भाषा

ENहिગુ
ग्रंथ पाठ

कृष्णसहस्रनामस्तोत्रम् · अध्याय 1

2

श्रीमद्रुक्मिमहीपालवंशरक्षामणिः स्थिरः ।
राजा हरिहरः क्षोणीं रक्षत्यम्बुधिमेखलाम् ।१॥
स राजा सर्वतन्त्रज्ञः समभ्यर्च्य वरप्रदम् ।
देवं श्रियः पतिं स्तुत्या समस्तौद्वेदवेदितम्

3

तस्य हृष्टाशयः स्तुत्या विष्णुर्गोपाङ्गनावृतः ।
स पिञ्छश्यामलं रूपं पिञ्छोत्तंसमदर्शयत्

4

स पुनः स्वात्मविन्यस्तचित्तं हरिहरं नृपम् ।
अभिषिच्य कृपावर्षैरभाषत कृताञ्जलिम्

5

श्रीभगवानुवाच ।
मामवेहि महाभाग कृष्णं कृत्यविदां वर ।
पुरःस्थितोऽस्मि त्वद्भक्त्या पूर्णास्सन्तु मनोरथाः

6

संरक्षणाय शिष्टानां दुष्टानां शिक्षणाय च ।
समृद्ध्यै वेदधर्माणां ममांशत्वमिहोदितः

7

राजन्नामसहस्रेण रामो नाम्नां स्तुतस्त्वया ।
सोऽहं सर्वविदो तस्मात्प्रसन्नोऽस्मि विशेषतः

8

मामपि त्वं महाभाग मदीयचरितात्मना ।
सम्प्रीणय सहस्रेण नाम्नां सर्वार्थदायिनाम्

9

पराशरेण मुनिना व्यासेनाम्नायर्दशिना ।
स्वात्मभाजा शुकेनापि सूक्तेऽप्येतद्विभावितम्

10

तं हि त्वमनुसन्धेहि सहस्रशिरसं प्रभुम् ।
दत्तान्येषु मया न्यस्तं सहस्रं रक्षयिष्यति

11

इदं विश्वहितार्थाय रसनारङ्गगोचरम् ।
प्रकाशय त्वं मेदिन्यां परमागमसम्मतम्

12

इदं शठाय मूर्खाय नास्तिकाय विकीर्णिने ।
असूयिनेऽहितायापि न प्रकाश्यं कदाचन

13

विवेकिने विशुद्धाय वेदमार्गानुसारिणे ।
आस्तिकायात्मनिष्ठाय स्वात्मन्यनुसृतोदयम्

1

कृष्णनामसहस्रं वै कृतधीरेतदीरयेत् ।
विनियोगः
ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशरऋषिः,
अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता,
श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं,
श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥
न्यासः
पराशराय ऋषये नमः इति शिरसि,
अनुष्टुप् छन्दसे नमः इति मुखे,
गोपालकृष्णदेवतायै नमः, इति हृदये,
श्रीकृष्णाय बीजाय नमः इति गुह्ये, श्रीवल्लभाय शक्त्यै नमः इति
पादयोः,
शार्ङ्गधराय कीलकाय नमः इति सर्वाङ्गे ॥
करन्यासः
श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यन्तानि अङ्गुष्ठाभ्यां नमः ।
शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यन्तानि तर्जनीभ्यां नमः ।
कृतात्मविद्याविन्यासेत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः,
वृन्दावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यानामिकाभ्यां नमः,
रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः
द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः,
एवं हृदयादिन्यासः ॥
ध्यानम् ।
केषाञ्चित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् ।
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत्

2

क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले ।
कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः

3

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे

1

ॐ
कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः

2

भक्तिगम्यः त्रईमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः

3

सुखभावस्सुखाधारो मुकुन्दो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान्

4

शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः

5

वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः

6

रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान्

7

शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत् ।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः

8

वसुदेवसुतः श्रीमान्देवकीनन्दनो हरिः ।
आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः

9

स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः

10

शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः

11

पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः

12

कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः

13

निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः

14

महर्षिमानसोल्लासो महीमङ्गलदायकः ।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः

15

जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः

16

स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः

17

यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः

18

दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः

19

सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलीकनिद्रोपगमः पूतनास्तनपीडनः

20

स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः

21

नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः

22

अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः ।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः

23

द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः

24

यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः

25

प्रशस्तनामकरणो जानुचङ्क्रमणोत्सुकः ।
व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः

26

स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पङ्कानुलेपरुचिरो मांसलोरूकटीतटः

27

घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्ग्मः

28

धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः

29

वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः

30

अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः

31

पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत्

32

भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः

34

बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।
कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः ॥३३।
मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः

35

सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः

36

मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।
दधिमन्थघटीभेत्ता किकिण्णीक्वणसूचितः

37

हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशङ्कितः ।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः

39

दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥। ३८॥
नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।
धनदात्मजसङ्घुष्टो नन्दमोचितबन्धनः

40

बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः

41

प्रस्थानशकटारूढो वृन्दावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः

42

क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वनिविडम्बनः

43

नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत्

44

भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः

45

भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः

46

बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः

47

कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत्

48

गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।
वन्याशनप्रियः शृङ्गरवाकारितवत्सकः

49

मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः ।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः

50

अन्योन्यशासनः कीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचङ्क्रमः

51

अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसञ्जीवनः श्रेयोनिधिर्दानवमुक्तिदः

52

कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः

53

भुजसन्ध्यन्तरन्यस्तशृङ्गवेत्रः शुचिस्मितः ।
वामपाणिस्थदध्यन्नकबलः कलभाषणः

54

अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा

55

अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः

56

स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः

57

यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी ।
चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः

58

विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः

59

ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः

60

प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान्

61

व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः ।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः

62

अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतस्सर्वदेवो महेश्वरः

63

महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः

64

स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानन्दाश्रुधौताङ्घ्रिर्लीलावैचित्र्यकोविदः

65

बलभद्रैकहृदयो नामाकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान्

67

वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गोपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥६६।
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः ।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः

68

तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः

69

गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः ।
प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः

70

विलासललितस्मेरगर्भलीलावलोकनः ।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक्

71

वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः ।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः

72

कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारङ्गनटः कालियमर्दनः

73

नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविष्वक्तदृगात्मेशः खदृगात्मस्तुतिप्रियः

74

सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः ।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः

75

अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः

76

अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान्

77

नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिङ्गननिर्वृतः

78

दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः

79

काकपक्षधरस्सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलम्बो बलवत्सलः

80

मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः

81

सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालाङ्को गोपिकावृतः

82

गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।
विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः

83

बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः

84

गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।
गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः

85

रागपल्लवितस्थाणुर्गीतानमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः

86

व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोवृन्दप्रेमोत्कर्णिततर्णकः

87

निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।
शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः

88

प्रसन्नः परमानन्दश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः

89

गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापृहत् ।
स्कन्धारोपितगोपस्रग्वासाः कुन्दनिभस्मितः

90

गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः

91

गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।
शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः

92

गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।
गोपस्त्रीईवस्त्रदो गोपीचित्तचोरः कुतूहली

93

वृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः

94

मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः

95

प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित्

96

पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः

97

गोवर्धनधरो गोपगोवृन्दत्राणतत्परः ।
गोवर्धनगिरिछत्रचण्डदण्डभुजार्गलः

98

सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः

99

स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः

100

कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः ।
धराङ्घ्रिरोषधीरोमा धर्मगोप्ता मनोमयः

101

ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः ।
ऐरावतकरानीतवियद्गङ्गाप्लुतो विभुः

102

ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभङ्करः ।
सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः

103

वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः

104

स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः ।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः

105

शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः

106

गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामानहरणो गोपिकाशतयूथपः

107

वैजयन्तीस्रगाकल्पो गोपिकामानवर्धनः ।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः

108

स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः

109

गोपीचेलाञ्चलासीनो गोपीनेत्राब्जषट्पदः ।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः

110

गोपीहेममणिश्रेणिमध्येन्द्रमणिरुज्ज्वलः ।
विद्याधरेन्दुशापघ्नश्शङ्खचूडशिरोहरः

111

शङ्खचूडशिरोरत्नसम्प्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः

112

सरसस्सस्मितमुखस्सुस्थिरो विरहाकुलः ।
सङ्कर्षणार्पितप्रीतिरक्रूरध्यानगोचरः

113

अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः

114

सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः

115

मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्राम्बरसंवीतो मालाकारवरप्रदः

116

कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः

117

धीरः कुवलयापीडमर्दनः कंसभीतिकृत् ।
दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित्

118

चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबन्धविमोचनः

119

उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः

120

आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः

121

गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः

122

धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः

123

जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसञ्चरः ।
गोमन्तदावशमनो गरुडानीतभूषणः

124

चक्राद्यायुधसंशोभी जरासन्धमदापहः ।
सृगालावनिपालघ्नस्सृगालात्मजराज्यदः

125

विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः

126

द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः ।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः

127

अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः

128

बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् ।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः

129

षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शंम्भुसंस्तुतः

130

इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः

131

आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान् ।
इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः

132

तुरीयसर्वधीसाक्षी द्वन्द्वारामात्मदूरगः ।
अज्ञातपारो वश्यश्रीरव्याकृतविहारवान्

133

आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः

134

अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः ।
जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः

135

प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः

136

सत्यभामाप्रियः कामश्शतधन्वशिरोहरः ।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः

137

कैकेयीरमणो भद्राभर्ता नाग्नजितीधवः ।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः

138

सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः

139

सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित्।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः

140

नरकासुरविच्छेत्ता नरकात्मजराज्यदः।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः

141

गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः

142

प्रपन्नपालनो माली महद् ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः

143

स्वयम्प्रभुरनिर्वेद्यस्स्वप्रकाशश्चिरन्तनः ।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः

144

कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः

145

षोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः

146

शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्घुष्टचेतनः

147

पुराणस्संयमी जन्मालिप्तः षड्विंशकोऽर्थदः ।
यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः

148

ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः

149

कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
कंसविध्वंसनस्साम्बजनको डिंम्भकार्दनः

150

मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः

151

सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेदनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः

152

विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः

153

कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः

154

मुनिवृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः

155

प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः

156

बलसंरम्भशमनो बलदर्शितपाण्डवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः

157

सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः

158

सुलभो राजसूयार्हयुधिष्ठिरनियोजकः ।
भीमार्दितजरासन्धो मागधात्मजराज्यदः

159

राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः

160

सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः

161

बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः

162

सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः

163

अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः

164

नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः

165

त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् ।
हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः

166

दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।
साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः

167

दामोदरप्रियसखा पृथुकास्वादनप्रियः ॥
घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः

168

गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी

169

पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् ।
विदुरातिथ्यसन्तुष्टः कुन्तीसन्तोषदायकः

170

सुयोधनतिरस्कर्ता दुर्योधनविकारवित् ।
विदुराभिष्ठुतो नित्यो वार्ष्णेयो मङ्गलात्मकः

171

पञ्चविंशतितत्वेशश्चतुर्विंशतिदेहभाक् ।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः

172

अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता

173

उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः

174

वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः

175

धृतराष्ट्रगतोदृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः

176

सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः

177

ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदंष्ट्राविभूषणः

178

सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः ।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः

179

दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक्

180

सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः

181

अङ्गुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः

183

अश्वत्थामवधायासत्रातपाण्डुसुतः कृती ।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचारणः ।१८२॥
पार्थापहारितद्रौणिचूडामणिरभङ्गुरः ।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः

184

भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः ।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः

185

गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः

186

शान्तश्शान्तनवोदीर्णसर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित्

187

प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः

188

जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः

189

उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतस्सर्वभावनः

190

असोढयादवोद्रेको विहिताप्तादिपूजनः ॥
समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः

191

मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः

192

प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ।
सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः

193

वेलाकाननसञ्चारी वेलानिलहृतश्रमः ।
कालात्मा यादवोऽनन्तस्स्तुतिसन्तुष्टमानसः

194

द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः

195

पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः

196

स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः

197

देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः

198

ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः

199

व्याधेषुविद्धपूज्याङ्घ्रिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसन्तुष्टः पुलिन्दसुगतिप्रदः

200

दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुन्दुभिसंयुक्तः पुष्पवृष्टिप्रपूजितः

201

पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः

202

श्रीपरमात्मा परात्परः ओं नमः इति-
फलश्रुतिः
इदं सहस्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।
अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे

203

तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः ।
व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान्

204

तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः

205

इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः

206

प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम् ।
तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात्

207

ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।
ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन्

208

इदं नामसहस्रं यः पठत्येतच्छृणोति च ।
शिवलिङ्गसहस्रस्य स प्रतिष्ठाफलं लभेत्

209

इदं किरीटी सञ्जप्य जयी पाशुपतास्त्रभाक् ।
कृष्णस्य प्राणभूतस्सन् कृष्णं सारथिमाप्तवान्

210

द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।
दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम्

211

किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।
ब्रह्मानन्दमवाप्यान्ते कृष्णसायूज्यमाप्नुयात्

मूल पाठ: kṛṣṇasahasranāmastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc