मारीचीनामधारणी · भाग 11
मारीचीनामधारणी
ओं नमो भगवत्यै आर्यमारीचीदेवतायै ।
एवं मया श्रुतम् एकस्मिन् समये भगवान् श्रावस्त्यां विहरति स्म । जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धत्रयोदशभिक्षुशतैः संबहुलैश् च महाश्रावकबोधिसत्वमहासत्वैः । तत्र खलु भगवान् भिक्षून् आमन्त्रयते स्म । अस्ति भिक्षवो मारीची नाम देवता सा सूर्यचन्द्रमासोः पुरतो ऽनूपगच्छति । सा न दृश्यते न गृह्यते न बध्यते न निरुध्यते न विरुध्यते न मुष्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोर् अनूपगच्छति । यो ऽपि तस्य भिक्षवो मारीचीनामदेवताया नाम जानाति सो ऽपि न दृश्यते न गृह्यते न बध्यते न निरुध्यते न विरुध्यते न मुष्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोर् अनूपगच्छति । सो ऽहं भिक्षवो मारीचीनामदेवताया नाम जानामि । अहम् अपि @अयम् अपि@@ न दृश्यते न बध्यते न निरुध्यते न विरुध्यते न मुह्यते न दण्ड्यते न मुण्ड्यते न दह्यते न शत्रोर् अनूपगच्छति । इमानि मन्त्रपदानि भवन्ति । तद्यथा ः ओं पदाक्रमसि पराक्रमसि उदयमसि नैरमसि अर्कमसि मर्कमसि उर्मसि वनमसि गुल्ममसि चीवरमसि महाचीवरमसि अन्तर्धानमसि स्वाहा ।
ओं मारीचीदेवता पथे मां गोपय । उत्पथे मां गोपय । पुरुषभयतो मां गोपय । राजभयतो मां गोपय । हस्तिभयतो मां गोपय । चौरभयतो मां गोपय । नागभयतो मां गोपय । सिंहभयतो मां गोपय । व्याघ्रभयतो मां गोपय । अश्वभयतो मां गोपय । ( माध् 158 ) अग्निभयतो मां गोपय । उदकभयतो मां गोपय । सर्पभयतो मां गोपय । विषभयतो मां गोपय । सर्वप्रत्यर्थिकप्रत्यमित्रभयतो मां गोपय । आकुलेषु मां गोपय । अनाकुलेषु मां गोपय । मूर्च्छितेषु मां गोपय । अमूर्च्छितेषु मां गोपय । नागतो मे रक्ष । चण्डमृगतो मे रक्ष । रक्ष 2 मम सर्वसत्वानां च सर्वदुष्टप्रदुष्टेभ्यः । तद्यथा ः नमो रत्नत्रयाय ओं आलो तालो कालो सच्छलो सत्वमुद्रति रक्ष रक्ष मां सपरिवारस्य सर्वसत्वानां च सर्वभयोपद्रवेभ्यः स्वाहा ।
नमो रत्नत्रयाय । नमो भगवत्यै आर्यमारीचीदेवतायै । तस्या हृदयम् आवर्तयिष्यामि । तद्यथा ः ओं वत्ताली वदाली वराली वराहमुखी । सर्वदुष्टप्रदुष्टानां चक्षुर्मुखं बन्ध बन्ध । बन्ध मुखं जम्भय स्तम्भय मोहय स्वाहा । ओं मारीच्यै स्वाहा । ओं वराली वदाली वत्ताली वराहमुखी सर्वदुष्टप्रदुष्टानां चक्षुर्मुखं बन्ध बन्ध जम्भय जम्भय स्तम्भय स्तम्भय मोहय मोहय भञ्जय भञ्जय तर्जय तर्जय ह्रीं ह्रीं हूं हूं फट्* स्वाहा । ओं मारीच्यै सर सर मुह्य मुह्य विमुह्य विमुह्य अपक्राम्य अपक्राम्य सर्वदुष्टसत्वान् पथे उत्पथे सर्वविध्नविनायका अपसरन्तु मा तिष्ठन्तु त्रिरत्नसत्येन स्वाहा । ओं चण्ड परमचण्ड स्वाहा । ओं अगलि पगलि पञ्चगलि सर्वदुष्टप्रदुष्टानां कायवाक्चित्तं मुखं चक्षुषि बन्ध बन्ध हूं हूं हूं फट्* फट्* फट्* स्वाहा ।
इदम् अवोचद् भगवान् आत्तमनास् ते च भिक्षवस् ते च बोधिसत्वाः सा च सर्वावती पर्षत् सदेवमानुषासुरगरुडगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दन्न् इति ।
॥ आर्यमारीची नाम धारणी समाप्ता ॥
मूल पाठ: Mārīcīnāmadhāraṇī · Edition: : Āryamārīcī-nāma-dhāraṇī, Dhīḥ 42 (2006), pp. 157-158. = Mādh · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0