भाषा

ENहिગુ
ग्रंथ पाठ

महाप्रतिसराविद्याविधि · भाग 11

महाप्रतिसराविद्याविधि
नमो भगवत्यै आर्यमहाप्रतिसरायै ॥
नत्वा प्रतिसरां भक्त्या सर्वबुद्धाभिनन्दिताम् ।
विभूत्यै सर्वसत्त्वानां तच्चक्रं लिख्यते मया ॥
शुचिः समाहितः सन् बल्यादिकं दत्त्वा निर्मुष्टिहस्तप्रमाणां भूर्जत्वचं वस्त्रं वा समादाय प्रथमं तावच् चतुरङ्गुलप्रमाणं पुटम् एकं लिखेत् ॥ तन्मध्ये ऽर्धेन्दुबिन्दुभूषितं हूंकाराष्टकवेष्टितं प्रैंकारम् । तन्मध्ये मन्त्रम् ।
ओं मणिधरि वज्रिणि महाप्रतिसरे धारकस्य रक्षं शान्तिपुष्टिं कुरु हूं 2 फट् 2 स्वाहा ॥
ततो बाह्ये ऽर्धाङ्गुलपुटद्वयम् ॥ तत्र प्रथमे पुटे मन्त्रम् ओं मणीतिपूर्वकम् एव । द्वितीये तथैव द्विधा । ततो बाह्ये त्र्यङ्गुलपुटम् एकम् । तत्र चतुर्दिक्षु चतुःपद्मदले रेखाद्वितय संधौ पूर्वादिदिक्क्रमेण मन्त्रं लिखेत् ॥
ओं विमले विपुले जयवरे अमृते धारकस्य रक्षां कुरु हूं 2 फट् 2 स्वाहा ॥
दक्षिणे ॥
ओं अमृतविलोकिनि गर्भसंरक्षणि आकर्षणि धारकस्य रक्षां शान्तिपुष्टिं कुरु हूं 2 फट् 2 स्वाहा ।
[म्प्व्व्, पगे 477]
पश्चिमे ॥
ओं भर 2 संभर 2 इन्द्रियबलविशोधनि धारकस्य रक्षां कुरु हूं 2 फट् 2 रुरु चले स्वाहा ॥
उत्तरे ॥
ओं अमृतवरे वर वर प्रवरविशुद्धे धारकस्य रक्षां शान्तिपुष्टिं कुरु हूं 2 फट् 2 स्वाहा ॥
दलानां मध्ये हूंकाराष्टकवेष्टितप्रैंकारमध्ये मणिधरीत्यादि मन्त्रं लिखेत् ॥ चतुर्विदिक्षु चतुस्त्रिशूकवज्रार्धगर्भे आग्नेयादिकोणक्रमेण मन्त्रं लिखेत् ॥
ओं विस्फोटवज्रिणि धारकस्य रक्षां कुरु हूं 2 फट् 2 स्वाहा ॥
नैरृत्ये ॥
ओं अमृतवरे धारकस्य रक्षां कुरु हूं 2 फट् 2 स्वाहा ॥
वायव्ये ।
ओं विमले धारकस्य रक्षां कुरु हूं 2 फट् 2 स्वाहा ॥
ऐशाने ।
ओं जयवरे धारकस्य रक्षां कुरु हूं 2 फट् 2 स्वाहा ॥
पद्मदलत्रिशूकवज्रार्धयोर् अष्टसंधिषु आग्नेयादिदिक्क्रमेण ।
ओं निशुम्भवज्रिणि धारकस्य रक्षां कुरु हूं 2 फट् 2 स्वाहा ॥ ओं शुम्भवज्रिणि धारकस्य रक्षां कुरु हूं 2 फट् 2 स्वाहा ॥
इति मन्त्रद्वयम् एकान्तरितं लिखेत् ॥ ततो बाह्ये ऽर्धाङ्गुलप्रमाणपुटचतुष्टयं कुर्यात् । ततः प्रथमे पुटे ह्रीःकारपङ्क्तिम् एकां लिखेत् ॥ ॥
द्वितीये ।
[म्प्व्व्, पगे 478]
ओं अपराजिते महादेवि त्रट् । ओं कालकर्णि कृत् । ओं पद्मकुण्डलि पं । ओं पुष्पदन्तिनि हूं ॥ ओं मण्यङ्कुशि हूं ॥ ओं वज्रशृङ्खले फुं । ओं श्वेते वं । ओं महाश्वेते फं । ओं महाकालि ह्रीः । ओं वज्ररति कृत् । ओं वज्रकालि ह्रीः । ओं वज्रपाशि फेः । ओं वज्रपाशि भृत् ॥ ओं वज्रपाणि महाबले धीः । ओं वज्रमाले मां । ओं अमृतकुण्डलि स्वाहा । ओं ज्वल 2 हूं फट् स्वः । ओं टक्कि हूम् जः स्वाहा ॥ ॥
तृतीये ।
ओं चूडे ह्रीः । ओं सुवर्णकेशि कृत् ॥ ओं पिङ्गले लं ॥ ओं विद्युन्मालिनि जः हूं । ओं शान्तिकरि हूं । ओं पुष्टिबलवर्धनि हः । ओं शुम्भकरि हूं । ओं मणिधरि हूं ॥ ओं रत्नमकुटमालाधरि ह्रीः । ओं महाप्रतिसरे प्रं । ओं धुरु 2 मुरु 2 हुरु 2 मेरु 2 हूं 2 । ओं बलवर्धनि होः । ओं रुरु चले हूं 2 फट् 2 स्वाहा । ओं मणिधरि महाप्रतिसरे धारकस्य रक्षां शान्तिं पुष्टिं कुरु हूं 2 फट् 2 स्वाहा ॥ ॥
चतुर्थे ।
ओं तारे ताम् अः । ओं मुः । ओं आः राक्षस्य् एकजटे ज्नां ॥ ओं बुद्धे क्षितिके हे हूं ॥ ओं कापालिनि हूं ॥ ओं लङ्केश्वरि खं ॥ ओं धन्ये लं ॥ ओं केशिनि अं । ओं लङ्केश्वरि मुः । ओं हारीति हां ह्रीं ॥ ओं पाञ्चिके कें ॥ ओं शङ्खिनि सं कट् ॥ ओं कूटदन्तिनि कट् ॥ ओं श्रियादेवि श्रीः । ओं सरस्वति बं । ओं रक्ष 2 धारकं [म्प्व्व्, पगे 479] सर्वभयेभ्यः धीः । ओं देवि श्रीः । ओं पद्मे पं । ओं मणिधरि वज्रिणि हूं ॥ ओं लोचने लां । ओं मामकि मां । ओं पाण्डरे पां । ओं वसुधारे वं ॥ ओं कुरुकुल्ले ह्रीः । ओं भृकुटि भृं । ओं भ्रूं हूं भ्रूं आः ॥ ॥
ततो बाह्ये द्व्यङ्गुलप्रमाणं पुटम् एकं कुर्यात् ॥ तत्र ऊर्ध्वशिरस्कान्य् अष्टचत्वारिंशद् वज्राणि पङ्क्त्या संलिखेत् ॥ वज्रद्वितयसंधौ पश्चिमादिदिक्क्रमेण लं क्षुं कीं क्लूं ईं भ्रूं फं मः खं हः यां ज्रीं आं ह्रीः रीं ड्रीं लीं हीं सुं क्रं जः धां प्रों होः हूं आः फट् जं स्मं लं कं बं ऋं प्लूं त्रें भों भ्रं ओं अं भ्रां क्षीं वीं हेः जीं रुं रूं अं सं । 48 ॥
ततो बाह्ये त्र्यङ्गुलप्रमाणं पुटम् एकं कुर्यात् ॥ तत्र विकसिताष्टदलसकेसरपट्टबद्धदण्डपद्मानि लिखेद् अष्टचत्वारिंशत् ॥ तदुपरि अष्टचत्वारिंशच् चिह्नानि लिखेत् ॥ चक्रम् । खड्गम् । धनुम् । शरम् । वज्रम् । मुद्गरम् । दक्षिणावर्तशङ्खम् । वज्रध्वजम् । चिन्तामणिरत्नम् । पाशम् । परशुम् । त्रिशूलम् । अङ्कुशम् । छत्रम् ॥ पद्मम् । शक्तिम् ॥ 16 ॥ इति त्रिगुणीकृत्य लिखेत् ॥ सर्वाण्य् अक्षराणि बाह्यशिरस्कानि लिखनीयानीति ॥
आर्यमहाप्रतिसराया विद्याविधिः समाप्तः ॥ ॥

मूल पाठ: Mahāpratisarāvidyāvidhi · Edition: Gergely Hidas: "Mahāpratisarāvidyāvidhi. The spell-manual of the great amulet". IN: Acta Orientalia Academiae Scientiarum Hungaricae 63.4 (2010), pp. 473-484. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc