भाषा

ENहिગુ
ग्रंथ पाठ

कौथुमगृह्यसूत्र · श्लोक 21-21

21

कौथ्ग्स् 21:
इत्येते वा वामित्युच्चैः ब्रूयात् प्रदक्षिणेन जलं वीक्ष्यादित्यमादित्यमशक्तस्चेत् प्रतियामे सकृत् घटिकावसानं वातास्तमयाद् भवति ततः साय मार्जयत्वा कमण्डलुनोदकं गृहीत्वा मढं प्रविशेत् ।
प्राङ्मुखोपविश्य तत उदकं पीत्वा नेत्रयीः प्रक्षाल्याचम्य ततः प्राणापानौ द्वौ तवश्यावीयौ द्वौ राजनशाशाहिणाभ्यां गवां व्रते द्वे इदं विष्णुः षडृचं देवव्रतानि एतेषां पुनः पुनरभ्यासो न तिष्ठं वावसानं न निद्रं द्राचं इति द्वादशरात्रमुपवासो ह्यापरेवाद्व्रतं न याचते ।
द्वादशरात्र नाश्रोयात् इत्येवं द्वादशरात्रमुपवासः कृत्वातिकृत्स्न इति स्मृतम् ।
यावद्बृहस्पतिर्ब्रह्मा तावत्स्वर्गे लोके महीयते न च पुनरावर्तते न च पुनरावर्तते

मूल पाठ: Kauthumagṛhyasūtra · Edition: no source given; cf. the ed. by Suryakanta: Kauthuma-Gṛhya, ed. with introduction, notes and indices, Calcutta : Asiatic Society 1956 (Bibliotheca Indica, 279) · Data entry Ms. Jaya. S. Nair · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc