भाषा

ENहिગુ
ग्रंथ पाठ

महाभारत · अध्याय 5.115

5.115.1

एवमुक्तः सुपर्णेन तथ्यं वचनमुत्तमम् ।
विमृश्यावहितो राजा निश्चित्य च पुनः पुनः ॥

5.115.2

यष्टा क्रतुसहस्राणां दाता दानपतिः प्रभुः ।
ययातिः सर्वकाशीश इदं वचनमब्रवीत् ॥

5.115.3

दृष्ट्वा प्रियसखं तार्क्ष्यं गालवं च द्विजर्षभम् ।
निदर्शनं च तपसो भिक्षां श्लाघ्यां च कीर्तिताम् ॥

5.115.4

अतीत्य च नृपानन्यानादित्यकुलसम्भवान् ।
मत्सकाशमनुप्राप्तावेतां बुद्धिमवेक्ष्य च ॥

5.115.5

अद्य मे सफलं जन्म तारितं चाद्य मे कलम् ।
अद्यायं तारितो देशो मम तार्क्ष्य त्वयाऽनघ ॥

5.115.6

वक्तुमिच्छामि तु सखे यथा जानासि मां पुरा ।
न तथा वित्तवानस्मि क्षीणं वित्तं च मे सखे ॥

5.115.7

न च शक्तोऽस्मि ते कर्तुं मोघमागमनं खग ।
न चाशामस्य विपर्षेर्वितथीकर्तुमुत्सहे ॥

5.115.8

पुत्रीं दास्यामि यत्कार्यमियं सम्पादयिष्यति ।
अभिगम्य हताशो हि निवृत्तो दहते कुलम् ॥

5.115.9

नातः परं वैनतेय किञ्चित्पापिष्ठमुच्यते ।
प्रथाशानाशनं लोके देहि नास्तीति वा वचः ॥

5.115.10

हताशो ह्यकृतार्थः सन्हतः सम्भावितो नरः ।
हिनस्ति तस्य पुत्रांश्च पौत्रांश्चाकुर्वतो हितम् ॥

5.115.11

तस्माच्चतुर्णां वंशानां स्थापयित्री सुता मम । माधवी नाम तार्क्ष्येयं सर्वधर्मप्रदायिनी ॥

5.115.12

इयं सुरसुतप्रख्या सर्वधर्मोपचायिनी । सदा देवमनुष्यणामसुराणां च गालव ।
काङ्क्षिता रूपतो बाला सुता मे प्रतिगृह्यताम् ॥

5.115.13

अस्याः शुल्कं प्रदास्यन्ति नृपा राज्यमपि ध्रवम् ।
किं पुनः श्यामकर्णानां हयानां द्वे चतुःशते ॥

5.115.14

स भवाप्रतिगृह्णातु ममैतां माधवीं सुताम् । अहं दौहित्रवान्त्स्यां वै वर एष मम प्रभो ॥ 5-115-15अ स तस्य वचनं श्रुत्वा ब्राह्मणः शंसितव्रतः . प्रतिगृह्य च तां कन्यां गालवः सह पक्षिणा ।
पुनर्द्रक्ष्याव इत्युक्त्वा प्रतस्थे सह कन्यया ॥

5.115.16

उपलब्धमिदं द्वारमश्वानामिति चाण्डजः ।
उक्त्वा गालवमापृच्छ्य जगाम भवनं स्वकम् ॥

5.115.17

गते पतगराजे तु गालवः सह कन्यया ।
चिन्तयानः क्षमन्दाने राजानं शुल्कतोऽगमत् ॥

5.115.18

सोऽगच्छन्मनसेक्ष्वाकुं हर्यश्वं राजसत्तमम् ।
अयोध्यायां महावीर्यं चतुरङ्गबलान्वितम् ॥

5.115.19

कोशधान्यबलोपेतं प्रियपौरं द्विजप्रियम् ।
प्रजाभिकामं शाम्यन्तं कुर्वाणं तप उत्तमम् ॥

5.115.20

तमुपागम्य विप्रः स हर्यश्वं गालवोऽब्रवीत् ।
कन्येयं मम राजेन्द्र प्रसवैः कुलवर्धिनी ॥

5.115.21

इयं शुल्केन भार्यार्थं हर्यश्व प्रतिगृह्यताम् ।
शुल्कं ते कीर्तियिष्यामि तच्छ्रुत्वा सम्प्रधार्यताम् ॥

मूल पाठ: Mahābhārata (southern recension) · Edition: Śrīman Mahābhāratam, ed. T. R. Krishnacharya and T. R. Vyasacharya, Nirnaya Sagar Press, Bombay 1906–1910; e-text by SARIT (Shrinivasa Varakhedi and others) · SARIT: Search and Retrieval of Indic Texts · SARIT (e-text) via Internet Archive · CC BY-SA 3.0

Esc