भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.34

7.34.1

स्थिरो भव महाराज शोकं धारय दुर्धरम् ।
महान्तं बन्धुनाशं ते कथयिष्यामि तच्छृशु ॥

7.34.2

पद्मव्यूहो महाराज आचार्येणाभिकल्पितः ।
तत्र पद्मोपमाः सर्वे राजानो विनिवेशिताः ॥

7.34.3

कुमारा राजलोकस्य निक्षिप्ताः केसरोपामाः ।
कर्णिकास्थो महाराज तस्य दुर्योधनोऽभवत् ॥

7.34.4

कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः ।
रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः ॥

7.34.5

सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः ।
चन्दनागुरुदिग्धाङ्गाः स्रग्विणः सूक्ष्मवाससः ॥

7.34.6

सहिताः पर्यधावन्त कार्ष्णि प्रतियुयुत्सवः ।
तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् ॥

7.34.7

पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् ।
अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः ॥

7.34.8

अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः ।
दुर्योधनस्तु राजेन्द्र सैन्यमध्ये व्यवस्थितः ॥

7.34.9

कर्णदुःशासनकृपैर्वृतो राजा महारथैः ।
देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः ॥

7.34.10

चामरव्यजनाक्षेपैरुदयन्निव भास्करः ।
प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थित नायकः ॥

7.34.11

सिन्धुराजस्तथाऽतिष्ठच्छ्रीमान्मेरुरिवाचलः ।
सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः ॥

7.34.12

सुतास्तव महाराज त्रिंशत्त्रिदशसन्निभाः ।
गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा ॥

7.34.13

पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः । ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
तावकानां परेषां च मृत्युं कृत्वा निवर्तनम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc