मेघदूत · श्लोक 1-20
कश् चित् कान्ताविरहगुरुणा स्वाधिकारप्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः
यक्षश् चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥
तस्मिन्न् अद्रौ कति चिद् अबलाविप्रयुक्तः स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः
आषाढस्य प्रथमदिवसे मेघम् आश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥
तस्य स्थित्वा कथम् अपि पुरः केतकाधानहेतोर् अन्तर्बाष्पश् चिरम् अनुचरो राजराजस्य दध्यौ
मेघालोके भवति सुखिनो ऽप्य् अन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर् दूरसंस्थे ॥
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन् प्रवृत्तिम्
स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥
धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः
इत्य् औत्सुक्याद् अपरिगणयन् गुह्यकस् तं ययाचे कामार्ता हि प्रकृतिकृपणाश् चेतनाचेतनेषु ॥
जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर् गतो ऽहं याच्ञा मोघा वरम् अधिगुणे नाधमे लब्धकामा ॥
संतप्तानां त्वम् असि शरणं तत् पयोद प्रियायाः संदेशं मे हर धनपतिक्रोधविश्लेषितस्य
गन्तव्या ते वसतिर् अलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥
त्वाम् आरूढं पवनपदवीम् उद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययाद् आश्वसन्त्यः
कः संनद्धे विरहविधुरां त्वय्य् उपेक्षेत जायां न स्याद् अन्यो ऽप्य् अहम् इव जनो यः पराधीनवृत्तिः ॥
मन्दं मन्दं नुदति पवनश् चानुकूलो यथा त्वां वामश् चायं नदति मधुरं चातकस् ते सगन्धः
गर्भाधानक्षणपरिचयान् नूनम् आबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥
तां चावश्यं दिवसगणनातत्पराम् एकपत्नीम् अव्यापन्नाम् अविहतगतिर् द्रक्ष्यसि भ्रातृजायाम्
आशाबन्धः कुसुमसदृशं प्रायशो ह्य् अङ्गनानां सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥
कर्तुं यच् च प्रभवति महीम् उच्छिलीन्ध्राम् अवन्ध्यां तच् छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः
आ कैलासाद् बिसकिसलयच्छेदपाथेयवन्तः संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥
आपृच्छस्व प्रियसखम् अमुं तुङ्गम् आलिङ्ग्य शैलं वन्द्यैः पुंसां रघुपतिपदैर् अङ्कितं मेखलासु
काले काले भवति भवता यस्य संयोगम् एत्य स्नेहव्यक्तिश् चिरविरहजं मुञ्चतो बाष्पम् उष्णम् ॥
मार्गं तावच् छृणु कथयतस् त्वत्प्रयाणानुरूपं संदेशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम्
खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥
अद्रेः शृङ्गं हरति पवनः किं स्विद् इत्य् उन्मुखीभिर् दृष्टोत्साहश् चकितचकितं मुग्धसिद्धाङ्गनाभिः
स्थानाद् अस्मात् सरसनिचुलाद् उत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥
रत्नच्छायाव्यतिकर इव प्रेक्ष्यम् एतत् पुरस्ताद् वल्मीकाग्रात् प्रभवति धनुःखण्डम् आखण्डलस्य
येन श्यामं वपुर् अतितरां कान्तिम् आपत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥
त्वय्य् आयत्तं कृषिफलम् इति भ्रूविकारानभिज्ञैः प्रीतिस्निग्धैर् जनपदवधूलोचनैः पीयमानः
सद्यःसीरोत्कषणसुरभिक्षेत्रम् आरुह्य मालं किं चित् पश्चाद् व्रज लघुगतिर् भूय एवोत्तरेण ॥
त्वाम् आसारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्य् अध्वश्रमपरिगतं सानुमान् आम्रकूटः
न क्षुद्रो ऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर् यस् तथोच्चैः ॥
छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रैस् त्वय्य् आरूढे शिखरम् अचलः स्निग्धवेणीसवर्णे
नूनं यास्यत्य् अमरमिथुनप्रेक्षणीयाम् अवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥
स्थित्वा तस्मिन् वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गद्रुततरगतिस् तत्परं वर्त्म तीर्णः
रेवां द्रक्ष्यस्य् उपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैर् इव विरचितां भूतिम् अङ्गे गजस्य ॥
तस्यास् तिक्तैर् वनगजमदैर् वासितं वान्तवृष्टिर् जम्बूकुञ्जप्रतिहतरयं तोयम् आदाय गच्छेः
अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥
मूल पाठ: Meghadūta · Edition: S. K. De: Megha-dūta of Kālidāsa, 2nd rev. ed. by V. Raghavan. New Delhi : Sahitya Akademi 1970 · Data entry Asko Parpola · GRETIL (Göttingen) · CC BY-NC-SA 4.0