भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 7.3

7.3.1

शरवल्पे महात्मानं शयानममितौजसम् ।
महाशतसमूंहन समुद्रमिव शोषितम् ॥

7.3.2

दृष्ट्वा पितामहं भीष्मं सर्वक्षत्रान्तकं गुरुम् । दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना ।
जयाणा तव पुत्राणां सम्भग्ना शर्म वर्म च ॥

7.3.3

अपाxणामिव द्वीपमगाधे गाधमिच्छताम् ।
स्तोतमा यामुनेनेव शरौघेण परिप्लुतम् ॥

7.3.4

महान्तमिव मैनाकमहार्यं भुवि पातितम् ।
तxxxयुतमिवादित्यं शक्रस्येवामृतं हृतम् ॥

7.3.5

शतक्रतुभिवाचिन्त्यं पुरा वृत्रेणा निर्जितम् ।
महोनं सर्वसैन्यस्य युधि भीष्मं निपातितम् ॥

7.3.6

ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् । धनन्तयशरैर्व्याप्तं पितरं ते महाव्रतम् ।

7.3.7

तं वीरशयने वीरं शयानं पुरुषर्पभम् ।
भीष्ममाधिरथिर्दृष्ट्वा भरतानां पितामहम् ॥

7.3.8

प्रस्कन्द्य स रथात्तूर्णं शोकमोहपरिप्लुतः ।
पद्य्भामेव जगामार्तो बाष्पव्याकुललोचनः ॥
अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत ॥

7.3.9

कर्णोऽहमस्मि भद्रं ते वद मामभि भारत ।
पुण्यया क्षेमया वाचा चक्षुषा चावलोकय ॥

7.3.10

न नूनं सुकृतस्येह फलं कश्चित्समश्नुते ।
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ॥

7.3.11

कोशसञ्चयने मन्त्रे व्यूहे प्रहरणेषु च ।
नाहमन्यं प्रपश्यामि कुरूणां कुरुपुङ्गव ॥

7.3.12

बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् ।
योधांस्त्वमप्लुवे हित्वा पितुलोकं गमिष्यसि ॥

7.3.13

अद्यप्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् ।
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् ॥

7.3.14

अद्य गाण्डीवधोपेण वीर्यज्ञाः सव्यसाचिनः ।
कुरवः सन्त्रसिष्यन्ति वज्रघोषादिवासुराः ॥

7.3.15

अद्य गाण्डीवमुक्तानामशनीनामिव xxxः । त्रासयिष्यति बाणानां कुरूनन्यांश्च पथिxx

7.3.16

समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दxxxत् । धार्तराष्ट्राः इधक्ष्यन्ति तथा बाणाः किरीटिxx

7.3.17

येन येन प्रसरतो वाय्वग्नी सहितौ वने ।
तेन तेन प्रदहतो भूरिगुल्मतृणद्रुमान् ॥

7.3.18

यादृशोऽग्निः समुद्भूतस्तादृक्पार्थो न संशयः ।
यथा वायुर्नरव्याघ्र तथा कृष्णो संशयः ॥

7.3.19

xxदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च । श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ।

7.3.20

कपिध्वजस्योत्पततो रथस्यामित्रकर्शिनः ।
शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ॥

7.3.21

को ह्यर्जुनं योधयितुं त्वदन्यः पार्थिवोऽर्हति । यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ।

7.3.22

अमानुषैश्च सन्ग्रामं त्र्यम्बकेण महात्मना ।
तस्माच्चैव वरं प्राप्तो दुष्प्रापश्चाकृतात्मभिः ॥

7.3.23

कोऽन्यः शक्तो रणे जेतुं पूर्वं यो न जितस्त्वया । जितो येन रणे रामो भवता वीर्यशालिना ।

7.3.24

क्षत्रियान्तकरो घोरो देवदानवदर्पहा ।
सोप्यद्याभिहतः शेते शरैः प्रोतः शिखण्डिना ॥

7.3.25

तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवता चानुशिष्टः ।
आशीविषं हष्टिहरं सुघोरं शूरं शक्ष्याम्यस्त्रबलान्निहन्तुम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc