतजघनां को विहातुं समर्थः ॥
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्करम्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः
नीचैर् वास्यत्य् उपजिगमिषोर् देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान् व्योमगङ्गाजलाद्रेः
रक्षाहेतोर् नवशशिभृता वासवीनां चमूनाम् अत्यादित्यं हुतवहमुखे संभृतं तद्द् हि तेजः ॥
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति
धौतापाङ्गं हरशशिरुचा पावकेस् तं मयूरं पश्चाद् अद्रिग्रहणगुरुभिर् गर्जितैर् नर्तयेथाः ॥
आराध्यैनं शरवणभवं देवम् उल्लङ्घिताध्वा सिद्धद्वन्द्वैर् जलकणभयाद् वीणिभिर् मुक्तमार्गः
व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥
त्वय्य् आदातुं जलम् अवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुम् अपि तनुं दूरभावात् प्रवाहम्
प्रेक्षिष्यन्ते गगनगतयो दूरम् आवर्ज्य दृष्टीर् एकं मुक्तागुणम् इव भुवः स्थूलमध्येन्द्रनीलम् ॥
ताम् उत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपाद् उपरिविलसत्कृष्णशारप्रभाणाम्
कुन्दक्षेपानुगमधुकरश्रीमुषाम् आत्मबिम्बं पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥
ब्रह्मावर्तं जनपदम् अधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद् भजेथाः
राजन्यानां शितशरशतैर् यत्र गाण्डीवधन्वा धारापातैस् त्वम् इव कमलान्य् अभ्यवर्षन् मुखानि ॥
हित्वा हालाम् अभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे
कृत्वा तासाम् अभिगमम् अपां सौम्य सारस्वतीनाम् अन्तःशुद्धस् त्वम् असि भविता वर्णमात्रेण कृष्णः ॥
तस्माद् गच्छेर् अनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम्
गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणम् अकरोद् इन्दुलग्नोर्मिहस्ता ॥
तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेद् अच्छस्फटिकविशदं तर्कयेस् तिर्यग् अम्भः
संसर्पन्त्या सपदि भवतः स्रोतसि च्छायया सा स्याद् अस्थानोपगतयमुनासंगम् एवाभिरामा ॥
आसीनानां सुरभितशिलं नाभिगन्धैर् मृगाणां तस्या एव प्रभवम् अचलं प्राप्य गौरं तुषारैः
वक्ष्यस्य् अध्वश्रमविनयने तस्य शृङ्गे निषण्णः शोभां शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥
तं चेद् वायौ सरति सरलस्कन्धसंघट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः
अर्हस्य् एनं शमयितुम् अलं वारिधारासहस्रैर् आपन्नार्तिप्रशमनफलाः संपदो ह्य् उत्तमानाम् ॥
ये त्वां मुक्तध्वनिम् असहनाः स्वाङ्गभङ्गाय तस्मिन् दर्पोत्सेकाद् उपरि शरभा लङ्घयिष्यन्त्य् अलङ्घ्यम्
तान् कुर्वीथास् तुमुलकरकावृष्टिहासावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥
तत्र व्यक्तं दृषदि चरणन्यासम् अर्धेन्दुमौलेः शश्वत् सिद्धैर् उपहृतबलिं भक्तिनम्रः परीयाः
यस्मिन् दृष्टे करणविगमाद् ऊर्ध्वम् उद्धूतपापाः कल्पन्ते ऽस्य स्थिरगणपदप्राप्तये श्रद्दधानाः ॥
शब्दायन्ते मधुरम् अनिलैः कीचकाः पूर्यमाणाः संरक्ताभिस् त्रिपुरविजयो गीयते किंनरीभिः
निर्ह्रादी ते मुरज इव चेत् कन्दरेषु ध्वनिः स्यात् संगीतार्थो ननु पशुपतेस् तत्र भावी समस्तः ॥
प्रालेयाद्रेर् उपतटम् अतिक्रम्य तांस् तान् विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत् क्रौञ्चरन्ध्रम्
तेनोदीचीं दिशम् अनुसरेस् तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥
गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः
शृङ्गोच्छ्रायैः कुमुदविशदैर् यो वितत्य स्थितः खं राशीभूतः प्रतिदिशम् इव त्र्यम्बकस्याट्टहासः ॥
उत्पश्यामि त्वयि तटगते स्निग्धभिन्नाञ्जनाभे सद्यःकृत्तद्विरददशनच्छेदगौरस्य तस्य
लीलाम् अद्रेः स्तिमितनयनप्रेक्षणीयां भवित्रीम् अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥
हित्वा तस्मिन् भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विहरेत् पादचारेण गौरी
भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु पदसुखस्पर्शम् आरोहणेषु ॥
मूल पाठ: Meghadūta · Edition: S. K. De: Megha-dūta of Kālidāsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 · Data entry Asko Parpola · GRETIL (Göttingen) · CC BY-NC-SA 4.0