भाषा

ENहिગુ
ग्रंथ पाठ

kaularahasyam · अध्याय 1

2

* *? हितो दक्षिणाचारसंज्ञकः ।
मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च ।
मकारपंचकैर्देवि योनौ कौलः प्रपूजयेत् ॥
वामहस्तात् पानपूजा क्रमाद् वामी प्रकीर्तितः ।
दक्षिहस्तात् पानवागाद् वामहस्तप्रतर्पणात् ॥
दक्षहस्तापूजनाद्धि कौल इत्यभिधीयते ।
केवलं दक्षहस्तेन पूजणाद् दक्षिणाभिधः ॥
उपासनाद् विधा प्रोक्ता सकामाकामवर्जिता ।
मोक्षबीजं भुमिः कामा सकामा भवतीजकं ॥
पंथा तु दक्षिणः श्रेष्ठो वामः श्रेष्ठातरो मतः ।
यस्तु वामं विजा * *? स एव परमो गुरुः ॥
अहं जानामि पूर्णं पादान सनकादयः ।
अर्द्ध च पिपशिष्ठाद्याः स * * * *? संमितं ॥
९अ)
? नन्ति *? थाः षष्ठांशं कोघं शतितरे जनाः ।
पटन्ति कोटयश्चात्र जायन्ते कृमि योनिषु ॥
तं मार्गये विजानन्ति ते मुक्ता नात्रसंशयः ।
श्रीकृष्णा वाममार्गं तु फल्गुनायोपदिष्टवान् ॥
मया चिन्तायता दृष्टामुनित्यश्वनिरूपितः ।
चाण्डालो वा तुरुष्को वा ब्रह्महा वाथ मस्करी ॥
श्रोत्रियो वा वाममार्गी भुक्तिमुक्त्योः स भाजनं ।
वामदिक्षिणमागो हि कालीतारा विधौ स्मृतः ॥
छिन्नाविधौ वाममार्गो वगलावामदक्षगा ।
सुंदरी वामदिव्या च दक्षमार्गे च संस्थिता ॥
वालाविद्या दक्षविद्या मातंगी वामदक्षिणा ।
केवला भुवना लक्ष्मा धूमादक्षिणमार्गगा ॥
सुमुखीवामसंतुष्ठा वटुकोवामदक्षिणः ।
९ब्)
* * * * * * * * * * * *
? दक्षिणा ।
पूर्वाम्नाये दक्षि वामौ दक्षिणे दिव्यवामके ।
कौलदक्षौ पश्चिमे तु कौलवामौ तथोत्तरे ॥
ऊर्द्धदिव्यौ महेशानि पाताले वाम एव च ।
यक्षिण्याद्याः सर्वविद्याः कामिनीयोगनायिका ॥
वाममार्गेण सिद्ध्यन्ति नान्यथा सिद्धिदा क्वचित् ।
वामदक्षिणयोगेन उभयाचारतत्परा ॥
शैवे शाक्ते गाणपत्य सौरे स्वायंभुवे तथा ।
चान्द्रे चीने पांचरात्रे वैष्णवे वैदिकेपि च ॥
वाम चोक्ते भविष्यन्ति कले द्वैजातयः ।
एवं दर्शनमार्गे पि न हि वमं करोति चेत् ॥
तस्य सिद्धिर्न देवेशि मम वैरी प्रकीर्तितः ।
सर्वस्मादेधिको वामधर्मः प्रोक्तः कुलागमे ॥
तत्रापि कालिका तारा विधौ प्रियतरः स्मृतः ।
कापालिके महेशानि वाममार्गोत्र कारणं ॥
१०अ)
वाममार्गप्रकारेण सर्व सिद्ध्यन्ति नान्यथा ।
वाममार्ग विना देवि न हि सिद्ध्यन्ति देवताः ॥
उत्तराम्नायसंप्रोक्ता देव्यास्तुष्यन्ति पंचमैः ।
ऊनः पदार्थ एकश्चेत् साधकं ते शपन्ति च ॥
पश्चिमाम्नायदेवानां सुरापानं कृताकृतं ।
मचतुष्टयमिच्छन्ति तं विना प्रशपन्ति च ॥
पूर्व्वाम्नायोक्तदेवानां तत्स्मांससश्च कृताकृतं ।
आवश्यकं मत्रयं च तं विना प्रशपन्ति ते ॥
ऊर्द्धाम्नायोक्तदेवीनां त मत्स्यश्च कृताकृताः ।
आवश्यकं मद्वयं च तं विना प्रशपन्ति ते ॥
दक्षिणाम्नायदेवानां निषिर्द्धं मचतुष्टायं ।
मेनकैन विना ते पि प्रशपन्ति हि साधकं ॥
कौलिकं कुर्वतः कर्म वैदिकं नाभिधायते ।
१०ब्)
वैदिकं कुर्वतः कर्म कौलिकं नाभिधीयते ॥
विरुर्द्धादुभयं नष्टं तस्मादेव पधा चरेत् ।
वाममागी यदा दक्षं प्रविशेत् तत्सुरैः स तु ॥
विघ्न्यते पीड्यते चापि न सिद्धिमधिगच्छति ।
दक्षमार्गी यदा वामं प्रविशेत् तत्सुरास्तदा ॥
लोकद्वयाद्व्यापयन्ति तं ग्रसन्ति च वामिनं ।
तस्मात् स्वकुलमार्गं तु ज्ञात्वा कुर्यादुपासनां ॥
यदृच्छया श्रुतं तन्त्रं च्छद्मनापि वलेन वा ।
परेरितं वागाथा वा तर्जपेद् यद्यनर्थकृत् ॥
न शास्त्रमालोक्य वदेत् नाचरेन्न जत् क्वचित् ।
न पश्येन्नोपदिश्यच्च न कुर्यान्नैव साधयेत् ॥
पुस्तके लिखितान् मन्त्रानालोक्य प्रजपन्ति ये ।
ब्रह्महत्वा समं तेषां पातकं परिकीर्तितं ॥
तस्माद् दिक्षां प्रयत्नेन सदा कुर्याच्च तान्त्रिकीं ।
११अ)
इति श्रीकौलरहस्य द्वितिये पटलः

3

अथ दीक्षा तत्रादौ दशसंस्कारः ।
जननं जिवनं पश्या ताडनं बोधनं तथा ।
तथाभिसेको विमलीकरणार्प्यायने पुनः ॥
तर्पणं दीपनं तुप्ति दश यैते मन्त्रसंस्क्रिया ।
अतः प्रथमतो दीक्षां प्रवक्ष्यामि विशेषतः ॥
दीयते ज्ञानं क्षीयन्ते पापनाशयः ।
तेन दीक्षा इति प्रोक्ता प्राप्त चेत् सद्गुरोर्मुखात् ॥
अदीक्षितानां मर्त्यानां दोषं शृणुन्तु साधकाः ।
अन्नं विष्टासमं सूत्रमसन्तथा ॥
अदीक्षितकृतं श्रार्द्धं चादीक्षितस्य वा ।
गृहीत्वा पितरस्तेषां नरके च सुदारुणे ॥
पतंत्येव न संदेहो यावदिंद्राश्चतुर्दश ।
सहस्रैरुपचारैश्च भक्तियुक्तो य जपेद् यदि ॥
तथार्प्यदी तस्यार्चं देवा गृह्नन्ति नैव च ।
११ब्)
कर्णाखित्वं वृथा यस्मात् तस्माददीक्षितः पशुः ।
तस्माददीक्षितं दृष्ट्वा किंचित् कार्य न साधयेत् ॥
दीक्षाग्रहणकाले तु पापराशिः पलायते ।
निर्वाणपदसंयुक्तो वहि गच्छति तत्परः ॥
तदा देवपितृणां तु कर्याहो भवति स्वयं ।
अन्यथात्कृतं कर्म हुतं भस्मनि हव्यव ॥
सर्व्वाश्रमे तु दीक्षाया नित्यत्वं परिवक्षते ।
अनीस्वरस्य मन्त्रस्य नास्ति त्राता जनो भुवि ॥
तथा दीक्षाविहिनस्य नेह स्वामि परत्र च ।
न तपोभिर्जिपैहोमैर्व्विधिधैर्व्वापि साधनैः ॥
न क्रियापि कदाचित् तु दीक्षाहीन्यस्य सिद्ध्यति ।
द्विजानामनुपेतानां स्वकर्म्माध्ययनादिषु ॥
यथाधिकारो नास्तीह स्याच्चोपनयनादिषु ।
१२अ)
तथा चादीक्षितानां च मन्त्रदेवाच्च नादिषु ।
नामधिक्कारोस्स्यतः कुर्यादात्मानं मन्त्रसंस्कृतं ॥
दीक्षामूलं जगत्सर्वं दीक्षामूलं परन्तप ।
दीक्षामाश्रित्य निवसेद् यत्र कुत्राश्रमे जपेन ॥
अदीक्षातश्च मरणै रौरमे नरके व्रजेत् ।
अतो दीक्षेति सा प्रोक्ता देशिकैस्तन्त्रवेदिभिः ॥
यावन् न प्राप्यते दीक्षा पुरुषार्थ फलप्रदा ।
सर्वसिद्धिकरीक्षा सर्वसंपत् प्रदायनी ॥
प्रतिभास्वरवर्णानि कान्तिपुष्टि धनानि च ।
मोहनं स्तंभना कृष्टिमारणोच्चाटनानि च ॥
वशीर्यसुकविताबुद्धिंश्वधारणायुता ।
तारणं च समुद्रस्य वह्नेशैत्वं रणे जयं ॥
विपिने चाभयं चैव शोकदुःखापहं तथा ।
धर्मार्थ काममोक्षाणि ददात्येषा न संशयः ॥
१२ब्)
अनेककोटि मन्त्रेभ्यस्तथा विद्या स्व एव च ।
एकं गुरु मुखाल्लब्धं सर्वसिद्धि प्रवर्तकं ॥
गुरुपदेशतो लब्धं जपन्यासार्चनादिकं ।
पश्चात् तत् साधयेत् सर्वं स तदा भावभावितः ॥
विचारे गुरुरित्युक्त उपदेशे गुरु गुरुः ।
परापरत्वं पूजायां प्रयोगे परमेष्ठिसौ ॥
न गुरोः सदृशं वस्तु न देवः शंकरोपमः ।
न च कौरात् परोयागो न विद्या कालिका समा ॥
गकारात् ज्ञानसंपत्तीरक्तारस्तत् प्रकाशकः ।
उकाराच्छिवदात्म्यं दद्यादिति गुरु स्मृतः ॥
पाशवर्द्धः पशुः प्रोक्तः पाशमुक्तो महेश्वरः ।
तस्मात् पाशहरोप्यत्रे स गुरुनान्य उच्यते ॥
निर्वीययो हि पितुर्मन्त्रः शैवे शाक्ते न दुष्यति ।
दक्षमार्गे तु निर्वीर्यः पितुर्म्माता महस्य च ॥
१३अ)
सोदरस्य गृहस्थस्य वाममार्गेति विर्यवान् ।
न पत्नी दीक्षायेद्भर्ता न पितां दीक्षयेत् सुतां ॥
न पुत्रं च तथा भ्राता भ्रातरं न च दीक्षयेत् ।
स्त्रियो दीक्षा शुभा प्रोक्ता मातुश्चाष्ट गुणा स्मृता ॥
साध्य चैव सदाचारा गुरुभक्त्या जितेन्द्रिया ।
सर्वममन्त्रार्थ तत्वज्ञा शूशीला पूजने रता ॥
गुरु योग्या भवेत् साहि विधा वा परिवर्जिता ।
मात्रा दीक्षा प्रदेया वै स्त्रीशांसत्य न शांभवि ॥
देवीपरंपरा प्राप्ता दीक्षा स्त्रीणां शुभा मता ।
देवी परंपरायां तु विशेषं शृणु सादरं ॥
देवी परं परोद् दिष्टं पारंपर्य क्रमागता ।
स्त्रीणां दीक्षापरं याता देवी दीक्षा शुभा मता ॥
पुरुषाणां तत्सकाशात् दीक्षी जाता परंपरा ।
मुखं शृणु महादेवि स्त्रीणां न नियमो मतः ॥
१३ब्)
नियमः पुरुषे ज्ञेयो न योषित्सु कथंचन ।
शाक्ते विकल्पा सहिते कथ दीक्षा भवेत् प्रिये ॥
गुरोः सकाशा चेद् देया तदसा भगिनी मता ।
स्वयं वै यदि चेद् देया तदा कन्या प्रकीर्तिता ॥
अन्यतोपनीया चेनन्माग भ्रष्टा तदा भवेत् ।
मन्त्रशास्त्रे वहुविधामार्ग देविमयेरिताः ॥
तदर्थ शंकते चित्तं किं कार्यं वद शंकर ।
स्वयं प्रदायव्यः श्रेष्ठस्तत्सकाशात्तु दीक्षणं ॥
शुभं प्रोक्तं महादेवि ह्यभावे शृणु सादरं ।
त्रयोदश्यां कृष्णपक्षे चन्द्रवासरसंयुते ॥
तालपत्रमनुर्लेख्य संस्कारदशकं चरेत् ।
* * * * * * *? सिद्धमन्त्रा भविष्यति ॥
तद् दिने पायसं कृत्वा दक्षिणामूर्तिसंनिधौ ।
पायसादि निवेद्याथ विल्वैः संपूज्यशंकरं ॥
इति कृत्वा वाचनीयमष्टोत्तरसहस्रकं ।
१४अ)
संजप्य होमयेद् देवि तत्तन्मन्त्रोक्त वर्त्मणा ॥
वाचने नास्ति चेच्छक्तिस्तदा किं वा विधीयते ।
पुत्रद्वारा वाचनीयं सपुत्रो गुरुवेवतु ॥
एवं गृहीत मन्त्रस्तु सिद्धिर्भवति हि प्रिये ।
अथ वान्यकाकेण दीक्षाणं शृणु सांप्रतं ॥
नद्यां समुद्रगामिन्यां शुभे लग्ने शुभे दिने ।
संप्रदायं पुरापृष्ट्वा श्रीसूर्यमण्डलं लिखेत् ॥
सांगं सावरणं सूर्यं संपूज्य प्राणवल्लभे ।
तारं फट् मनुमालिख्य वाचयेत् तत्सुकाशतः ॥
शतष्टवारं संवाच्य *?कानां वामतो गतिः ।
तत्र सूर्य गुरुं पूज्य सर्वसिद्धिश्वरो भवेत् ॥
इदं पशुपरं प्रोक्तं न तु वीरपरं प्रिये ।
वीराणां कौलिकानां तु भर्ता दीक्षणमाचरेत् ॥
भत्तु दीक्षा प्रदाने तु न दोष कालिका तमे ।
१४ब्)
शीवेन दीक्षापूर्वं तु गोर्यदर्भा शुभावहा ॥
सा च पुत्राथवा भार्या तद्वदत्रापि पार्वति ।
न पुत्री गदिता सा तु वीरभार्या प्रकीर्तिता ॥
इति श्रीकौलरहस्य तृतीयपटलः

4

श्रीदेव्यूवाच ॥
असिद्धगुरुणा दत्तो मन्त्रः शिष्याय वा गुरुः ।
सिद्धा मन्त्रान्तरे देव नैव सिद्धाथवा गुरुः ॥
भिन्नाम्नाय दाशिप्यस्तद्भिन्नाम्नाय देवतां ।
सेवते तत्र देवेश कीदृक् सिद्धिस्तु तद्वदः ॥
ईश्वर उवाच ॥
गुरुस्तु दक्षिणाम्नायी सर्वाम्नायषु दीक्षितः ।
ऊर्द्धाम्नायी तथान्येषु पूर्वाम्नायी परेषु च ॥
द्वयोस्तु पश्चिमाम्नायी उत्तरस्त्वधरे भवेत् ।
अधरे नैव कुत्रापि गुरुस्वं पारलौकिकीं ॥
१५अ)
दक्षिणोपासकः काले ऊर्द्धः सायुज्यमाप्नुयात् ।
देवतायास्तथा पूर्वः सारुप्यं लभते परः ॥
सामीप्यं चोत्तरे लोकमधोगस्त्यै हि कं फलं ।
लोभत्यागैश्चापकारो ह्यधोमार्गेप्युदर्ककृत् ॥
मन्त्रान्तरे च संसिद्धो गुरुर्मन्त्रं प्रवच्छिती ।
यथोक्ता चरणात् तस्य सिद्धिः शिष्यस्य जायते ॥
कृपा वशात् सिद्धमन्त्रं ददाति च यदा गुरुः ।
विनाजपं विनापूजां सिद्धियेत् तत् करे स्थिताः ॥
तत्र सूर्जग्रहः शस्ते न तु चतुग्रह क्वचित् ।
चन्द्रग्रहे तु दारिद्रं सौरे सर्वसमृद्धयः ॥
सूर्यग्रह शिव प्रोक्तश्चन्द्राष्यशक्तिरेव च ।
सूर्यग्रहे शक्तिदीक्षा पशुदीक्षानाकारयेत् ॥
१५ब्)
ःएरे मत्तेर् नोत् चोन्तिनुए.
प्रकीर्तिता ॥
निःकलागुह्यशंशंता काली भेदेन कीर्तिता ।
केवलयं भवेन्मधाह्वयी साम्राज्यरूपिणी ॥
चन्द्राग्नि वेदपंचार्णा तथा नीला क्रमेन च ।
हंसतारा महानीला तदन्ते वीनशांभवी ॥
केवला तु भवेन् मधा सिद्धिक्रिया द्विधा ।
त्रितया दिव्यसाम्राज्य मे दीक्षां प्रकीर्तिता ॥
देवरूपा दिव्यरूपा महापरा ।
सर्वरूपा सर्वपूर्वा महासाम्राज्यमेव या ॥
सिद्धि ऋद्धि क्रमेणैवः भेदवाहुल्यमिरितं ।
विद्याराज्या विधादीक्षा च्छिन्नमस्ता विधौ स्मृता ॥
चन्द्रवह्नि रसो रक्त श्यामा च षोडशी तथा ।
परषोढा सप्तदशी तदजाता परा भवेत् ॥
दापि मलिनि कुल्ला क्रमाद्विघ्वादि राज्यद ।
१६अ)
वगलाया महेसानि साम्राज्य परमेष्यते ।
चन्द्र वेद सूक्षमेरु मन्त्रीहीनं शिवान्तरं ॥
हृदयं च शतार्णा च पंचास्त्रं कुल्लुका तथा ।
गायत्री क्रमे योगेन साम्राज्य परमेष्ठ्यधृक् ॥
एतत् पंचकसंयुक्तोः सर्वसाम्राज्य बुद्धिधृक् ।
श्रीदिव्यसर्वसाम्राज्य दीक्षासर्वोत्तरा भवेत् ॥
ततोपि दीक्षा देवेशि नास्ति ब्रह्माण्ड गोलके ।
दशविद्या प्रभेदाश्च महाविद्या प्र *? दजा ॥
सिद्धिविद्या प्रभेदाश्च महामन्त्रास्तथैव च ।
तदंगमन्त्रा देवेशि शावरं दशशावरं ॥
कालशावरकं देवि तथैव सिद्धशावरं ।
त्रिधादर्शनमन्त्रा च तथाम्नाय क्रमोद् भवेत् ॥
कादिहादि कहर्त्वेन
१६ब्)
द्र्याशिरोस्य हृदयंञ्जलिः ।
कृताञ्जलि पुटा ऊर्द्धं खड्गखेतक पानयः ॥
ब्रह्माणं संनिरीक्ष्यान्त तद्वक्त्राभिमुखाश्च ते ।
स्वस्वस्थान स्थिताश्चैव साधारणमुदाहृतं ॥
स्वप्नस्तुति ॥
भगवन् देवदेवेश शूलद्भृवृषवाहन ।
इष्टानिष्ट समाचक्ष स्वप्नसुप्तस्य साप्रवं ॥
निशान्ते पश्यति स्वप्नं सुभं वायदिवाशुभं ।
ओं हृत्सकललोकाय विष्णुवे प्रभविष्णवे ॥
विश्वारूपाय स्वप्नाधिपतये नमः ।
नमो जाय त्रिनेत्राये पिंगलाय महात्मने ।
वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥
स्वप्ने तु प्रथमे यामे संवत्सर फलं भवेत् ।
षद्भिर्मासैद्वियात्थस्त्रिभिमासैस्त्रियामकः ॥
चतुर्थे मासमात्रेण प्रातःकाले तु सत्वरं ।
१७अ)
अथ दुस्वप्नशान्ति ॥
त्रिरात्रो दोषितो भूत्वा हविष्यासी पुरोहितः ।
सक्षीराणां घृतांक्तानां समिधानां शतं देहेत् ॥
पाशानां तु गायात्र्या शूद्रःस्वाहविष्य भुक् ।
दीपं दद्याद् विप्रगृहे विष्णो गेहे शिवालये ॥
एवं दृष्टा शुभं स्वप्नं गृह्नीयामनुमन्यथा ।
गृही * *? रित च स्याद्वान्यं वेदं विचिन्तयेत् ॥
अथ कौलिकोपदेश ॥
न्यासजालं वि * * *? शंखपात्रादि स्थापनं ।
कृत्वा देवी समभ्यर्चमकारं पंचकैः प्लुतः ॥
कारणं तं मुखे पश्चा मन्त्रविद्यां समुर्चये ।
कथितोयं महेशानि उपदेशस्तु कौलिकः ॥
अन्यायेन चायो दद्यात् गृह्नान्यायतश्च यः ।
१७ब्)
ददतो गृह्नतो वापि कुलशापो भविष्यति ॥
गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परं ।
अशास्त्रीयोपदेशं तु यो गृह्नाति ददाति च ॥
भुजीते तावुभौ घोरान्नरकानेकविंशतिः ।
असंस्कृत्योपदेशस्तु यः करोति विमूधधीः सैकते शालिबीजवत् ॥
अनर्हे मन्त्रविज्ञानं न तिष्ठन्ति कदाचन ।
तस्मासर्वप्रकक्तव्यमन्यथा निःफलं भवेत् ॥
सच्छिष्यायाति भक्ताया तज्ञाममुपदिश्यते ।
त प्राप्नोति व्रति नित्यं गोक्षीरा तु यथाघृतं ॥
धनेच्छाभभये लोभाद्यैरयोग्यं यदि दीक्षयेत् ।
देवताशापमाप्नोति कृतं वविकृतं भवेत् ॥
इति श्रीकौलरहस्य चतुर्थपटलः

7

अथ पूर्णाभिषेकदीक्षा माहपूर्णाभिषेकदीक्षा तु चन्द्रसूर्याप्रह भवेत् ॥
१८अ)
सुन्दरी तालिणीकाली क्रमदीक्षात्रिगामिनी ।
क्रमपूर्णे महेशानि क्रमाच्छुस्तु हविष्यति ॥
चन्द्राग्नि पक्षषोढाष्य परानिर्वाण तत्परा ।
षट्सांभवं ततो देवि चक्रसंभेदनेन च ॥
स्वचक्रं देह विज्ञानं परकाये प्रवेशनं ।
एतत् ज्ञाना भवेन् मएधा दीक्षा प्रोक्ता मया तव ॥
हादाविदं निगदितं शृणुकादौ महेश्वरि ।
चन्द्राग्निरसराज्ञी च महाराज्ञी ततः शिवे ॥
महाकामाकलाकाली गुह्यकालि ततः शिवे ।
गुह्यकाली द्विधा प्रोक्ता सकलानिःकला क्रमात् ॥
दशवक्त्रा तु सकला प्रोक्ता वा सृष्टि का कला ।
उग्रा सौम्या महाक्रूरा त्रिधा सापि
१८ब्)
चन्द्र ग्रहे विष्णु दीक्षा पंचरात्रे न कारयेत् ।
चन्द्रसूर्य ग्रहे दीक्षा सर्वदीक्षा * * * *? ।
चन्द्रग्रहे शक्तिदीक्षा सर्वदीक्षोत्तमत्तमा ॥
न वारतिथिनक्षत्रादि न मास नियमस्तथा ।
न योगं करणं नापि न विचारं समाचरेत् ॥
देवी बोधं समारभ्य यावत्म्या नवमी तिथि ।
कृतातसुवुधै दीक्षा सर्वाभीष्टफलप्रदे ॥
बोधने नैव दुगायाः कालाकालं न शोधयेत् ।
अशोकाख्याष्टमी यत्र रामाख्या नवमी तथा ॥
गुरो वा श्रुतदृष्टे च सिद्धिक्षेत्रे सुशोभने ।
आगतिर्गुरुद्दैवाद्यददीदीक्षा तदा भवेत् ॥
यदैवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः ।
न तिथिर्न व्रतं होमो न स्नानं न जप क्रिया ॥
दीक्षायाः कारणं किंतु स्वेच्छा वाप्ते तु सद्गुरोः ।
१९अ)
शिष्यानाहूय कृपया गुरुणा यदि दीयते ।
तदा लग्नादिकं किंचिन् न विचायं कदाचन ॥
इति ते कथितं देवि दीक्षाकालां सुरेश्वरी ।
भुमिपरिक्षा ॥
मृत्तिका गंधमाघ्राय शुभाशुभनिरूपणं ।
लालागंधां माहाशोका मांसगंधाधनेश्वरः ॥
कटुकंधाद् भवेद् रोगी विष्टागंधा च निस्फला ।
पद्यगंधा निरोगि स्यात् दुर्गंधा भयमादिशेत् ॥
सिद्धि न गधसंभूते सुद्धा च वनिजायता ।
क्षारगधा तथा नाशः पानिगंधाशुभा वहा ॥
अथ वास्तुध्यानं ॥
आकुंचितकरं वास्तुमुत्तान मे सुरा कृतीं ।
स्मरेत् पूजा सुकुड्चादि निवेशे त्वलाननं ॥
जानुनी कुर्परा शक्ते दिशिवातद् हुतासयोः ।
पैत्र्यां पादपुटौरौणां वचनं गुरु विप्रयोः ॥
१९ब्)
संगः सर्वात्मना त्याज्यो गुप्तसिष्टेद् गुरुं विना ।
सत्संगश्च विवेकश्वलं नयन द्वयं ॥
यस्या नास्ति नरः सान्धः कथं वामे सुखं लभेत् ।
सांसारिक सुखासक्तं ब्रह्मज्ञास्मीति वादिनं ॥
कर्म ब्रह्मा भयभ्राष्टं तत्यजेदंत्यज तथा ।
मद्यं मांससुरापानं मत्स्याःस्त्रणां धवास्तथा ॥
अनेका यत्र जयन्ते तत्र वामो गति प्रदः ।
स्थित्वा तु दक्षिणे मार्गे गुप्तं भुक्ते पलादिकं ॥
स याति नरकं घोरं विष्ठायां याद्यते कृमिः ।
विना वलिं पलं भुक्ते विना पूजां सुरां पिबेत् ॥
दुती यज्ञं विना गच्छे स्त्रियं वाम्यति नाररकी ।
अबुध्या समयाचारं कुलद्रव्यं चरेद्यति ॥
स गुरुश्चैव शिष्यश्च योगीनीनां भवेत् पशुः ।
२०अ)
वाममार्गं न जानाति मूढात्मा मोक्षमिच्छति ।
परवारमपारं च वाहुभ्यां तर्तुमिच्छति ॥
सर्वकर्मविहिनाये वर्णाश्रमविवर्जिताः ।
कौले वा वाममार्गे ये भुक्तिमुक्त्योश्च भाजनं ॥
निन्द्रन्तु वान्धवाः सर्वे त्यजन्तु स्त्री सुतादयेः ।
जनाहसन्तु मन्दृष्ट्वाराजानो दण्डयं तु वा ॥
रोगदारिद्रदुःखाद्यैः पीण्डितोप्यनिशं त्वहं ।
लक्ष्मी तिष्ठ तु वा या तु नमुंचापि पदः त्विदं ॥
एवं यस्य दृढाभक्तिः सवामे सिद्धिमाप्नुयात् ।
नार्थलाभान् नवक्रोधान् नद्वषान्न च मत्सरात् ॥
न कामान् न भयाद् वापि मार्गप्राप्तं परित्यजेत् ।
जयेद् देवी पुनमार्गे तस्मिन् विघ्नमवाप्नुयात् ॥
गुरुकार्यण्य संपूतो देहनिधुतकल्पखः ।
२०ब्)
कुलपूजारतो यस्तु स्तोयं कौलो न चेरतः ।
परोक्षे कोन जानीते कस्य किंचे भविष्यति ॥
यद्वैन्प्रत्यक्ष फलदं तदेवोत्तमदर्शनं ।
गुरुपदेश निहिता महान्त इति केचन ॥
मोहयन्ति जपेत् केचित् स्वपूर्वविनी मोहिताः ।
पेयं मद्यं पलं खाद्यं समालोक्यं प्रिया मुखं ॥
इत्येचाचरणं श्रेष्ठं परमाः प्रवदंति च ।
मद्यमानेन मनुजो यदि सिद्धिं लभेतचेत् ॥
मद्यपानरताः सर्वे संसिद्धा न भवंत्यु मे ।
मांसभक्षणमात्रेण यदि रूपगतिर्भवेत् ॥
क्रव्यादीनां तदा मोक्षो मांसादन्यंन्न भुंजते ।
स्त्री संभोगेन भो देवा यदि मोक्षोभिजायते ॥
तदा सर्वपि मुक्ताः स्युः कस्य जन्म भविष्यति ।
कृपानधारा
पगे णो. २१ - ३३ नोत् fओउन्द्
३४अ)
गमनाद्व्याघ्र कर्णावलंवनात् ।
भुजगधारणान्रूनं त्वशक्यं कुलवर्त्मनः ॥
वृथापानं तु देवेशि सुरापाना महोच्यते ।
तन्महापातकं ज्ञेयं वेदादिषुग्नि रूपितं ॥
अनाघ्रेयमानालोक्य मनास्वाद्यमपेयकं ।
मद्यमांसं पशूनां तु कौलिकानां महत् फलं ॥
अमेध्यानि द्विजातीनां मघानैकादशैव हि ।
द्वादशं तु सुरामद्यं सर्वेषामुत्तमं स्मृतं ॥
तस्याद् ब्राह्मण राजान्यौ वैश्यश्च न सुरां पिबेत् ।
सुरादर्शनमात्रेण कुर्या सूर्यावलोकनं ॥
तस्य संसगमात्रेण प्राणायामा त्रयं चरेत् ।
आजानुभ्यां भवेत् स्नानं नाभ्यामुप वसेद् देहः ॥
ऊर्द्धंणोचेत्रिच्य त्रें * * * * *? मनंविधिः ।
सुरापाने कामकृते ज्वलकीतां प्रवेशयेत् ॥
३४ब्)
मुखे तया विनिर्दश्ये तच्छुर्द्धि समवाप्नुयात् ।
अविधानेन यो हन्यात् दान्मनप्राणि न प्रिये ॥
नवसे नरके घोरे दिनानि पशुरोभिः ।
संमितानिदुराचारस्तिर्यग्योनिषु जायते ॥
भृणं वाप्य विधानेन छेदयेन् न कदाचनन् ।
विधिवद्गांद्विजं वापि हत्वा पापैर्न लिप्यते ॥
सर्वेभ्यः कौलिके श्रेष्ठर्भूध्याम्नायी चवां मतः ।
अधिकारो भक्तियुक्तो यश्च सुगुरु सेवकः ॥
स एव कौलिका वन्द्य इतरमद्यपामताः ।
स्मरणं कीर्तनं तस्य दर्शनं वेदनं तथा ॥
संभाषणं च कुलुते राजसुयाधिकं फलं ।
सयत्र वसते देवोस्तत श्रीर्विजयो भवेत् ॥
अनामयं सुवृष्टिश्च सुभिक्षं निरुपद्रवः ।
३५अ)
दृष्ट्वा दृशं च प्रणमेदन्यैवर्ज्यः सुदुरतः ।
पुर्वाम्नायः सृष्टिरूपः स्थितिरूपन्तु दक्षिणः ॥
संहारपश्चिमाम्नाय उत्तरेनुग्रहो भवेत् ।
मन्त्रयोगं विदुः पूर्वं भक्तियोगन्तु दक्षिणं ॥
पश्चिमं कर्म योगन्तु श्यान योगं तथोत्तरं ।
इति श्रीकौलरहस्य सप्तमपटलः

8

अथ दिव्यवीरपशुभावानिगद्यते ॥
श्रीदेव्युवाच ॥
वीरभावो महादेव कथ्यते शृणु भैरव ।
निर्द्वंद्वं मानसा भूत्वा हृदाकामकला तनुः ॥
निशासु पूजा प्रवला हेतु युक्ता स दैव हि ।
निजं कुलं समाधाय स्वयं भैरव रूपधृक् ॥
कुलं च भैरवी रूपं तद्गात्रे न्यास विस्तरं ।
३५ब्)
ते त्रयं गण न प्रोक्ता अष्टोत्तरसहस्रकं ।
जलपुतं हविद्रव्यं गृहीत्वा तर्पयेत् ततः ॥
विधाय तर्पणं देव प्रदक्षिणमनुं व्रजेत् ।
स्तुत्वा प्रणम्य कल्पोक्तस्तवेन तोषयत् ततः ॥
तस्मात् कुलं समायोज्य कृत्वा यत्नेन संजपेत् ।
कुलसाक्षकस्तत्वं स्वयंति तत्वतः ॥
मद्यं मासं तथा मत्स्यं मुद्रामैथुन मेव च ।
एभिरेव कृता पूजा कुलाचाल प्रकीर्तिताः ॥
ते तत्कुलशास्त्रज्ञै पूजनीयो प्रयत्नतः ।
कुलुंकुलं चान्मकुलं निश्चरं तस्य वत्ततः ॥
स धन्यः स च विज्ञानी कुलरूपः स एव तु ।
यत्र तत्र कुलेजेवा श्मशाने गमनं कृतेः ॥
चतुर्दश्यां गते तत्र पक्षपूजास्फ?रं भवेत् ।
न गच्छन्नार्य तत्स्थानं पशुरेव न संशयः ॥
पगे नो. ३६ नोत् fओउन्द्
३७अ)
नात्यस्मादधिकं देव इति चिन्तापरायणः ।
मदेन द्रव्यभोक्ते तु भवेत् कुलपरायणः ॥
सोमकेक्षा भामापत्ने मम क्षोभ प्रजायते ।
तस्मा प्रयत्नाद्वीरवीरवरो भवेद् भोग युतः सुखी ॥
भोगेन मोक्षमाप्नोति भोग न कुलसाधनं ।
विना हेतु कर्मा स्वाद्यक्षोभयुक्तो मानद्रीति ॥
यत्करोति यदर्चति ॥
ते सर्वं कुष्टरूपं तु ध्यात्वा च विहरेत् सुधी ।
एकाकी निर्जने देशे श्मशाने पर्वते वने ॥
शून्यागहे नदीतीरे निससो विहरे मुदा ।
वीराणां जपकारस्तु सर्वकामप्रशस्यते ॥
सर्वदर्शसर्वपीठे कर्तव्यं च न शंसयेः ।
वीरसाधन कार्यञ्च कर्तव्यं वीरपूरुषैः ॥
दिव्यैरपि च कर्तव्यं पशुभिन्न च पामरैः ।
चरंपामरकार्यं च न पशोरिति निश्चितं ॥
३७ब्)
यद्यन्न स पुराप्रोक्तं संकेतं मन्त्रसाधनं ।
अंजनं गुटिकांदिंश्च कुर्याद् विरो महावलः ॥
देव्य वीर न भेदोस्ति यद्भेदं तत् तु कथ्यते ।
शांतो विनितो मधुरः कला लावण्य संयुतः ॥
दिव्यस्तु देवन् प्रायोगा वीरश्चोर्द्धतमानसः ।
भूविभूतिषणैर्वापि च हृन्नैवापि लोपितः ॥
आकारगोपनो वापि त्यक्तो वा कुलभैरवः ।
रक्तचन्द्र न दिग्धो वा वैष्णवश्वार्य वैष्णवः ॥
अपमाने च पूजायां हृष्टः पुष्टः सदा भवेत् ।
देव निन्द्रा परो व्यापि तत्त पूजापरोपि वा ॥
पूजारतस्तत्र हितः कुलाकुलमते स्थितः ।
निज भाव समायुक्तो देववदि हरेत् क्षितौ ॥
स्वकुलान्ते पुरश्चर्या रात्रौ कुर्यान् न चान्यथाः ।
३८अ)
वेदहिनो द्वीजे देव यथा न श्रुतिजकथा ।
विष्णुभक्तिं विना देव भक्तिंन्न प्रभवेद् यथा ॥
शाक्तज्ञानं विनामुक्तिर्यथा हास्याय कल्पते ।
गुरुं विना यथा तन्त्रे नाधिकार कथंचनः ॥
पतिहीना यथा नारी सर्वकर्म विवर्जीतात् ।
कुलं विना देवविधौ कदापि मम साधनी ॥
नाधिकारीति कौलेये ॥
स्तस्माद्भावपरो भव अविनीतं कुलं यस्य ।
स कथं मम पूजकः तस्माद् यत्नात् तथा कार्यं ॥
भावाभावात् कुलशास्त्र नाधिकालकथंचन ।
तेन भावविशुद्धैस्तु साधकः कौलिको भवेत् ॥
इति श्रीकौलरहस्य अष्टमपटलः

9

श्री-ईश्वर उवाच ॥
शुद्धस्तु त्रिविधः प्रोक्तः क्रमेण शृणु भैरवी ।
३८ब्)
अदिक्षितः क्रियाहीनो मंत्र तत्र विवर्जितः ।
महापशुरिति ख्यातं सर्वतोयं विगर्हितः ॥
दीक्षीतो निंदको यस्तु द्वितीयः स प्रकीर्तितः ।
एकाकी पाननिरतः पशुरित्यभिधायते ॥
अस्याधिकारः पूजायां न गुरुत्वे कदाचन ।
पूर्वस्य नाधिकारोस्ति पूजा देश गतागतौ ॥
पुर्वस्तु सर्वकोर्हि वहिः कार्यः स्वदेशतः ।
पूर्वदर्शणमात्रेण कुलदर्शणमाचरेत् ॥
ब्रह्मात्यादिकं पापं वरं सत्यं न च प्रभो ।
पूर्वदर्शनमात्रेण कुलदर्शनमाचरेत् ॥
ब्रह्महत्यादिकं पापं वरं सत्यं न च प्रभो ।
पुर्वदर्शनमात्रेण? सत्यं सत्यं वदाम्यहं ॥
ममात्मापि देवेश विभुवित्यपि स प्रभे ।
तथापि तत्र मे शक्तां जायते तत्पदे पदे ॥
३९अ)
वरं कुलं परित्याज्यं वरं स्वकुल हिंसनं ।
स्वकुलस्य वरं हानिर्वरं स्वकुलकुट्टनं ॥
कायेन मनसा वाचा वलं स्वकुलपातनं ।
न कुर्वीत पशोः सगंखमार्गक्षनकारणात् ॥
कुलशास्त्रं द्वयं पापं शरिष्टं कुलनाशनं ।
स्वकुले महती निन्द्रा परयोगात् कुलेश्वर ॥
तस्मादपि महापापं पशुसंगान् प्रजायते ।
सर्वथा तत्र भावौद्धौ न प्रकीश्यै कुलेश्वरः ॥
सभावश्च पशुदेषात् प्रजायते ॥
दैवार्च जायते वीरो वीराद् दैव प्रजायतः ।
देवै वीरेन संदेहः साम्यमित्यभिधीयते ॥
भावस्तु मानसा धर्मः शाब्दः स हि कुशां भवेत् ।
तस्मा भीवौ न कर्तव्यो
णो चोन्तिनुए पगे.
३९ब्)
ण्डपीडाराजपीडावह्नि पीडा व जायते ।
कुलं तस्यात्र दोषेण श्रियते नात्र संशयः ॥
योषिमैथुनसंभावाः ॥
अधिकारविहीना नामधिकार युतैश्वरेत् ।
महात्ममैवसंदेहो वर्द्धतेजेगदीश्वरि ॥
ममानुग्रहतो देवि तद्वक्त्रं च त्व महसि ॥
देव्युवाच ॥
अहमेव परं ध्यानं सहमेव पराशुतिः ।
मर्तः परतरं विश्वं न किंचिदवलोक्यते ॥
अहमेव जस्सर्वं जगदेवाहमीश्वरि ।
महावभाविता नारी भवदेतादृशी शिव ॥
एवं ज्ञान विशिष्टः स्यादधिकारी भवेच्छिवः ।
ब्रह्मादि महेशो वा सर्वदेव मया हि सः ॥
जये मानस्य वालस्य मातृयोनि स्वलिंगयोः ।
संपर्केण विकारो हि न तर्पोर्जायते क्वचित् ॥
साधकस्य तथा यस्य मतिः स्यादधिकारिनि ।
सोधीकारी भवेन् नित्यं यागादौ सह योषितां ॥
पगे णो. ४० नोत् fओउन्द्
४१अ)
मद्भाव प्रतिपन्नाया मत्स्तूरूपहे मेव सा ।
विकारं न हि योषायां तस्यामर्पित एव हि ॥
एवं यस्य स्थिरा बुद्धिः स्याधिरीन संशयः ।
साधकस्य स्वदेहस्याद्यत् स्वरूपेष्ट देवता ॥
तद्वर्ण समतेजोभिः पूर्णभुवनमण्डलं ।
भावनाभिस्थिरोक्तस्य देवता ध्यान तन्मयः ॥
यथास्वरूप वर्णादि चिंतयेद् यतमानसः ।
एवं ज्ञाने स्वमुत्पने स्वच्छयं विहरेत् पुनः ॥
एवं यस्य मनोनास्ति तस्य प्रतिनिधिः स्मृता ।
कुमार्यामेव कर्तव्यं रक्तरंस्वां कदाचन ॥
कुमारीं भोजनानेन्द्रि कुमारी भोजनारपि ।
कुमारी चिन्तये देवी त्रैलोक्य विजयि भवेत् ॥
शृणु देवि वरारोहे रहस्य महदद्भुतं ।
विना पूजांस्त्रियो योनौ संगमे साधकोत्तमः ॥
सप्तजन्मदरिद्रस्यान्नरके कोटिकल्पशः ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वं गनागमः ॥
४१ब्)
एवं नानाकृतो दोषो जायते नात्र संशयः ।
वीरोर्चाप्यथ वा दिव्यो न वुर्द्धा नरकं व्रजेत् ॥
इति श्रीकौलरहस्य नवमपटलः

10

प्रतारणार्थं लोकां याचितं देवल नामतः ।
उच्यं कृतं तदुद्देसं गलितं तन्तु राजसं ॥
वाममार्गे समाश्रित्य कौलं धर्मचार्य च ।
अन्यथार्वमस्य चोद्वेषात् कृतं शुद्धं तु तामसं ॥
कृतं यत्कामतः कर्मैरैसिकं पारलौकिकं ।
वाममार्गं समाशित्य मिश्रिते तन्तु तामसं ॥
जिह्वा लोभेन या भुक्तिः पानं यत्कामतोरतं ।
अथ वामारणाद्यर्थ गलितं तत् तु तामसं ॥
शुद्धसत्वेन मोक्षः स्यात् स्वर्गः स्यात्मि असतथा ।
सिद्धिर्गलितसत्वस्यादैहिकी च मनुष्यतां ॥
स्वर्गास्योद्राजसाच्छुर्द्धात् कामः स्यात् मिश्रराजसात् ।
४२अ)
गलिताद्राजसात्तिर्यग्योनावपि सुखं भवेत् ।
सात्विकार्तामसाद्देव योनित्वं प्राप्नुयान् नरः ॥
मिश्रितामसतो दुःखी नारकी चांत्यता मतात् ।
कर्मपंचविधं प्रोक्तं पंचध्यामुक्ति दायकं ॥
प्रसर्पणमुपादानमीज्याध्यायस्तथा द्युति ।
संमार्जनोपलेपादि संस्कारो देवमन्द्रिरे ॥
भंकर्जवं सर्पणं स्याद् देव सा लोक्य कालकं ।
पूजासाधनसामग्र्यामेलनं भक्त सेवनं ॥
तत्प्रीतिः स्यादुपादानं देवतारूप दायकं ।
पीठपूजनपूर्वं यत् षोडशाद्युपचारकैः ॥
मूर्त्यायंत्रेथवा पूजा सेव्यासामीप्ये कालिका ।
तच्छस्त्राध्ययनं सस्य कृत्यामन्त्रार्थ भावनं ॥
कृत्वा जपस्तत्स्वाध्यायो देव सायुज्य कारकः ।
गुरुदेवान्मकालानांर्वव्याषं प्रकाशवान् ।
४२ब्)
हकारे नव हि याति शकारेण विशेत् पुनः ।
अस्यासंबोधमात्रेण जीवन्न मुक्ता भवेन् नर ॥
प्राणायाम प्रभावेण जीवन्मुक्तस्तु जायते ।
ऋषिहंसो व्यक्त पुर्वा गायत्री च्छन्द्र उच्यते ॥
देवता परमादिस्तुहसोहं वीजमुच्यते ।
सः शक्तिः कीलकसोहं प्रणवस्तत्व मेव च ॥
उदात्तस्वर इत्येवं मनोरस्य प्रकीर्तितः ।
मोक्षार्थे विनियोगः स्यादेवं कुर्यात् सदानरः ॥
सूर्यात्मनेन हृद् देवि सोमात्मने शिरस्तथा ।
निरंजनं शिखाज्योतिर्निराभासा तथा प्रिये ॥
अथ दन्तधावन * *? ॥
* * * * * *? न्तधावनं विहितौधसां ।
ते चापार्गा वदरीनिगुण्डी विल्ववासका ॥
अशोक चंपप्लक्षपर्णजं वुधव
fओलिओ ४३ नोत् fओउन्द्.
४४अ)
स्रूवा ॥
अर्कन्यग्रोधखदिरकरंजककुभादिकं ॥
प्रमाण ॥
द्वादशांगुलविप्राणां क्षत्रियानां नवांगुलं ।
अष्टांगुलं च वैश्यानां सूद्राणां च षदंगुलं ॥
चतुलंगुलमानं तु नारीनां विधिरुच्यते ॥
अथमानसस्वानं ॥
मनसामूलमन्त्रण प्राणायाम पुरुस्मरं ।
कुर्वीत मानसं स्नानं दृतांर्थेषु भावनात् ॥
अथ विभूति धारणा ॥
ब्राह्मणस्यार्द्ध पुंण्डं स्या क्षत्रियस्य त्रिपुंण्डकं ।
अर्द्धचन्द्रस्य वैश्यस्य शूद्राणां वर्तुरकृति ॥
वैष्णवस्योर्द्धं पुंड्रं स्यात् त्रिपुण्डं शिव सेविनः ।
अर्द्धचन्द्रोगणेशस्य देवी भक्तस्य वर्तुलं ॥
नारायण परोयस्तु चन्दनस्य त्रिशूलकं ।
विभूति धारणं स्यास्य मन्त्रस्य च सदाशिवः ॥
ऋषिस्तृष्टुप् भवे छन्दो रुद्रो देव प्रकिर्तितः ।
४४ब्)
प्रासाद वीजं बीज स्यात् शक्तिं कुर्च च कालक ।
क्षत्रि * * *? र्व पापक्षयार्थे विनियोगिता ॥
तिलकधारणं ॥
मायाकामरूपः सर्वजनमोहिनि चोर्द्धरेत् ।
सर्वावधंकारी त्युक्त्वा मां ततो रक्ष युग्मकं ॥
अस्त्रं शिरो युतो मन्त्रो मया ते परिकीर्तितः ।
एतत्तस्त्रोदितं देवि प्रोक्तं तिलक धारणं ॥
अथ संध्या ॥
आचाम्य प्राङ्मुखो भूत्वा उपविश्य च मन्त्रवित् ।
वैदिकीन्तान्त्रिकीन् कुर्यात् ततः सध्यां समाहितः ॥
वक्षेथ तांत्रिकीं सध्यां मूलानाचमन त्रयं ।
विद्याभेदसंध्यासंख्यामाह ॥
सुन्दर्यास्तु चतुःकालं संध्यावन्दनमाचरेत् ।
प्रातःकाले च मध्याह्ने सायाह्नेष्यर्द्धे रात्रके ॥
चतुर्विधा गुगायत्री जपद्यत्नेन पार्वति ।
४५अ)
प्रस्तारा कृति रूपा च उपस्थानाभिधा तथा ।
वांच्छा कल्पलता देवि चतुर्थी परिकीर्तिता ॥
षष्ठी पारायणं प्रातमध्याह्ने नामसंज्ञकं ।
मन्त्रपारायनं रात्रौ निशायां चक्रसंज्ञकं ॥
कालिकायामिदं प्रोक्तंमुपस्थानविवर्जितं ।
मेधादीक्षादिराज्ञी त्वात् काल्यासंध्या चतुष्टयं ॥
संध्या त्रयं च तारायां छिन्नायां त्रिविधं भवेत् ।
एतासां न हि भेदोष्टि भेदश्ने नरकं व्रजेत् ॥
अथ दशविद्या गायत्रीर्द्वारमाह ॥
कालिया ॥
कालिकाय पदं चोक्ता विद्महे तदनन्तरं ।
श्मशान वाशिनी ङेन्तं धीमहीति पदं वदेत् ॥
तन्नो घोर पदं प्रोच्य प्रवदे च प्रचोदयात् ।
अथ ताराया ॥
तारायं पदमाभाष्य विद्महे तदनंतरं ।
महोग्रायै पदं प्रोच्य धीमहीति तत पुनः ॥
४५ब्)
तन्नो देवि पदं प्रोच्य वदेत् परत्प्रचोदयात् ।
अथ छिन्नाया ॥
वैरोचन्यै विद्महे च च्छिन्न मस्तायै धीमहि ।
तन्नो देवि पदं चोक्त्वा योजनीयं प्रचोदयात् ॥
अथ त्रिपुरसुन्दर्या ॥
वाग्भवं त्रिपुरा देवि विद्महे तदनन्तरं ।
कामबीजं समुच्चार्य कामेश्वरययै च धीमहि ॥
तन्नः क्लिन्ने पदं चोक्त्वा वदेत् पश्चात् प्रचोदयात् ।
अथ भैरव्याः ॥
त्रिपुरा च तथा ङेन्तं विद्महे पदमुर्द्धरेत् ।
भैरव्यैश्च ततश्चोक्त्वा धीमहीति ततो वदेत् ॥
ततो देवी पदं चोक्त्वा प्रचोदयादुदीरयेत् ।
गायत्री त्रैपुराख्याता वाद्यं समुद्धरेत् ॥
अथ कमलाया ॥
महालक्ष्मी पदं प्रोच्य विद्महे तदनन्तरं ।
महाश्रियै पदं चोक्त्वा धीमही च पदं वदेत् ॥
४६अ)
तन्नः शब्दात् श्रीपदं च ततो दद्यात् त्रयोदयात् ॥
अथ भुवनेश्वर्याः ॥
मायाबीजं समुच्चार्य भुवनेश्वर्यै च विद्महे ।
आद्यायै पदमुच्चार्य धीमही तदनन्तरं ॥
तन्नोः देवी पदं प्रोच्य ततो देयं प्रचोदयात् ॥
अथ मातङ्गी ॥
अथ वक्ष्यामि गायत्री साधकस्य वरदं ।
शुक प्रियायै विद्महे श्रीकामेश्वरी धीमहि । तन्नः श्यामा प्रचोदयात् ॥
अथ धूमावती ॥
धूमिति बीजमुच्चार्य धुमावतीति विद्महो विवर्णा देवी पदतोः धीमही
पदमुर्द्धरेत् ॥
धूमा देव्यास्तु गायत्री तन्नो घोर प्रचोदयात् ॥
अथ वगलामुखी ॥
स्थीरमाया समुच्चार्य वगला पदतोमुखी ।
विद्महे दुष्ट पदतः स्तम्भिनी पदमुच्चरेत् ॥
४६ब्)
धीमहीति पदस्यान्तरे तन्नो देवी प्रचोदयात् ।
वगलाया महेशानि गायत्रीयं प्रकीर्तिता ॥
अथ निषिद्धासनं ॥
भृणपल्लवकाष्टानि पाषाणां मृण्मय तथा ।
वंशासनं च वस्त्रं च केवलं क्षितिमासनं ॥
* *? ष्टि विधं देवि चासनं परिवर्जयेत् ॥
इति श्रीकौलरहस्य दशमपटलः

12

अथ मातृकामुद्रामाह ॥
ललाटे नामिका मध्ये न्यसेच्च मुखवृत्तके ।
तर्जनी मध्यमा नामा विन्यसेच्चैव न्यत्रयोः ॥
तर्जनामीकासंयुज्य न्यसे साधकसत्तमः ।
अंगुष्ठं कर्णया न्यस्य कनिष्ठांगुष्ठको नसौ ॥
मध्यमा गण्डयो न्यस्य मध्यमाष्ठयोर्न्यसेत् ।
अरामादन्तयोर्न्यस्य मध्यमा चोत्तमांगके ॥
मुखे नामां मध्यमां च हस्तपादं च पार्श्वयोः ।
कनिष्ठानामिका मध्य न्यस्तव्यो पृष्ठतस्तथा ॥
४७अ)
सांगुष्ठास्तानाभिदेशे सर्वाः कुशौ च विन्यसेत् ।
हृतदयेत् साधक सर्वमंशयोश्चककुत्स्थले ॥
हृत्पूर्वहस्तपत्कुक्षि मुखेषु तलमेव च ।
एतास्तु मातृका मुद्राः क्रमेण परिकीर्तिता ॥
अज्ञात्वा विन्यसेद् यस्तु न्यासः स्यात् तस्य निस्फलः ॥
अथ ऋख्यादि न्यासन्य क्रमेण स्थानानि मुद्राश्चाह ।
ऋषिं न्यसेन् मुर्द्ध्नि देशे च्छन्द्रस्तु मुखपंकजे ॥
देवता हृये चैव बीजन्तु गुह्य देशके ।
शक्तिपादयोश्चैव सर्वाङ्गकीलके स्मृतं ।
अथ षडंगार्थमाह ॥
हृदयायेति शब्देन हृस्थो देव सविग्रहः ।
उच्यते नम इत्यस्था ज्ञानं तद्विपर्य परं ॥
शिरः शब्दो देवताया उत्कृष्टत्वाभिधायकः ।
स्वाहेति विषयाः सर्वे देवतायां समर्पितः ॥
शिखायै च स्वरूपत्वं वषडपि तदुच्यते ।
४७ब्)
देवताया व्यापकत्वं केवचायाभिधीयते ॥
हुमपि व्यापक तेजो देवतायाः प्रकाश्यते ।
नेत्रे शब्देन देवस्य प्रकाश्यत्वं प्रकाश्यते ॥
वौषडपि तदैवोक्त मन्त्रशब्देन वारणं ।
अनिष्टस्य फट् शब्देन दाहकं तेज उच्यते ॥
ज्ञात्वैवमंगमन्त्रार्थमंगं न्यासं करोति यः ।
प्रचयास्तस्य सर्वार्थाः पुज्यते स्त्रिदशैरपि ॥
अथान्तर्विधिः ॥
एवं देहमयां पीठे चिन्तयेदिष्ट देवतां ।
ध्यानं कुर्यात् ततो मन्त्री तत् तत् कल्पोक्त वत्मना ॥
तदपि द्विविधं प्रोक्तं सगुणं निर्गुणं तथा ।
आत्मना हृदयास्भाजे कर्णिका केशरो ज्वले ॥
प्रहृल्लेसोमसूर्याग्नि मण्डलेन विराजिते ।
स्वीयेष्ट देवतां तत्र जजेदोगमबोधितां ॥
एवं यद्वेदनं तद्विसगुणं ध्यानमुच्यते ।
४८अ)
अथान्तर्यजनं वक्ष्ये दृष्ट्वादृष्टफल प्रदं ।
योगिणां येन जायन्ते अधीरामानवाः सदा ॥
श्रीदेव्युवाच ॥
वाह्य पूजां विनास्वामित्कथमन्तः प्रपूजनं ।
पूजा ज्ञानं यदाजातं तदान्तः पूजनं भवेत् ॥
सामग्री ज्ञान हीनत्वात् कथमन्तः प्रपूजनं ।
श्रीशिव उवाच ॥
सत्य मे तन्महेशानि रहस्यं शृणु यत्नतः ।
विष्ठापूर्णे स्वदिरे तु वहिः शुद्धौ तु किं फलं ॥
अंतः शुद्धि समासाद्य वहीः शुद्धीं समाचरेत् ।
वद्भिः पूजां विधौ देवि सामग्री दुर्मिलोकलौ ॥
व्यंग्यता जायते सत्यं सर्वत्र पूजन शिवे ।
तस्मांगता सिद्धि हेतोरन्त पूजा प्रकीर्तिता ॥
भावना मात्रगम्येयं कोटिरत्ननिकल्पयेत् ।
अंतपूजा विहिनेनः कृतं तदफलं भवेत् ॥
४८ब्)
संयोगं तु विना देवि यो गर्भाधानमिच्छति ।
स चान्तः पूजां त्यक्त्वा वहिः पूजां समिच्छति ॥
सदरिद्री महोघोरी कथमन्त्र सुखं भवेत् ।
अंतपूजां समासाद्य वहिपूजां समाचरेत् ॥
संभाव्य पूजनं स्वान्ते तथैवरयेद्वहि ॥
श्रीदेव्युवाच ॥
तथा मुक्तं त्वया देव संशयामस्तिशंकर ।
वहिः पूजा नमासाद्य चांतः पूजां समाचरेत् ॥
एवं क्रमेण देवेशि पूजा किं न भविष्यति ।
श्रीशिव उवाच ॥
मृदपर्क्वं समासाद्य यथा देवि घटोद्भवेत् ।
घटः पर्क्वमृदा देवि पूर्ववत् किं भविष्यति ॥
अपर्क्वामृत्समानीय यथा देवि घटो भवेत् ।
ततः पर्क्व प्रकर्तव्यः सुंन्द्ररः स तु जायते ॥
अन्तपूजन वहिः पूर्णं वहि न्यूनतरा भवेत् ।
४९अ)
अन्योन्याशयसंयोगात् पूजनं सकलं भवेत् ॥
देवो भूत्वा यद् देवं नादेवो देवमर्चयेत् ।
तस्माद् देवत्व मासाद्य चांतपूजादि मार्गतः ॥
गुरोध्यानं प्रकुर्वीत यथापूर्वविशोलधीः ।
इति ब्राह्मी मुहूर्तकृत्यं ॥
स्नानं बुधस्ततः कुर्यात् सुच्चिदानन्दसिद्धये ।
स्नायार्च विमले तीर्थे पुष्ठरे हृदयाश्रिते ॥
बिन्दु तीर्थे नरः स्नायात् पुनर्जन्म न विद्यते ।
इति स्नानं ॥
मुलाधालात् कण्डलि निमुत्थाप्यजो जयच्छिवे ।
शिवः सक्त्याः समायोगो यस्मिकाले प्रजायते ॥
सासन्ध्या कुलनिष्टानां समाधिस्तैः प्रगीयते ।
इति संध्या ॥
चन्द्रार्कानलसंघट्टाङ्गलितं यत्परामृतं ।
तेनामृतेन दिव्येन तत्पयेत् परदेवतां ॥
४९ब्)
ब्रह्मरंध्रादधो भागे यच्चान्द्रं पात्रमुर्तम ।
कलासारेण संपूर्य तर्पयेत् तेन खेचरी ॥
इति तर्पण ॥
आधालिंङ्गनाभौ हृदय शशकलेत्यादि ।
इत्यन्तमातृकां न्यासः ॥ अथान्तं षडङ्ग न्यासः ॥
सहस्रारे मणि निभे सर्ववर्णविभूषिते ।
अथादि त्रिलेखाढ्यै हलक्षत्रयविभूषिते ॥
तन्मध्ये परबिन्दुं च सृष्टिस्थितिरयात्मकं ।
एवं समाहितमनां ध्यायेन् न्यासोयमान्तरः ॥
मूलादि ब्रह्मरंध्रान्तं विन्द्वंध्वायेच्चिद्दात्मकं ।
बिन्दुस्रुतसुधासारैस्तर्पयत्मातृकां न्यसेत् ॥
एकैकं वर्गमुच्चार्य मूलाधारात् भ्रूवान्तिकं ।
नमोन्त इति विन्यसः आन्तरः परिकीर्तितः ॥
हृद्यान् मनोहृदान्मायां दृदयेस्यर्चिद्दान्मत्कं ।
क्रियते तत्परस्य न हृन्मन्त्रे ततः परं ॥
५०अ)
सर्वज्ञाद्विगुणार्तुंङ्गे सर्च्चिद्रुपे परात्मनि ।
क्रियया विषया हारः शिरो मन्त्रेण देशिकैः ॥
हृच्छिरो रूपचिर्द्धाम लयता भावना दृढा ।
क्रियते निज देहस्य शिखामन्त्रेण देशिकैः ॥
मन्त्रामत्कस्य देहस्य मन्त्रवाह्य न तेजसा ।
सर्वतो वर्ममन्त्रेण क्रियतेऽहन्यसंव्यतः ॥
यद् देदाति परं ज्ञानं सचिद्रूपे परान्मनि ।
हृदयादि मयं तेजः स्याद् देतन्तत्र संज्ञितं ॥
अध्यात्मिकादि रूपं च साधकस्य विनाशयेत् ।
अविद्या जाल मन्त्रं तत्पलंधमसमीरितं ॥
अथाध्यानं ॥
किलकस्थंणतदग्निस्थं चन्द्रभास्करमध्यनं ।
महाशून्यलयं कृत्वा पूर्णतिष्ठेति योगिलात् ॥
जर्जीव ब्रह्मणोरैक्यं सोहं स्यामिति वेदनं ।
५०ब्)
तदन्धनिर्गुणं ध्यानं मिति देव विदो बिन्दुः ।
इति ध्यानं ॥ अथार्चनं ॥
अर्चयेद् विविधैः पुष्पैः तत्क्षणात् तन्मयो भवेत् ।
न्यासस्तन्मयता बुद्धिः सोहं भावेन पूजयेत् ॥
अमायामेन हंकार मनागममदं तथा ।
अमोहकं मदं हस्तमह्येषा क्षोभकौवतः ॥
अमात्सर्य मलोभ *? दर्शपुष्पं बिन्दुबुधाः ।
अहिंसा परमं पुष्पं पुष्पमिन्द्रि ग्रह तथा ॥
दया पुष्पं क्षमापुष्पं ज्ञानपुष्पं च पंचमं ।
इत्युक्तैरुत्तमै पुष्पैः पूजय परदेवतां ॥
इत्यर्चनं ॥
मालापंशिका प्रोक्ता सुत्रं शक्तिशिवात्मकं ।
ग्रत्थिकुण्डलनी शक्ति कलान्ते मेरु सिंस्थिति ॥
इति जपः ॥ अथ होम ॥
मूलाधार गते कुण्डे देवताग्नि समुज्वले ।
५१अ)
धर्माधर्मन्विते ऋस्रमूलमन्त्रे पुरःसरं ॥
अहंजुहोमि स्वाहेति प्रत्येकं जुयात् सुधीः ।
अहाताऽसत्यपैशुन्य कामक्रोधादिकं हविः ॥
मनः एवश्रुवः प्रोक्त उन्मनी श्रुगुदीरिता ॥
अत्र मूलान्ते ॥
नाभौ चैतन्य रूपाग्नौ हविषा मनसा श्रुचा ।
ज्ञानप्रदीपिते नित्यमक्षवृत्तिर्जुहोम्यहं ॥
स्वाहा प्रथमाहुति ॥ मूलान्ते ॥
धर्माधर्म हवि दीप्ता आत्माश्वै मनसा श्रुचा ।
सुषुम्नावत्मना नित्यमक्षवृत्त्युर्जुहोम्यहं ॥
स्वाहा इति द्वितियाहुतिं ॥ मूलान्ते ॥
प्रकाशाकासहस्ताभ्यांमवलंव्योमनी स्रूवा ।
धर्माधर्मकलास्नेह पूर्णमग्नौ जुहोम्यहं ॥
स्वाहा इति तृतियाहुति ॥ मूलान्ते ॥
अनन्तरनिरंन्धननिवन्धन मेधमाने मायान्धकारपरिपरिपंथिनि
संविदग्धौ ।
५१ब्)
कस्मिंश्चिद भुतमरीरिविकाशभूमौ विश्वं जुहोमि वसुधादि वखावसानं
॥
इति चतुर्थाहुति ॥
इत्यन्त यजनं कृत्वा साक्षाद्ब्रह्ममयो भवेत् ।
न तस्य पापपुण्यानि जीवन्मुक्तो भवेद्ध्रुवं ॥

इत्यन्तर्याग ॥
इति श्रीकौलरहस्य एकादशपटलः ॥
अर्घ्यादिकपात्राणां फलं वक्ष्य शुभाशुभं ।
सर्वकामफलं स्वर्णं रौम्यमायुः सुतप्रदं ॥
सौभाग्यं ताम्रपात्रेण धर्मावृद्धिस्तु मृत्मये ।
नालिकेलेदवे तुष्टिः पुष्टिदं काचसंभवं ॥
लक्ष्मी प्राप्तिर्विल्वपात्रे ब्रह्मण्यं ब्रह्मवृक्षजे ।
मारणाच्चतने लोहंस्तंभः पाषाणजे भवेत् ॥
मन्त्रस्याराधने काष्टं वाममार्गे * *? च्छ्रितं ।
५२अ)
अर्घ्यपात्रमिदं प्रोक्तं सर्वदेवमनोरमं ।
आधारस्थालिकामानं षोडशद्वादशांङ्गुलं ॥
वस्वर्तुतौविकं ॥
रत्नादीनां तु पात्रानि शुभलेखांकितानि च ।
अद्येनैव्यद्य पूजार्थ वलिदाने प्रकल्पयेत् ॥
पात्राणमादरः कार्यः पात्राण्योवात्तमाणि तु ।
वलिहोम क्रियाद्यं हि विना पात्रं न सिध्यति ॥
षट्त्रिंशदंगुलं पात्रंमुत्तमं परिकीर्तितं ।
मध्यमं तु त्रिभागोनं कनिष्ठां द्वादशांगुलं ॥
वस्वंगुल विहीनं तु न पात्रं कारयेत् क्वचित् ।
अर्घ्यमानं तु पादेशं चतुरगुलं चक्रमसः उत्तमादि प्रभेदतः ॥
पुष्पपात्रं गन्धपात्रं यथालाभेन कल्पयेत् ।
श्वेतादीत्पतिशस्तानि विप्रादीनां क्रमेण च ॥
मेचयेन् प्रोक्षनी पात्रवोयैमूलास्त्रे मुचरेत् ।
आत्मानं यागवस्भूमि पूजाद्रव्याणि मण्डलं ॥
दर्शयेद्धनुमुद्रां च द्रव्यशुद्धिरियं मता ।
५२ब्)
ततः संपूजयेद् देवं शक्त्यांलत्वा *? पचारकैः ।
आसनं स्वागतं चार्घ पाद्यमाचमनीयुकं ॥
मधुपर्का तथा चमं स्नानं वस्त्रमलं कृतिंः ।
गंधपुष्पणिधुपश्च दीपनैवेद्यचंदनाः ॥
प्रयोजयेदर्चनायामुपचारांस्तु षोडशी ।
दशोपचारा मध्या स्यात् सा गृहस्थै विधीयते ॥
अर्घ्यं पाद्यं तथा चार्मो मधुपर्कस्तथा च यः ।
गंधादयो निवेद्यंता उपचारा दश स्मृताः ॥
अथ रहस्य पुष्पं ॥
योनि पुष्पं महेशानि वज्रपुष्पं निगद्यते ।
आषाडशादरुढाया उत्तमं सर्व * *? दं ॥
वलात् क्रमेण ऊढाया मध्यमं भोगवर्द्धनं ।
रजो योगवशादन्यं धर्मसुखदायकं ॥
स्वयंभु कुसुमे देवि त्रिविधं भुवि जायते ।
५३अ)
सर्वैः पुष्पैः सदा पूज्या विहिता विहितैरपि ।
कर्तव्या सर्वदेवानां भक्तिं योगोत्र कारणं ॥
अनयो ग्रहणोपायमाह ॥
सूत्रेण पट्टवस्त्रेण वीरवस्त्रेन पार्वति ।
काश्मीरवस्त्रसूत्रेण पट्टसूत्रेण पार्वति ॥
कस्तुलकुंकुमन्त्र चन्दनागुरुकादिकं ।
नानासुगंधिकं दत्वा एकीकृत्वा तु साधकः ॥
अष्टगंधेन संपुष्पै संयुक्तं पुष्पमाहरेत् ।
एतेनाक्षतयोगेन पूजयेत् परमेश्वरि ॥
आसनार्थे च होमार्थे चक्र पूजा क्रमात् बिन्दुः ।
स्वयंभु संयुतं पुष्पं सिद्धपुष्पं विदुर्वधाः ॥
रति माल्यानि देवेशि न च पयुखितानि च ।
सदा सुद्धानि पुष्पाणि नवीनानि दिने दिने ॥
एत सर्वं समादाय तारां काली च पूजयेत् ।
५३ब्)
पुष्पदानफलात्कोटि गुणितत्फलताप्नुयात् ॥
अथ दशविद्याधूपविधि ॥
इदानी शृणु विप्रर्ष्ण धूपनिरूपनं मम ।
गुग्गुलुंशरस्रंदारु पात्रं मलय सम्भवं ॥
ह्रीवेरमगुरुं कुष्टं गुडं सर्करसंघनं ।
हरितकी नखीलाक्षाजटामांसां स शैलजं ॥
षोडशाङ्गी विदुधूपं देवपैत्रे च कर्मणि ।
मधुमुष्टं घृतं गंधो गुगुलं गुरुलजनं ॥
शरणंशालसिद्धिथ दशाङ्गोधूमुच्यते ।
सिताज्यमधूसंमिश्रं गुर्गुरुं गुरुचन्दनं ॥
षडङ्गधूपमेतन्तु सर्वदेवप्रियं सदा ।
गुग्गुल्व गुरु शीलं च शर्करामधुचन्दनं ॥
धूपयेदाज्यसंमिश्रै देववस्य देशिकः ।
लोहवाणौ षोडशांगं त्रिविद्यायां प्रकीर्तितौ ॥
५४अ)
काली विद्या विधौ देवि अगुरुश्च दशांशकं ।
अष्टादशाङ्गं श्रीखण्डतारा विद्याविधौ स्मृतं ॥
च्छिन्नाविद्या विधौ देवि पञ्चांगं गुग्गुलुस्तथा ।
कृष्णांगुरुं पीतसारो ब्रह्मास्त्र मनुगोचरं ॥
रालोड्यगुरुचन्द्ररं मातंग्यापरिकीर्तितं ।
कस्तूरी चैव कर्पूरमष्टगंधं तथैव च ॥
भैरव्यां कर्तितं देवि नविचैव शिलानसः ।
भुवनेश्यामयो प्रोक्तं श्रीखण्डकमलामतौ ॥
लक्षागुडा हि धूम्रायां सिद्धविद्या विधौ शिवे ॥
अथ दीपविधि ॥
दीर्घाज्ञान महाध्यान्ता हंकारपरिवर्जनात् ।
परतत्व प्रकाशाच्च दीप इत्यभिधीयते ॥
घृतदीपः प्रथमतस्तिलतैलसमुद्भवः ।
५४ब्)
सार्षपः फलनिर्यास जातो वोचोरिजोद्भवः ।
दधिजग्धौन्नजश्चैव दीपसप्त प्रकीर्तिता ॥
पद्मसूत्र भवावर्ति दर्भसूत्र भवाथवा ।
जालाजावादली वापि भूलकोषोद्भवाथवा ॥
वर्तिकी दीप कृत्येषु सदापञ्च विधौः स्मृतः ।
अथ षोडशोपचाराणां क्रमेण मुद्रामाह ॥
द्रव्यदनस्थलं वक्ष्य निबोधातः परं मम ।
गन्धपुष्पं भूषणं च सुंमुखे संनियोजयेत् ॥
दक्षिणे प्रदीपो देयो वामे धूपंस्तथा द्विज ।
नैव्यद्यं दक्षिणे देशे पक्वं यत्नत्विवेदयेत् ॥
अपक्वं वामभागे च दीपस्यातः परं शृणु ।
घृतयुक्तं च यो दीपो सितावर्ति युतोपि वा ॥
दक्षे देशे च तं दद्यात् अन्यन्तु वामदेशके ।
आसने पद्ममुद्रास्याद्धस्तद्वयमधोमुखं ॥
५५अ)
मुन्द्रैषा कुशलप्रस्ने तदैवोर्ध्वमुखं पुनः ।
मुद्रा स्यात् स्वागते चार्य मुद्रात्वंजलि रूपिनी ॥
अनामांगुष्ठयोर्योगात् सैवोक्ता पद्यमुद्रिका ।
उत्तानं दक्षहस्तं तु कृत्वा निम्नतलं सुधी ॥
कनिष्ठहीनासंयुक्ता चतस्रोद्गुल्य उन्नताः ।
मूद्रैषा चमने प्रोक्ताधोमुखी सात्वनामया ॥
स्पृष्टांगुष्टा भवेत् मुद्रा मधुपर्कं वरानने ।
अधोमुखी दक्षहस्त कृत्वा मुष्टिः कनिष्टयोः ॥
विमुक्तो स्वानमुद्रैषा गदिता परमेश्वरि ।
उर्तानं दक्षिणं हस्तं कृत्वा तत्मध्यमाप्नुनः ॥
अंगुष्ठेन पृशेद्रेषा मुद्रावस्त्रस्यर्तिता ।
एषै वा नामिका स्पर्शोत् मुद्राभूषणसंज्ञकाः ॥
कनिष्टास्पर्शतो स्वष्या द्रवितस्य च मुद्रिका ।
५५ब्)
अष्टाग्रेण कनिष्टाग्रं स्पृशेत् गन्धस्य मुद्रिका ।
अधोमुखं करं कृत्वा तर्जन्याग्रेण योजयेत् ॥
अंगुष्ठाग्रेण मुद्रेयं पुष्पाख्या परमेश्वरि ।
अंगुष्ठाग्रेण तर्जन्या स्पृशेदग्रं महेश्वरि ॥
धूपमुद्रेयमाख्याता सर्वदेव प्रियं करे ।
ज्येष्ठाग्रेण स्पृशेदग्रं मध्यमाया सुरार्चिते ॥
दीपमुद्रेयमुदिता सर्वदेवाश्रया शुभा ।
अनामाग्रं स्पृशेद् देवि ज्येष्ठाग्रेन तु देशिकः ॥
नैव्य?द्यमुद्रा कथिता तत्वमुद्रेति कीर्तिता ॥
अथ नित्यहोम ॥
वामिनस्तूपचारांते कुर्यामद्य न तर्पणं ।
ते नाम नित्य होमस्तु नित्यं तर्पण सेवनं ॥
कृत्वा स्तुत्वा नमस्कृत्य बिन्दु मण्डले ॥
प्रदक्षिण ॥
त्रिकोणाकार सर्वत्र नतिः शक्तः समीरिता ।
५६अ)
अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समीरिता ॥
मोहाद्वा कामतः शुद्रः पुराणां सहिता स्मृतिं ।
पठन्नरकमाप्नोति पितृभिः सह पापकृत् ॥
शूद्रसंस्थापितं लिंगं पूजयेद् वा नमेतवा ।
तत्सर्वंधिप्रसादादि गृह्णन्नियमाप्नुयात् ॥
इति श्रीकौलरहस्य द्वादशपटलः

13

अथ कौलाचारिनो (कौरवामिनो) नित्यार्चनमाह ॥
दक्षयज्ञ यदा देवि त्वया स्वक्तं वारेवरं ।
अहं गृह्णीत्वा तत्कंधे चितां प्रवेष्टुमुद्यतः ॥
वडवाग्नेर्गवेषार्थं यत्र यत्रा भवेत् स तु ।
तत्र तत्र च शक्रेण भूषणं निर्वापितो जलैः ॥
एवं पर्यटतो वर्षं प्रस्वेदो मे महान भूत् ।
तद्विंदुपातनिदग्धा धरणीय भविष्यति ॥
५६ब्)
तदा संप्रार्थिता विष्णु धरणी रक्षणाय च ।
तदा शुत्वघुभिवाणैस्त्वदंगानि समाच्छितः ॥
चतुराशीति खंडानिः कृत्वासौ पातयद्भुवि ।
गतेन वीजितश्चाहं प्रीतोहमखिलस्तदा ॥
विष्णुश्च प्रकटी भूय पादया पतितो मम ।
उत्थाप्य च परिष्ठक्तस्तवशोकश्च विस्मृतः ॥
तावद्ब्रह्मादिका देवानारदाद्यामहर्षयः ।
मांतुष्ठुवुस्तदा वाक्यं विष्णुः प्रोवाच पार्वति ॥
ज्ञानदासि महेशत्वं कथमोहमुपागत ।
सत्याः शरीरेण सहस प्रवेष्टु हव्य वाहनं ॥
अमुगच्छेत् पतिं नारी न पुमान् तां च गच्छति ।
इति सास्त्र मनादृत्य कथं देव विमोहितः ॥
एवं वदति देवेशं ब्रह्मणामांहरिंस्तथा ।
५७अ)
श्लेषालंषालंकाल वाक्यैश्चतुष्टे विना बुद्धि सह ॥
आवाभ्यां तु तदा प्रोक्ता याचयाध्यवरं द्विजा ।
तदा तै ब्राह्मणै युक्तं जातोयं धर्मविप्लवः ॥
दक्षयज्ञा श्रिभैः शैवा ब्राह्मण्याङ्गुशिता द्विजाः ।
यज्ञागताश्च सर्वेपि शैवैः सप्ताद्विजातयः ॥
विष्णुणा कर्तितौरंशै सत्याश्चेदंधरातलं ।
स्थरे स्थरे शवस्पर्श्चा सर्वं ब्रह्मकर्मं विवर्जितं ॥
तस्याद्धरायासंशुद्धिं विप्राणां चापि शुद्ध्यतिं ।
ब्रह्मवाक्यस्य सत्यं त्वं यथा भवति तत् कुरु ॥
ततो ध्यात्वा मया प्रोक्तं संमती कृत्य विष्णुना ।
यत्र वेद क्रिया ध्वस्ता तत्र तंत्र प्रवत्यतां ॥
ये विप्रा *? शापनिर्दग्धा ब्रह्मकर्मविवर्जिता ।
तेषां तु कौल धर्मोयं भुक्तिमुक्त्यास्तु शाधनं ॥
५७ब्)
ये विप्राः पीठसंजात शापनिर्दग्ध शापताः ।
तेषां कुलेधिकारोयं मार्गस्यास्य प्रजायते ॥
तत्कुले एव पूज्यत्वा कौलोयं मार्ग उच्यते ।
वाममार्ग ततो न्यूनस्तेषां क्षत्रिय वैश्यकौ ॥
यजमानौस्तयोस्तत्राधिकारः समुदाहृतः ।
सिद्धान्तोयस्ततो न्यूनस्तत्रा शूद्राधिकारिता ॥
ये पारंपर्यमज्ञात्वा कौलधर्मविशंतिते ।
निःस्वासं ततीहीनाश्च रोगिनो नात्रसंशयः ॥
कौलज्ञानज्य सिद्धोयस्तद्रव्यं भोस्तुमिच्छति ।
समहापातकी देवी सर्वकर्म वहिःकृतः ॥
समयाचार हीनस्य स्वैरवृत्तदुरात्मनाः ।
न सिद्धिः कुलत्रंशस्तत्ससगं न कालयेत् ॥
यः शास्त्रविधिमुत्सृज्य वर्त्तते कामचारतः ।
ससिद्धिमिहिमाप्नोति परत्र च परांगतिंः ॥
कुलद्रव्याणि सेवंते येन्मदर्शनमाश्रिता ।
तं? दंगरोमसंख्यातं भूतयोनिषु पूजायते ॥
५८अ)
मदप्रस्खलितात्मा च न किंचिदपि वर्ति चेत् ।
न ध्यानंत तपश्चर्चां न धर्म न च सस्क्रियां ॥
न दैवं न गुरुन्मन्त्र विचारो यदि कौलिके ।
केवलं विषया सक्तः पतत्यवनसंशयः ॥
श्रीगुराः कुलशास्त्रेभ्यः सस्यग्विज्ञापवासनां ।
पंचमुद्रां निषेचत चान्यथा पतितो भवेत् ॥
आवृर्ति गुरुपक्तिंश्च वटुकादीन्न पूजयः ।
वीराप्येवं वृथापानाद् देवता श्रापमाप्नुयात् ॥
अथ मुण्डग्रहण ॥
मुण्डप्रहणकाले तु सर्वथा तु शिवा वलिः ।
शिवां शक्तिं च वा पूज्या दिक्पालान्ववलिं युतान् ॥
पूजयेत् परमेशानि सायुधादि यथाक्रमं ।
एवं क्रमेण वीरेन्द्रे ससर्वेषां वलिं माहरेत् ॥
वङ्माया कमला प्रोच्य देव्यास्तु मुषवै यजुः ।
प्रवर्तते इमं भाव वलिं गृह्न तु युग्मकं ॥
अथासनविधि ॥
ऋतुमभ्यासने देवि त्रिदिना त्रिगुणाकृतिः ।
ऋतु वस्त्रासनं देवि त्रिमासात् फलदायकं ॥
५८ब्)
मुण्डासनं तु षण्मासैर्दिनांतंतु शवासनं ।
नरचर्मासनं देवि पक्षांतंतु फलं भवेत् ॥
मृद्वासने तु मासेन कामलं तत्वमासिकं ।
फलं भवति देवेशि उर्णाख्य दश वर्षतः ॥
योनित्वागासने देवि सप्ताहेन फलं भवेत् ।
योन्यासने पक्षान्ते सुराताख्य दिनाष्टकं ॥
विपरीते षट् दिनैश्च जिह्वा स्पर्शो द्विकेदकैः ।
सप्तचुंवनके देवि सप्तहेतु फलं भवेत् ॥
विष्टरे मासषड्गैश्च फलं भवति पार्वति ॥
अथासनस्यावस्य कर्तामाह ॥
मृतासनं विना देवि योजयेत् कालिकान्नरः ।
तावत् स नारकी ज्ञेया यावदाहुतसंप्लवं ॥
अथ मृद्वासनाद्य भावे अनुकल्पमाह ॥
मृताभावे कुशरूपं विष्टरं परिकल्पयेत् ।
पूज्यं पीठं विष्टराख्यां पूज्यातारांविका परा ॥
श्रीदेव्याविष्टरो देवि धारास्तस्याः स्फूतास्ति चः ।
५९अ)
विष्टकं साधकस्यार्थ कथ्यते शृणु शांप्रतं ।
भूतपत्राणि यस्मित्वै शकुशेत् सविधियते ॥
हस्तपादे दशमितादिक् युगं हृत्सराजे विंशत्ससंख्यासकलवरदे मस्तके
कीर्तिताश्च ॥
गुह्ये जिह्वा वदनरदरे घ्राणर्णस्तनेषु लिंगे चन्द्रा चे युगपरिमिता
योजनीयाः कुशाश्च ॥
इत्यषः विष्टरः सर्व सर्वसिद्धि प्रदायः ।
कुशैर्व्वा बन्धनं कार्यं नाड्या वा परमेश्वरि ॥
रक्तमिश्रित सूत्रेण पट्टसूत्रेण वा पुनः ।
विष्टलं पलिकल्पाथ तस्योपरि जपं चरेत् ॥
विधिविस्तर पद्मस्य विधियोक्तो मया तवः ।
शरूपं प्रकल्पार्थ कवि वाग्मी भवेन् नरः ॥
स्वयं * *? क्तं सूत्रकर्तव्यं सर्वसिद्धिय ।
सवभावे विस्तरस्तु शवरूपप्रकीर्तिताः ॥
५९ब्)
साक्षान्तु शिवरूपो हि विष्टरः परिकीर्तिताः ।
विष्टरः शिवरूपः स्यात् स्वस्य शक्तित्व कल्पना ॥
शिवशक्तिसमायोगात् किं न सिद्ध्यति भूतले ।
शवरीरोत्तमं वस्त्रं द्वितीयो विष्टरः स्मृतः ॥
तृतीयं शृणु देवेशि सर्वसिद्धि प्रदायकं ।
विष्टरं शंभुरूपः स्यात् स शिवाशिवविष्टरः ॥
समयाशोधनं कृत्वा शक्तिसोधनमाचरेत् ।
शक्तिं संशोधनं कृत्वा सुराशोधनं ॥
विजया ॥ ओं ब्राह्मै नमः स्वाहा ॥ ऐं क्षत्रियायै नमः स्वाहा ॥ ह्रीं
वैश्यायै नमः स्वाहा ॥ क्लीं शूद्रायै नमः स्वाहा ॥ अथ ध्यानं ॥
सिद्धाद्ध्यां शिवबोधिनीं करलसत् पाशांकुशां भैरवीं
भक्ताभीष्टवलप्रदानकुशलां संसारवंधष्ठिदां ॥
६०अ)
पीयुषां बुधिमंथनोद्भवरसां संसारवंधच्छिदां
वीराराधितपादुकां सुविजयां ध्यायर्जगन्मोहिनि ॥
अथ शक्ति शौधनं ॥
सधोधनं मनाश्चर्यस्त्रिषु मद्येषु साधकः ।
कृतेग्रि सिद्धि हानि स्यात् कुर्द्धा भवति चण्डिका ॥
अभिषेकाद् भवे शक्ति मन्त्रस्योच्चारनाश्रुतौ ।
रतिकारे महेशानि दीक्षाकाले च कन्यका ॥
कला द्वा यत्नतर्प्यर्थाद्दभिशेषं समाचरेत् ।
सुरापारेतसा वापि जलेन मनुनापुरा ॥
आदौ वालां समुच्चार्य त्रिपुलायै समुच्चरेत् ।
नमः शब्दं समुच्चार्य इमां शक्तिं ततो वदेत् ॥
६०ब्)
पवित्री कुलुशब्दान्ते मम शक्ति कुरु प्रिये ।
वह्निजायां समुच्चार्य सुद्धिमन्त्र प्रकीर्तितं ॥
अनेन विधिना देवि अभिसिक्तास्त्रियः सदा ।
रममाणोत्र सनित्यं सर्वसिद्धिमवाप्नुयात् ॥
इहलोके सुखं भुक्त्वा परे मुक्तिमवाप्नुयात् ।
अस्या कर्णे भेदबुध्या मायाबीजं समुच्चरेत् ॥
तेन सुद्धा भवेन्नारी पूजा योग्या सदैव हि ।
इति श्रीकौलरहस्य त्रयोदश पटलः

17

अथ द्रव्यांगीकारे अधिकारिका विरेकमाह ॥
द्रव्येन सात्विके नैव ब्रह्मण पूजयेच्छिवां ।
ब्राह्मणो मदिरां दत्वा ब्रह्मण्या देव हीयते ॥
ब्राह्मणस्त्वनुकल्पं च कृत्वा चण्डालता मियात् ।
एवं दद्यात् क्षित्रियोपि पैष्टिकीं ना कदाचन ॥
६१अ)
एवं प्रदा? *? मात्रे हीनायु ब्राह्मनो भवेत् ।
काम्रे गव्यं मधुलमं दैवपैत्र्ये न दुध्यति ॥
अत एव महेशानि होम ताम्रे प्रगृह्यते ।
ब्राह्मनेन तथा कार्य ब्राह्मण्यं न च विश्यति ॥
वर्णानुक्रम भेदेन द्रव्यभेदा भवंति च ।
क्षीरेण ब्राह्मणैस्तर्प्यं घृतेन नृपवंशजैः ॥
माक्षिकर्वैश्यवर्यस्तु आसवै शूद्रजातिभिः ।
यत्रावश्यं विनिर्दिष्टं मदिरादानमुत्तमं ॥
ब्राह्मणस्तांम्र पात्रे तु गव्यमद्यं प्रकल्पयेत् ।
मत्यक्रमार्चतुर्वर्णै क्षीराज्ये मधुपि?ष्टजैः ॥
त्रेतायां पूजिता देवि घृतेन सर्वजातिभिः ।
मभीः सर्वणेश्च पूजिता द्वापरे युगे ॥
पूजनीया कलौ देवि केवलं रास वै निशि ।
६१ब्)
ब्राह्मणैश्च सदाग्रे या क्षत्रियैश्च रणागमे ।
वैश्वैर्द्धन प्रयोगे च शूद्रनैव कदाचन ॥
ब्राह्मणस्य मुन्मद्य वासना प्रवेद्यति ।
चाण्डालद्वहिकार्या नास्ये वा मीन कौलिका ॥
त्राह्मनोमस्पृते मद्यं वैदिके च त्वनि स्थितं ।
पंचलक्षणं युक्ता ब्राह्मनदार एव सः ॥
अहं ब्रह्मा तथा विष्णु तदा ज्ञानशवर्तिनी ।
स चेद् वामे पथं प्राप्तः पुनस्नानोभियायते ॥
चतुलक्षल सयुक्तो विप्राज्ञायस्तु मध्यम ।
ताद्स्वां दर्ताभाग्य वा तान्त्रिकः कोपि चेन्मुनु ॥
सद्य फतिवाश्यस्य क्रियया वापि तस्य तु ।
लक्षणययुक्तोयस्तस्य वैदिक तान्त्रिके ॥
यथोक्ता चरणादेव फलदस्तुमवामकः ।
लक्षणद्वयसंयुक्तास्तस्य वामश्च दक्षिण ॥
समतुल्य फलौ स्यातां न कदाचन दैदिकः ।
६२अ)
एकलक्षणसंयुक्तो समस्तस्य फलप्रादः ।
सौत्रामिन्यां कुलचारे ब्राह्मणः प्रपिचेत्सुरां ॥
अन्यत्र कामतः पीत्वा प्रायश्चित्ती भवेन् नरः ।
ब्राह्मणैः कौलिकैः पेयं देवता तृप्ति हेतवे ॥
वामिनीं कौलिकानां च मुखे तिष्ठन्ति देवताः ।
नयन्ति तु वंद्यो हि रेरपि ॥
देवता यस्य न मुखे साक्षाच्चांडाल एव सः ॥
सेवेतमधूमांसानि भृस्नया चेत् स पातकी ॥
मन्त्रपूतं कुल द्रव्यं गुरु देवार्पितं प्रिये ।
ये पिवन्ति जनास्तेषांस्तन पानं पुनर्म च ॥
बहुनोक्तेन किं देवी यथाशक्त्या ददाति यः ।
कुलार्याय पूजनार्थ कुलद्रव्यं सधर्मवित् ॥
शौवे तु वैष्णवे शाक्ते सौरे सुगतदशने ।
बोद्धपाशुपते सांख्य मन्त्रकाला मुखे तथा ॥
६२ब्)
स दक्षे वामसिद्धान्ते वैदिकादिषु पार्वति ।
निवालि पिसितात्पांतु पूजनं निःफलं भवेत् ॥
शृणु देवि प्रवक्षामि कौलिका चरणं यथा ।
पाणे भांति भेद्यस्य मृणास्याद्रक्तरेतसौः ॥
शुद्धौ वा शुद्धिता बुद्धिः पापशंका च मैथुने ।
स भ्रष्ट पूजयेद् देवी चण्डी मन्त्रं कथं जपेत् ॥
अथ द्रव्य नामवश्यतामाह ॥
विनालिवेदानात्यां न प्रसीदति कालिका ।
मधुभाण्डसहस्रैस्तु मांशभाशुशतैरपि ॥
नैव तुष्टा भवेदेवि भगलिंगामृतं ऋता ॥
अथ काराणां क्रमफलमाह ॥
कलोति सुरापानं जीवन्मुक्तः स जायते ।
विना द्रव्याधिवासेन न स्मरन जपंत्तथा ॥
ये स्मरंति महामूढा तेषां दुःखं पदे पदे ।
६३अ)
त्यसवेन विनामन्त्रं विना मन्त्रेन चासनं ।
परस्पर विरोधित्वा कथं पूजा विधियते ॥
तत्ससयनिवृर्ती च ज्ञात्वा गुरु मुखा जयेत् ।
सासंखादति यो मर्त्यस्तथा मृत्यु भयं कुतः ॥
यो भक्षयक्षिमत्स्वाश्वेस शिवो नात्र संशयः ।
मुद्रां भक्षयते यस्तु ससिद्धानापति भवेत् ॥
सुरतं यः प्रकुरुते त्रैलोक्य करण क्षमः ।
एतस्याचार्थ त्रितयं सात्विकाराजसस्तथा ॥
तामसश्वेति तत्राद्यौ रामादित्यनिरूपितः ।
तं मर्गये विजानन्ति ते मुक्ता नात्र संशयः ॥
अथासवस्यत्रैविधिमाह ॥
मदिरा त्रिविधा प्रोक्ता उत्तमामध्यमाधमा ।
उत्तमस्वगृहोत्पन्ना मध्यमा चान्न्यगेहजा ॥
अधमासदृशंकीता एवं सात्रिविधा मता ।
६३ब्)
श्रीशीव उवाच ॥
देवासुरैः पुराकल्पे मध्यमाने महोदधौ ।
तत्र श्यामा समुत्पना सुराकलशधारिणि ॥
गौरांश्चरुण चैला च भावस्वर्द्धरितंवुका ।
श्वेतार्तरपदा देवी त्रौलोक्यस्यापि मोहिने ॥
दृष्ट्वातां दानवाः सर्वशुक्राचार्य वलात् सुरान् ।
जित्वास्तांजगृहुस्तस्याः कलशार्चनपुः सुरां ॥
देवान्येलपितान् दृष्ट्वा शस्तयस्तत्र संस्थिताः ।
पपुस्ता अपितां पुण्यां सुरानपि वहृनद्युः सुरापाः सुरमातकरः ॥
अभयास्मार्त पयंति शेषं गृह्नंति ये नरा ।
ते स्मद्रूपा न संदेहो भुक्ति मुक्तिकभाजनं ॥
सुरागंगा सुरासिन्दुः सुरा देवी सरस्वती ।
सुरागोडावरी रेवा सुरैव परमं पदं ॥
सूरनिन्दंतिय मूढा मूढास्ते जन्मनि ।
६४अ)
गन्धर्वै भूयमानस्तो शक्तयस्ते च दानवा ॥
उत्पर्तिः कथिता देवि पानं च कथयामिदं ।
जिह्वा मूलं समारभ्य हृदयं याव सुन्दरी ॥
षोडशाङ्गुल विज्ञेया स्थानश्वेदामृ पदं ।
षोडशैव कलायुक्तं षोडशाङ्गलमयतं ॥
पिवतेद्दैवतैद्देवि मद्यममृतरूपिणं ।
प्रथमं पिवते वह्नि द्वीतीयं शनिना पिबेत् ॥
विष्णुना च तृतीयस्तु चतुर्थं वरुण पिबेत् ।
कुं चं मं देवि षष्ठ तु वा सव पिबेत् ॥
सप्तमं ऋषिभिः सर्वै गणेश्वराष्टमंत्रिपे ।
नवमं धर्म राजेन मरुतै दशमं पिबेत् ॥
एकादशयसस्थान ब्रह्मपुत्रो पिबेत् प्रिये ।
कुमारद्वादसं याति वैनायकत्रोदशं ॥
चतुर्दश्या पशुपतिं एतै पित्वा दशैः पञ्च षोडशं न प्रकाशयेत् ।
६४ब्)
न पितं मानुषैर्भद्रे देवै पीत्वा च शंभवैः ॥
पीत्वा च कथितं भद्रे अधुना देवता शृणु ।
सुरासा च उमा देवी यो मद्यः समहेश्वरः ॥
यावर्णः सस्वयं ब्रह्मा यो गन्धः सजनार्दनः ।
य स्वादः स तु सोमोयं ॥
ज्ञानविज्ञानसंपन्नं सद्य विद्या सुलेश्वरी ।
अथ पाक प्रकालमाह ॥
अंसां द्वादसा प्रचतुप्रस्थं च तंडुलाः ।
प्रस्थार्द्धस्थंडूलं प्रोक्तं तावर्मात्रांस्तदं कुलात् ॥
शीतादि न हिते स्थाने दिवसद्वयमास्य तत् ।
पश्चाभानौ समारोप्य जंवाल सदृशं पचेत् ॥
प्रदपस्थं तंडुलांश्च तन्मात्रानं कुला क्षिपेत् ।
दिन द्वयं तु संस्थाप्य नरेवं प्रकलल्पयेत् ॥
अर्द्ध तस्य समादाय तडुलेषु विनिक्षिपेत् ।
६५अ)
* * * * * * * *? ण्डली सासुरा
स्मृता ।
पुयमेव भवेत् सोमः सोमयाग फलप्रदः ॥
इति यागो भवेद् यागः सोमपान तु त स्मृतं ।
या गतिः सोम च ज्ञान कौलिका नामनेनसा ॥
भोगस्वर्ग च भवति विना कष्टेन वामिनां ।
एवं तु यव पिष्टोत्थो देवसोम इति स्मृतः ॥
ये च तण्डुल योगेन शक्ति सोमो निगद्यतेः ।
स्विन्नकुबुट्टितगोधूमाः समक्लिश्ये न संयुताः ।
स्थापिता द्वादशाहं च वारुण्यां परिपाचिताः ॥
तन्मन्द्यं सूर्यसंज्ञं स्याद् योगिनी मदवर्द्धनं ।
पीतं तच्चक्र पूजान्ते वाजपेय फलं लभेत् ॥
इदमेव त्रिधा युक्तं दलं मद्यं च साधितं ।
अग्निर्भवेत् तस्य पानादग्निहो फलं भवेत् ॥
६५ब्)
अधसुमं च तदर्धं स्यात् तदर्द्धं च हरीतकी ।
तावद् विभितकं प्रोक्तं चतुर्था शंकटु त्रयं ॥
तार्च्च चित्रकं तस्मा गुडो द्वादश भागिकः ।
करेण भ्रामयेत् सम्यक् न्नुगलोम विलोमतः ॥
अष्टोत्तर शतावृत्या त्रिसंध्यं प्रतिपारकं ।
द्वादशाहेन पाकः स्याद् वारुणी यन्त्रगं पचेत् ॥
एषागौडीति विख्याता महामदकरी समतां ।
शिवेन निर्मिता पूर्वं स्वयं पीत्वा च भैरवै ॥
द्विगुणं मकरंदाख्या वारिसंयोजये गुडे ।
षोडशाहेन पाकः स्याच्छेषमन्य पुरोक्तवत् ॥
सर्वदेवि प्रिया चेव वशिकरणमद्भुतं ।
देवोनां शक्तयो वश्यामानुषीनां तु का कथा ॥
हरीतकी चित्रकं च मनीचं ध्यातकी तथा ।

मधुपुष्पं चद्रं च भागैकेन विवर्द्धितं ॥
६६अ)
अशीति गुडसंमिश्रं शेषं मन्यत् पुरोक्तवत् ।
इदं मनोहरं द्रव्यं योगिनी पानमुत्तमं ॥
मद्या भवे प्रवक्ष्यामि बिन्दुमद्याधिकं सुरा ।
महषं दधिसंग्राह्या चतुर्दशगुणं सुरां ॥
मावान्हलस्य पक्वस्य मर्दितस्य रसस्तथा ।
ग्राह्यं दधि चतुर्थाशे तत्संमद्यं घटे क्षिपेत् ॥
चत्वारि शब्दिनान्यष्टौ पंकपंकजसंकुले ।
निधायोद्धृत्य किरणैः सौरैः * * * *? षयेत् ॥
यदा तत्कठिणी भावस्तदा कुर्याद्विती शुभां ।
गुंजाभींजलसंपूर्णे तांम्रपात्रेणिधापयेत् ॥
इदसुरातोप्यधिकं ब्राह्मणानां प्रणस्यते ।
गौडीमध्वी तथा पैष्ठी त्रिविधा तु सुरा स्मृता ॥
शूद्राणमुचिचेयंते वंशाक्षत्रिय वैशयोः ।
ब्राह्मनन्दसुरायैस्तु पिता * * *? कौलिकैः ॥
६६ब्)
न चोन्मादकरी तेषां सुरेयं बुद्धिवद्धिनी ।
सर्वसिद्धि करी षष्ठी गोडीभाग प्रदायिणि ॥
माधी मुक्तिकरीज्ञायाद्राक्षाराज प्रदा मता ।
विद्य प्रदैक्षवीहालाखार्जुरीरिपुनाशिनी ॥
तालजा स्तम्भने शस्तापनसाख्या शुभ प्रदा ।
नारिकेरोद्भवा श्रीदानिंवजारोगेगिनी ॥
धूमकजाज्ञाकनरी चैल पापापनाशिनी ।
यत्सा नन्दरुचि करं सा मोदं च मनोहरं ॥
मृद्यं तदुत्तमं देवा देवता प्रीति कारकं ।
ब्रह्मा स्यात् सलिले विष्णु गंधे रुद्रश्च तद्रुचौः ॥
परमात्मा तदा नन्दे तस्मात् सेव्यमिदं प्रिये ।
दृष्ट्वा प्रणम्य प्रथमं तद्रूपाम्वारुणी कलां ॥
वरुणे नार्चिता देवी वारुणी इति विश्रुता ।
सुरैस्तु पिवत नित्यं सुरानाम इति स्मृत ॥
६७अ)
मदनेनार्चिता नित्यै मदिरेयं प्रकीर्तिताः ।
परमार्थे तु उत्पन्ना पराशक्तिः प्रकीर्तिताः ॥
यथामृतं तथा मद्यं प्रोक्तकाले निषेवितं ।
अमृतेन सहोत्पन्न स्थाने मद्यं सुधायत ॥
विषेनामहोत्पन्नं तेन मद्यं वियायते ।
अथ निषिद्धमाह ॥
नष्टै पयुषितोच्छिष्टैदुर्गाध्वैगंध वर्जितैः ।
हेतुभिः परपात्रस्थैस्तर्पणं निःफलं भवेत् ॥
मनोहश्च देवीनां तर्पणं सफलं भवेत् ।
स्वपात्रं स्थं च हेतुश्च न दद्यान् भैरवाय च ॥
दस्त्र च सिद्धि हानि स्यादित्याज्ञा शंकरै कृताः ।
मांसं तु त्रिविधं प्रोक्तं जलखेचल भूचलं ॥
जल चरास्युः कूर्माद्या खेचरा कर्कटादयः ।
भूचरा तु मृगाद्यास्युः तेषां भेदाष्टकं भवेत् ॥
गोनरेफास्वमहिष वराहाज मृगोद्भवं ।
६७ब्)
च विस्तर्णमुत्तानेन समाकृति ।
अथवा देवदेवेशि पात्रं चर्चर्तुली कृतं ।
अश्वत्थ पत्राकारं ककुतयाकारमेव च ॥
त्रिकोणाकार पात्रं च त्री त्री योनि समन्वितं ।
मध्य बिन्दु युतं पात्रं ध्वज चिह्न समन्वितं ॥
अथवा भुभगाकारं ध्वजबिन्दु स केशरी ।
एवं पात्रं समानीय महाचीनेश्वरी यजेत् ॥
अथ पात्रमाह ॥
नारिकेर स्वर्णताम्रं काच शुक्ति शिरोद्भं ।
शंखसद्दान्दकुर्मोत्थं कपालाचूमृन्मयं ॥
कपालपात्रेण देवेशि कापालिसिद्धिरस्ति च ।
यद्यद्वांच्छति कामानि गुडिकांजन सिद्धयः ॥
सिद्धद्रव्यं कामगतिं मनोरथ मयी कलां ।
वांच्छाभोगोन्नव्य सृष्टि करणं चैव दृश्यतो ॥
चिन्तामणिं कामकला यत्पात्रे सर्वमेव च ।
काप्यलिन्नितुर्यसिद्धिः कामेलसिद्धि * * *? ॥
fओलिओ ६८-७२ नोत् fओउन्द्
७३अ)
एकपात्रं समानीय खण्डत्रितय भेदतः ।
उत्तमं मध्यमं हीनं विप्रा हीनां प्रकीर्तिता ॥
लं नाति सूक्ष्मं च्छिवं भिन्नं विवर्जयेत् ।
ताम्रं कास्यादिभिसोहैः पात्रं नैवन्तु * * *? ॥
सर्वसिद्धिः सुवर्णस्यादुद्यमस्ताल पात्रतः ।
शांतः शिलायांस्तंभस्तु शैवे शंख वराहरौ ॥
महाशंषो वाममार्गे स्फटिकं ग्रह नायाके ।
विश्वामित्र कपालं तु सर्वपात्रोत्तमोत्तमं ॥
ब्रह्महत्यादि पापानि तथा विश्व स घातकं ।
दृष्ट्वा पात्रं नालिकेलं सर्वमेव प्रणस्यति ॥
कन्याकोटि प्रदानानि तथा हेम शतानि चोयोदवाति हेशानिराहुग्रस्ते दिवाकरे ॥
तत्फलं कोटिगुणितं नालिकेलर्पपात्रतः ।
आलाभे कौलिकै शक्ति शहितै तदुच्छिष्टं चप्येवयेत् ॥
स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुरूपिणं ।
पाययित्वा पिबेन्मद्यं मितिसास्त्रस्य निश्चयः ॥
ततः श्रीगुरुरूपाय साक्षात् परशिवात्मने ।
करोत्यां पात्रमुद्धृत्य सद्वियं निवेदयेत् ॥
गुरोरभावे तत्पात्रं जलमध्ये च निःक्षिपेत् ।
पूज्यशक्तिं शक्तिपात्रं वीरेत्या वीरपात्रकं ॥
अन्यस्या योगिनी पात्रं स्वार्थे स्यात् भोगपात्रकं ।
कुण्डली तर्पणार्थञ्च भोगपात्रं समाचरेत् ॥
अन्तशक्तिमनुस्मृत्य तर्पयेद् देह देवतां ।
अथ येन प्रकारेत स्वीकुर्या पात्रमुत्तमं ॥
fओलिओ ७४-८३ नोत् fओउन्द्
८४अ)
तद्देहंव्याहविष्यामि यथारुद्रेण भाषितं ।
प्राणायाम विधायान्तु तत्तन्मन्त्र षडङ्गकं ॥
कुर्वीत भक्ति भावेन शक्त्या वृक्षादिकं तथा ।
तत्र घ्रयेतत्तत्पात्रं दक्षहस्ते निवेशयेत् ॥
वामहस्ते नामिकाया अङ्गुष्ठमभियोजयेत् ।
इदं हितार्पणी मुद्रा शूद्रूपापरिकीर्तिता ॥
एतया मुद्रया देवि संहारक्रमतोखिलान् ।
पात्रे तु द्रव्यमादाय तर्पयेदुरित क्रमैः ॥
अंगुष्ठास्यानामिकाया नखै यावन् प्रलिम्यतः ।
तावन् निवेशयानीह मुद्रा वै कौलिक द्रवे ॥
निमील्य चक्षुषीया ।
८४ब्)
यथा विधि द्वितीयेन गृह्नीया मन्त्रमुच्चरन् ।
पिशितं माषमात्रं तु मद्यं चूलूक संमित ॥
स्वीकार्यमादौ गुरुणा शिष्यत्यः शेषदो भवेत् ।
निस्सङ्को निर्मलो धीरो निर्लज्जो निकूतूहरः ॥
निर्णीत वेदशास्त्रार्थो वरदाम्वारुणीस्सिवेत् ।
देवन् पितृसमत्यर्च्य देवीशास्त्रोक्त वर्त्मना ॥
गुरुं स्मरे पिबेन् मद्यं षादन्मांसं नभोषभाक् ।
गुरु दैवतमन्त्राणोमैक्यं संभावयन्धिया ॥
आगलान्तं पिबेद् द्रव्यं तत चर्वणमाचरेत् ।
मांसं मत्स्यं च मुद्रां च मैथुनं वै क्रमार्चयेत् ॥
स्वसंप्रादायसंयुक्तं वीरैश्च सह पूजयेत् ।
चित्त स्वागतन्त्य सारत्वात् तस्या नन्दये त्वतः ॥
तन्मयेत्वार्च भावानां
fओलिओ ८५ नोत् fओउन्द्
८६अ)
भावश्चान्तर्हिते रसे ।
स्वस्वातन्त्र्य विकासाय सुरासस्तेन पीयते ।
तस्मादिमासुरादेवी पूर्णाहन्तो जुहोम्यहं ॥
मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् ।
अनाकुलमनाः कुर्यान् मधुपानं शनैः शनैः ॥
यावदुल्लासपर्यन्तमपदंशैः पिबेन् मधु ।
ततः पात्र गतं हाला बिन्दुं भौमौ प्रपातयेत् ॥
उच्छिष्टं भैरवायेह दद्यान् मन्त्रं मनुं पठेन् ।
मैधमायारमाबीजे मेह्यक्मुच्छिष्टभैरव ॥
विसन्धि च वलिं गृह्न युगं स्वाहा च पश्चिमो ।
निघृष्यतद्भूमि तले पूर्ववच्चित्रं कंचरेत् ॥
येन्येपि पात्रं स्वीकुर्युस्तेषामप्येष हि क्रमः ।
पानभेदहलोल्लास प्रमान्स्थिति लक्षणं ॥
८६ब्)
अविज्ञाय चरेद् यस्तु स भवेदा पदां पदं ।
पानपंच विधं प्रोक्तं माहादिव्यादि भेदनः ॥
महादिव्यं तथा दिव्यं विरश्चैव महापशु ।
पशुः वंद्यः पशुश्चेति पंचधा परिकीर्तितः ॥
प्राणापाणौ समाहारौ प्रत्याहार मनःस्थिरं ।
भानुमण्डलकं भीत्वा इन्दुमण्डलमध्यगं ॥
सुषुम्नावत्मणा नित्यं सुधादारा प्रवीत्तीनी ।
महादिव्यमिदं प्रोक्तं शृणु दिव्यं महेश्वरि ॥
दिव्यदेव्यग्रतः पालं वीरमृद्वासनोत्तरं ।
त्यक्तः सर्वपासमूले * * नामलसंचयः ॥
कौलिकाचार योगेन पंचतत्व न तर्पयेत् ।
षट्चक्रक्रमभेदेन हुनेत द्रव्यं समन्त्रकं ॥
८७अ)
पंचतत्व न तर्पयेत् ॥
ध्यानार्चन परावस्था वीरपानमनुत्तमं ।
उद्वासनोत्तर देवि पशुपानं शृणु प्रिये ॥
वीरपाने पूर्वधीरो परस्तु पशुरित्यपि ।
आसक्तलोलुपादं भोमंत्रार्थे चाप्रसंगकः ॥
कामुकः कार्य निर्देशे पशुपानं तदुच्यते ।
सर्वैः कूलीणैः स्थित्वा तु विनापूजां सर्वितैः ॥

यत्पानं क्रीयते देवि पशुपान क्रमः शिवे ।
एकाकी मद्यपायीय एकाकी शक्तिभुक् प्रिये ॥
महेरस्य संसर्गं न कपि करोति चेत् ।
पशुपानमिदं प्रोक्तं महादारिद्र्यदायकं ॥
विनामन्त्रं विना दीक्षां विना गुरु मुखात् प्रियेत् ।
यत्पानं न क्रियेते मूर्खैः पशुपानं विदुवुर्धाः ॥
८७ब्)
महापशुरिति प्रोक्तः कौलवामो शृणु प्रिये ।
वामरामा मनोहारी चालिपात्रं तु दक्षिणे ॥
पानपात्रं महेशानि वामहस्तेन तर्पकः ।
महाकौला महेशानि भूमौ स्थाप्य प्रतर्पयेत् ॥
हस्त द्वयेन चद्देवि कौल इत्यभिधीयते ।
वामदक्ष वात्ययेन वीलकौलः प्रकीर्तितः ॥
अलिपात्रं वामपाणौ दक्षहस्तेन तर्पयेत् ।
कामगौडस्तु संप्रोक्त चैतत्पाख्य चैतत्पाख्य स एव तु ॥
भूमौ स्थाप्य महेशानि हस्तयुग्मेन तर्पयेत् ।
आनन्दाख्य सुसंप्रोक्तः वाम इत्यविधीयते ॥
अथ फलन्तु ॥
मन्त्रं संस्करे संशुद्धोऽमृतनेन पार्वति ।
८८अ)
जायते देवगाभावौ भववंधविमोचक ॥
आनन्द ब्रह्मणो रूपं तच्च मोक्ष व्यवस्थितं ।
तस्याभिव्यंजकं द्रव्यं योगिभिस्तेन भीयते ॥
दिव्यपाणरतो वीरा देवी सायुज्यमाप्नुयात् ।
देवेशि वीरपाणेन देवीलोकं हि वाच्छति ॥
साधक पशुपानेन देवीलोकं हि गच्छति ।
साधक पशुपानेन रौरवं नरकं व्रजेत् ॥
आरम्भस्तरुत?श्चैव यौवनप्रौढ एव च ।
तदन्त्रे चोत्तमस्थानावस्थाश्चैव सप्तमः ॥
अथैषां लक्षणं ॥
पात्र त्रयं स्यादारंभः कथितः कुलनायिकाः ।
तदन्ते तरुणश्चैव तरुणं सुखदं प्रिये ॥
८८ब्)
यौवनं मनसम्यक् गुल्लास कथितः प्रिये ।
स्खलनं दृङ्मनो वाचा प्रौढमित्यभिधीयते ॥
स्वभीष्टवष्टा चरणं प्रौढान्तः परिकीर्तिताः ।
उन्मनाः पतनोत्थानमुच्छानाच्च मुहुमुहुः ॥
देहेन्द्रिया नाम च वशश्वा नवस्था निगद्यते ।
भोजनान्ते विषं मद्यं मद्यन्ते भोजनं विषं ॥
अमृततंतद्विजानीयाद्यदन्नं सुरया सह ।
चर्वणेन युतं मद्यं ममृतं कथितं सदा ॥
चर्वणेन विनापानं केवलं विषभक्षणं ।
तत स्तुत्वा नमस्कृत्य कुर्यासंभोगमेलनं ॥
देवता तु संभोगे देवता प्रीणतां भवेत् ।
एतासुकांचिदानीय ततश्च योनि मण्डले ॥
८९अ)
पूजयित्वा महादेवी ततो मैथुनमाचरेत् ।
धर्माधर्म हविर्दीप्ता आत्माग्नौ मनसा श्रुवा ॥
सुषुम्ना वर्त्मना नित्यमक्षवृर्तीर्जुहोम्यहं ।
स्वाहान्तोयं महामन्त्र आरंभे परिकीर्तितः ॥
ततो जपेत् प्रियं गच्छन् देवीन्त्रिभुवनेश्वरीं ।
प्रकाशाकशहस्ताभ्यां वलम्व्योम्मनी श्रुवा ॥
धर्माधर्म कलो स्नेह पूर्णमग्नो जुहोम्यहं ।
स्वाहान्तोयं महामन्त्रः शुक्रत्यागे प्रकीर्तितः ॥
मादाद्यदिलुप्यते देवता सा प्रकुप्यति ।
विना भुक्त्वा विना पीत्वा विना कृत्वा तु पञ्चमं ॥
सयापिष्ठः कथं व्रूते काली मन्त्रं जपाम्यहं ।
तस्मात् सर्व प्रयत्नेन साधयेत् पंचमं प्रिये ॥
यदि चेत् क्रियते नैव तस्य दुःखं पदे पदे ।
८९ब्)
यद्वियोषिन्न संगस्यात् तदानुकल्पयोगतः ।
कर्तव्यं कर्मसांगाथं नाचेत् विफलमीरितं ॥
इति श्रीकौलरहस्य सप्तदशमपटलः

18

अथ नीलक्रमः ॥
खड्गहस्तशिरोन्यस्त सर्वदामुक्त कुन्तलः ।
सदामांसासवोल्लास विजयाघूर्णलोचनः ॥
सिंदूलतिलकं भाले पाणौ तु मदिरारसं ।
न करोति नरोयस्तु कथं मम पूजकः ॥
रात्रौ पर्यटनं चैव रात्रौ शक्त्य प्रपूजनं ।
न करोति नरो यस्तु स कथं मम पूजकः ॥
योनि चूम्बनकं कर्म शक्तेरालिंगनं तथा ।
न करोति नरोयस्तु स कथं मम पूजकः ॥
ताम्बूरं योनि चक्रं च मुण्डमालाशवासनं ।
९०अ)
सिंदूलंखड्गकं चैव संविदासव योरसं ।
एता विहाय कश्चित् कालिं साधि तु मुद्यतः ॥
इहक्षोभमवाप्नोति परत्र नरकं व्रजेत् ।
अथ शालदी विषय देवी वाक्यं ॥
भगलिंग क्रियाशब्दैर्वश चेष्टाभिरुक्तिभिः ।
विसर्जनस्यावसरे क्रीडितव्यं निजेच्छया ॥
कार्यंजवद्भिरप्ये तद् देवी संतोष हेतवे ।
परैर्नाक्षिप्यते यस्तु यः परान्नाक्षिपेत्यपि ॥
तस्य क्रूद्धा भगवती शापं दद्यात् सुदारुणं ।
एतत् प्रासङ्गिकी देव्या उक्तिसमररधारय ॥
ममानन्दे सदानंदः सदानन्दो भविष्यति ।
ममानन्दे निरानन्दो निरानन्दो भविष्यति ॥
यथा यथा ममानन्दे भगवत्यून्मत्तवर्जनः ।
तथा तथाहंतुष्यामि तत्कृतार्चा सुवल्लभा ॥
ख्यातं मम भगं चिह्नं लिंगचिह्नं तव प्रभो ।
लिंगाङ्गत्वा भगाङ्गत्वादियं माहेश्वरी प्रजा ॥
त्वां मां विहाय नैवान्यत् किंचित् त्रिभुवनोदरे ।
तस्मात् मत्पूजन स्यान्ते त्वमुच्चिह्नोक्तिभिर्जनः ॥
यः क्रीडति महाभाग समे मनसि तिष्ठति ।
अनुर्वाणोपि सूरतं भगं भगमिति ब्रुवन् ॥
लिङ्गं लिंगमिति प्रोच्यमांषयति तक्षणात् ।
रेतः सिक्तं भवे घादृघादृक्ता(?) दृश्यत्र जायते ॥
भगं त्रिजगतांमुष्ट्रकविनिन्दितु मर्हति ।
इत्यादि वचनैर्देव्या यथेष्टं विहरेर्जनः ॥
अथ दशविद्या भैरव मन्त्र ध्यानं यथा ।
तत्रादौ अक्षोभ्य ॥
अनुत्तरं समुद्धृत्य पपञ्चमविभूषितं ।
९१अ)
अक्षोभ्येति च स्वाहेति रमायन्तं महामनुः ।
अथ ध्यानं प्रवक्ष्यामि सर्वसौभाग्यदायकं ॥
सहस्रादित्यसंकाशं नागरूपधरं शुभं ।
विद्युत्कोटि समं वक्त्रं वह्निभास्वर लोचनं ॥
सार्द्ध त्रिवलै योपेतं जपाकाद्यग्रसंस्थितं ।
महालावण्यसंयुक्तं सुरासुर नमस्कृतं ॥
सूर्यविद्युत्समं भास्वन् महामणि शिरोपरि ।
एतद्रूपं महाकायं दैवैरपि सुपूजितं ॥
अथ क्रोधभैरवस्य मन्त्रमाह ॥
अथ क्रोधमनुं वक्ष्ये असाध्यं येन सिध्यति ।
बीजं हालाहलं गृह्य क्रोधबीजमतः परं ॥
भयं करार्णमाभाष्याशितांगक्षतज स्थितं ।
प्रलयाग्नि महाज्वालामाभाष्यमनूमूद्धरेत् ॥
एवमूच्चारितः क्रोधः स्वयमेव प्रसिद्धति ।
९१ब्)
अथ ध्यानमाह ॥
तत्र मध्येनेसेद्भीमं तप्त ज्वाला समाकुलं ।
साट्टहासं महारौद्रं भिन्नांजन च योपमं ॥
प्रत्यालीढं चतुर्वाहुं दक्षिणे चक्र धारिणं ।
तर्जनं वामहस्तेन तीक्ष्णादंष्ट्रा करालिनं ॥
कपालरत्नमूकूटं त्रैलोक्यस्य विनायकं ।
आदित्य कोटि संकासं अष्टनाग विभूषितं ॥
अपराजित पदाक्रान्तमुद्रावान्वलविष्टितं ।
अनामिका द्वयं वध्वा आकूञ्च तर्जनी द्वयं ॥
कनिष्ठां मध्यमां चैव ज्येष्ठगुष्ठेन चक्रमात् ।
एवमुद्राधराद्भीमां त्रैलोक्या साध्यसाधकः ॥
अथ त्रिपूरभैरवस्य मन्त्रमाह ॥
मायालक्ष्मीस्तथा हंसः प्रासाद बीजमेव च ।
वह्नि जायान्तको मन्त्रो भवेत् त्रिपुर भैरव ॥
९२अ)
षडंगं मूलमन्त्रेण वलिपूजादिकं तथा ।
अथ ध्यानं ॥
एकवक्त्रं त्रिनयनं चतुर्वाहु समन्वितं ।
दक्षिणे चाङ्कुशं खड्गं वामे खेटकपाशकौ ॥
धारयन्त रक्तवर्ण वृषासन गतं विभुं ।
उर्द्धकेशं हाडहारं कपालमालयान्वितं ॥
एवं विधं सदा देवि ध्यायेत् त्रिपुर भैरवं ॥
अथ चतुकस्य ॥
माया च वटुकं ङेन्ते मायबूद्ध्यारणाय च ।
कुरुद्वयं वहुकाय ह्रीं प्रकृति वर्णकः ॥
वृहदारण्यकमुनिश्च्छन्दो नूष्टुप् देवता ।
भैरवो ह्रीं बीजशक्ति आः कीलकमुदाहृतं ॥
एवं न्यस्त तनुध्याये च्छुर्द्ध स्फटिकसंनिभं ।
दीप्तशुभ्राम्वरा भीतं किकिणी जालनूपुरैः ॥
युतं रत्न मयै धानमभयं परे ।
९२ब्)
सुप्रसन्नमुखाम्भोजं निविष्टं कुश विष्टरे ॥
ब्रह्मविष्णु महेशाद्यै स्तुतं भक्त्यासुरासुरैः ।
विश्वाद्यं विश्ववपुषं भवभीति हरं भवं ॥
अथातः संप्रवक्ष्यामि चाघोरास्त्राह्वयं मनुं ।
मायां स्फुर द्वयं चैव प्रस्फुर द्वितयं वदेत् ॥
पश्चाद्वदे तुरुतुरु रूपान्ते च च तद्वयं ।
प्रचट द्वितयं पश्चात् कह द्वयं वमद्वयं ॥
वन्ध द्वयं घातयद्वि हूं फट् शरवर्णकः ।
ध्यान ॥
ध्यायेत् ततो मेघ कालं भीम द्रष्टं त्रिलोचनं ।
भुजंग भूषणं रक्त वसनालेप शोभितं ॥
परशुं करवालं च वाणंस्त्रिशिखमेव च ।
दधानां दक्षिणैर्हस्तैरुद्धादि क्रमतः परैः ॥
डमरूं खेटकं चापं नृकपालं च विभ्रमं ।
fओलिओ ९३ नोत् fओउन्द्
९४अ)
अथ त्र्ययंवकस्य ॥
भुजंगेण समारूढा पूतनावसुधे दुयुक् ।
वकं यजामहे प्रोक्त्वा सुगंधि पुष्टिवर्द्धनं ॥
रुर्वारुकमिव प्रोक्तारंधनान् मृपदं वदेत् ।
भ्यामुक्षीय पदं व्रुयात् मामृतादि भ्यूदीरयेत् ॥
त्रियंवकं मनुः प्रोक्त भजतां मृत्यु नाशनं ।
ध्यान ॥
हस्ताभ्यां कलश द्वयो मृतरसेराप्लावयंतं शिराद्वाभ्यांतौ दधतं
मृगाक्त वलयेद्वाल्यां वहतं परं । अंकन्यस्तकर द्वयामृत घटं
कैलासकांतं शिवं स्वच्छां भोजगतं नवेन्दु मुकुटं देवं त्रिनेत्रं
भजेत् ॥
अथ महाकालस्य ॥
हूं क्षां यां लां आं क्रों महाकाल भैरव स विघ्नान्नाशये २ ह्रीं
श्रीं फट् स्वाहा ॥
ध्यान ॥
९४ब्)
ओं शिखानाथं महादेवं कर्णिकापलिसंस्थितं ।
प्रेतासवगता देवं स्वेतव्वर्न सूसोभितं ॥
दक्षिणे रक्तवर्ण च पीतमूत्तर सोभितं ।
उत्तरे नीलजीमूलं चतुवक्त्रे महेश्वरं ॥
द्वादशानयनसंयुक्तं ईषद्द्रष्टानना शुभा ।
पिङ्गभ्रूस्मश्रुकेसं च महा उग्रा भय प्रभा ॥
रक्ताकलतला चैव षर्वोलम्बोदराङ्गिकं ।
वज्रज्वाला गता ज्वाला महाज्वाला सजाज्वलं ॥
ज्वलंतिला युधासर्वे ज्वलज्वाला विराजित ।
दशर्वाहु महादेवं खड्ग फेटकधारकं ॥
शरंधनुधरञ्चैव अंकुलं पाशधारकं ।
वराभय प्रदादेवं पात्र खट्वाङ्गधारनं ॥
एवं डमरू भुजादश योजनविस्तरं ।
शरीलं व्याप्य रूपाणि सर्वशान्तिक कालकं ॥
९५अ)
इति दशविद्या भैरवं ॥
इति श्रीकौलरहस्य अष्टादशपटलः

1

अथ कौलिकार्चनं ॥
महेश्वरं समालोक्य पूजयेद् विधि पूर्वकं ।
यथाविभवरूपेण पंचतत्वं निवेद्य च ॥
सदा तुष्टा भवेद् देवी सर्वान् कामान् लभेदपि ।
अन्यथा नैव सिद्धिः स्यात् क्रुद्धा भवति योगिनी ॥
मेदिनीं यस्तु पूर्णाञ्च ब्रह्मणे वेद पारगे ।
दत्वा यत्फलमाप्नोति तत्फलं कौलिकार्चने ॥
अश्वमेध सहस्राणि वाजपेय शतानि च ।
दृष्ट्वा यत्फलमाप्नोति तत्फलं कौलिर्चनात् ॥
वापी कूप तडागादि कृत्वा यत्फलमाप्नुयात् ।
तत्फलाल्लक्षगुणितं कौलिकानां प्रपूजनात् ॥
कपिला चैवगां दत्वा यत्फलं लभते नरः ।
९५ब्)
तत्फलं कोटि गुणितं कौलिकानां प्रपूजनात् ।
अथ दूतीयागः ॥
पुरुषेण विना किंचित् प्रकृत्या क्रियतेन हि ।
तथा शक्तिं विना देवो फलं दातुं क्रमोण हि ॥
तस्मात् पुंशक्ति शंयोगं कृत्वा मन्त्रं प्रसाधयेत् ।
कौलिकै वाममार्गे च पुमान्देवो न सिद्ध्यति ॥
आत्मानन्तु शिवं ध्यायःद्देवतां शक्तिरूपिणीं ।
क्रीडेत् पंचमकारैस्तु सुप्रीता तस्य देवता ॥
दक्षमार्गे मातृबुद्धिः स्त्रीबुद्धिः कौलिके पथि ।
यस्य जाता दृढतरा तस्य तुष्टा तु देवता ॥
एतद् रहस्यमाख्यातं गोप्यं मातरि जारवत् ।
शैवाः स्मार्ता याज्ञिकाश्च तां न कुर्वन्ति पार्वति ॥
कौलानामागमज्ञानां तान्त्रिकाचार वर्तिनां ।
९६अ)
अनुकल्प प्रदातृणां मध्यस्थानां तथैव च ।
देवींतिबुद्धिर्योषित् सुयषामतिरचश्वला ॥
तेषां काली सुभक्तानां सर्वदानिश्चितात्मनां ।
आवश्यकी शक्ति पूजा पीठपूजा वदीश्वरि ॥
काली बुद्ध्यैव संपूज्या न कामाकुलयाधिया ।
चतुर्था श्रमिणे मुक्त्वा ये काल्यर्चन तत्पराः ॥
कौलालि वाप्यकौलावा ये चैतन्मत वर्तितः ।
तेषां नित्याशक्ति पूजा प्राहैवं मां पूरद्विषः ॥
सा शक्ति द्विविधा ज्ञेया स्वकीयां च परांगना ।
स्वजाति संभाया यातु परिणीता भवेत् प्रियेत् ॥
सा स्वकीयो समुद्दिष्टा तथा नेयं प्रशस्यते ।
परकीया पंचविधाताः क्रमेण व्रवीम्यहं ॥
संजीद्भ्रतृकाऽन्येका तादृगेवेवमृत प्रिया ।
९६ब्)
दासी वेश्या तथाऽरूढा प्रशस्ताचोत्तरोत्तरं ।
अजातवत्सा युवती तास्वाद्यै च प्रशस्यते ॥
कदाचिज्जातवत्सापि सा सर्व सदृशा मता ।
अभावे पूर्वपूर्वायाः पराग्राह्या हि साधकैः ॥
साधिकायास्तु कौलाया एवमेव पुमानपि ।
न साधकं विनानार्यो नपुंसः साधिका मृत ॥
मन्त्राः सिद्ध्यन्ति देवेशि कल्पकोटि शतैरपि ।
परस्त्री संगमो सद्योपसूवा प्राणिमारणं ॥
स्वार्थं चेन्नरकायै वव्यर्थं सुकृताय हि ।
को हेतुर्न विजानामि देवी प्रीकरा इमे ॥
न पाप जनकं यद्वतद्यर्थं पशुघातनं ।
न किल्किषस्तद्वत् परस्त्री संगमादिकः ॥
अर्शथक्तीनां जाति विशेषः ॥
९७अ)
नटीकापालिनी वेश्या रजकीनां पितांगना ।
ब्राह्मणी शूद्रकन्या च तथा गोपाल कन्यका ॥
मालाकारस्य कन्या च नवकन्याः प्रकीर्तिताः ।
नान्यूनांग्योनाधिकांग्यो न स्थूलानाधिकं कृशा ॥
र च्छिन्ननासांगुलिका न दीर्घा न च वामना ।
न मुण्डिता न कुब्जाञ्च मूढान्धवधिरा न च ॥
न केकरा नखंजाश्च भिन्न योनिगंलत्कुचा ।
वालापत्याश्च वित्यत्यो न कार्याः शक्तयस्त्विमाः ॥
वदामि योग्यां साधिक्यां याभिस्तुष्पतिकालिका ।
गौरांगी युवती रम्या स्मेरास्स चारुविग्रहा ॥
विशाललोलनयना पीनोन्नत पयोधरा ।
विशालजघना भोगा वलित्रय विराजिता ॥
सुपाश्वेतनु मध्या च सुस्वराकुंचिता लता ।
९७ब्)
विचित्र वेशाभरणा विचित्राम्वर धारिणी ।
विचित्रम्रकसमाकीर्ण विचित्र रति दायिका ॥
सदा प्रसन्नवदना देव्या भक्ति परायणा ।
कौलिकाचरणज्ञा च साधके भक्ति तत्परा ॥
भयहीनास्मेरमुखी सर्वदा प्रिये वादिनी ।
समयाचार संपन्ना मन्त्रज्ञा भयवर्जिता ॥
विदग्ध्या चोप्रसुताच्च धैर्यस्वातन्त्र्यसंयुता ।
एवं गुणसमायुक्ताः पूजयेत् सर्वयोषितः ॥
अथ विद्या विशेष शक्ति विशेषमाह ॥
गन्धरूपा जाति भेदैर्महाविद्या प्रकीर्तिताः ।
तत्क्रमां देवदेवेशि शृणु यत्नेन साम्प्रतं ॥
रूप गन्ध क्रमेणैव नामदद्यान् महेश्वरि ।
मातृपितृ कृतं नाम त्यक्त्वायज्ञानपार्वति ॥
९८अ)
स्वयं नाम प्रदद्याव्वै यथा योगेन पार्वपि ।
या कृष्णा नीलकृष्णा भामधुपिंगल लोचना ॥
साधका कांक्षि हृदया पुंगन्धा निंद्य गन्धिका ।
तस्यां काली समायोज्या सा काली परिकीर्तिता

2

मद्यगन्धा तु या नारी रक्त नेत्राति निष्टुरा ।
महोग्रतारा सा प्रोक्ता महापाप विनाशिनी

3

सर्वदा भोजना शक्ता वहुभोज्याति चंचला ।
त्रैलोक्या मोहनाकारा च्छिन्ना विद्या प्रकीर्तिता

4

सर्वलक्षणसंयुक्ता नानागन्धसमाकुला ।
सुन्दरी चारुकेशी च दीर्घनेत्रा मनोहरा ॥
नाना विलाश कुशला कुलशास्त्र विचारणी ।
गुरुवक्त्रः स्थला क्रान्ता मध्याविनलदर्शिनी ॥
सुन्दरी सा भवेद्गौरी सर्वकार्या प्रवर्तिनी

5

९८ब्)
यासा तृतीया गौरांगी मधुगन्धानुलेपना ।
त्रिपुरा नाम सा देवी स्वपुष्प क्रमसाधिनी

6

चार्वगी चारुणेत्रा च कंज पद्मासन स्थिता ।
पीताभरणभूषांगी कमला परिकीर्तिता

7

गुंजाहार विभूषाढ्या श्यामा चंचल लोचन ।
चारुहासा तु मातंगी विद्या ख्याता महेश्वरि

8

दिव्यवर्णां कृशांगी च दिव्यगन्धानुलेपना ।
भुवनेशी मया प्रोक्ता नानाभरणभूषिता

9

पिंगनेत्रा पिंगकेशा किश्चिदुच्चाति हासिनी ।
धूमावती च सा प्रोक्ता सिद्धि विद्यां शृणु प्रियेत्

19

लम्बवक्त्रा च लम्बोष्ठी पीतवर्णति निश्चला ।
वगला या महेशानि कीर्तिता तव सुव्रते ॥
९९अ)
दशविद्यादुमाख्याता शक्तिरूपेण पार्वति ।
दशविद्या महेशानि मातृस्त्री भगिनी क्रमात् ॥
क्रीडन्ति शततं देवि विद्या एव न संशयः ।
दश क्रमो महेशानि दशविद्या सुयत्नतः ॥
सर्वथा कारयेद् देवि नान्यथा युगकोटिभिः ।
न हि सिद्द्यन्ति देवेशि दशपद्म जपेन वै ॥
तस्मात् सर्व प्रयत्नेन स्वस्वविद्या क्रमं चरेत् ।
आत्मीया च परा चैव शक्तिमात्रं महेश्वरि ॥
मन्त्राधि देवता बुद्ध्या पूजा सर्वोपचारकैः ।
विविधैः फलताम्बूलैर्वस्त्रालंकालहेमभिः ॥
संपूज्य विधिवद्भक्त्या वहु हेतुं प्रदापयेत् ।
संभोग वासनां धृत्वा यः कुर्याच्छक्ति पूजनं ॥
सदारिद्र्यमवाप्नोति नारकी च भवेद्ध्रुवं ।
९९ब्)
वहुभिः किं वरोजालैः समासात् समप्यं शृणु ।
निर्दिश्यते शक्ति पूजा कौलिकानां दिने दिने ॥
प्रत्येहं च सूरादानं तत्स्वीकारोत्वहं तथा ।
नित्यतोक्तस्तयोद्देवि कुलमार्गारतेषु च ॥
हेया हेय विवहे (रो हि) तथा । विरलः शक्तिषु प्रिये ।
अनुकल्प प्रदातृणामपि नित्यन्वमेव हि ॥
विहाय गर्हिताः शक्ति योग्या एव हि गृह्यते ।
इतरेषां शक्ति पूजा काम्या नैमित्तिकी तथा ॥
समाधिष्ठित चित्तानामितरासां निराकृतिः ।
विधानैकंलयेदानीं मन्त्रानपि च पार्वति ॥
स्नातां दिव्यांवर धरां नानारंकारमण्डितां ।
युवतीं पीनवक्षोजां तथा चाकृति भोजनां ॥
हस्ते गृहीत्वा वामौरौ स्थापयेच्छक्तिमुत्तमं ।
१००अ)
अशक्त वामोवोढुत्तां देव्यावामेथवासने ।
वामभागे समालिख्य त्रिकोणं पद्मवर्तुलं ॥
श्वेतरक्तसमायुक्तं नालं सिंदूल चर्चितं ।
साधकः प्राङ्मुखो भूत्वा देवीं प्रत्यङ्मुपूजयेत् ॥
उड्डियानं तु त्रेतायां कृते पूर्णगिरिं यजेत् ।
जालन्धरं द्वापरेषु कामपीठं कलौयुगे ॥
तानि चत्वारि वक्ष्यामि गुह्याद्गुह्य तरानि च ।
शक्तेः सर्व शरीरं यत् पीठं पूर्णगिरं मतं ॥
तस्याः शिरश्चन्द्रभागे उद्यानं कीर्तितं मया ।
स्तनौ जालंधरं प्रोक्तं कामपीठं भगं स्मृतं ॥
प्राणायाम त्रयं कृत्वा ऋष्यादि न्यासमाचरेत् ।
ऋष्यादिं च चरेदादौ ततः शोधनमाचरेत् ॥
ऋष्यादि कण्ठश्चिदानिं एतस्य सुरवन्दिनी ।
१००ब्)
श्रीशक्तिपूजनस्यास्यगोनर्द्ध ऋषिरीरितः ।
विकृतिश्च्छन्द आख्यातं शक्तिरूपापदादनु ॥
महाकाली देवता च कामो बीजमुदाहृतं ।
शक्तिर्वधू भौवणेशी कीलकं समुदाहृतं ॥
शिवशक्तिसामरस्य प्रकाशे विनियोगता ।
संसर्गा पंचदीर्घाढ्यैर्वधूबीजैः षडंगकं ॥
विधायात्मनि शक्त्यंगे न्यासं वाच्यमथाचरेत् ।
स्त्रीवेच्छक्ति पदस्थाने भैरवेति पदं वदेत् ॥
योषिद्योनि पदस्थाने स्याल्लिंग पदकल्पना ।
गुरुपदेशतश्चापि स्वबुद्ध्या चासुरेश्वरि ॥
ऊहः सर्वत्र कर्तव्यो लिंगे तत् तत् पदेपि च ।
समानः किन्तु गायत्र्यां सासमानो भयत्र हि ॥
१०१अ)
न्यासोद्धारमिदानित्यं सावधाना निशामय ।
त्रयाकामोरमारावो योगिनी रोषयोषितौ ॥
डाकिनी प्रलयोहारः फेत्कारी कर्णिकापि च ।
प्रेतो नृसिंहकुलिकं चिच्छुक्तिः सर्वशेषगा ॥
एकैकं परतो दद्याद् बीजं नाम्नां सुरार्चिते ।
तान्पथादौलिकी च भगमालिन्यनन्तरं ॥
रति प्रियातथानंगोऽकुला समय पालिनी ।
मदनोत्मादिनी कामा वेशिनी तदनन्तरं ॥
चिन्तोन्माथिन्यपि ततो मोहन्या कर्षणी तथा ।
स्मरा तरानंग भूपा हृत्प्रमो दिव्यनन्तरं ॥
सन्तापिनी ततः संक्षोभिनी च त्रिदशार्चितो ।
सर्वशेषे परिज्ञेया सामरस्य स्वरूपिणी ॥
एताः षोडश वै कार्या ङेन्ताः पूर्वाणसंयुताः ।
१०१ब्)
स्त्रीकत्वे पुलिंगा भैरवार्चन कर्मणि ।
नमः शेषेषु सर्वेषु स्थानानि कलयाधुना ॥
शिरः कपोल्यै च गलः स्कन्धौ वक्षः कुचौ तथा ।
पार्श्वे कुक्षि च नाभिश्च वस्तिर्वक्षुण एव च ॥
ऊरूजानू च जंघे च पादौ योनिश्च शेषगा ।
जीव न्यास वदे तस्याः सामरस्य मथाचरेत् ॥
एते देवेति संप्रोक्तं शक्तिशोधनमीश्वरि ।
कृत्वा प्रहस्तन्तु करं दत्वा तु हृदनोजयोः ॥
कामपीठेथवा देवि नाभौ मौलीयकी मते ।
मनुं गृणन्वक्ष्यमानं वारैकं वा त्रिवारकं ॥
जीवन्यासात्मकमिदं शक्ति शोधनमाचरेत् ।
अनेन शुद्ध्यते शक्तिर्नान्यथा मन्त्र कोटिभिः ॥
मायाकामोवधूर्लक्ष्मीः कूर्च प्रासाद एव च ।
१०२अ)
शाकिनी डाकिनी चापि बीजाभान्यष्टौ पुरः स्मरेत् ।
भोगानन्द कलादोक्ति जीवात्म परमात्मकः ॥
प्रतिबिम्बा द्वैत संज्ञा कात्म्यनालयाऽभिधान् ।
दशकूटाकन्मान् प्रोच्य ब्रह्म तद्विपरीतकं ॥
द्वयं दशान्त उच्चार्यमेवमद्धार्द्ध सम्मितं ।
ततो ममानु हृदय तवानु हृदयं वदेत् ॥
दधा तु मम वाच्युक्त्वा ते वाचं समूदीरयेत् ।
मतेन्द्रियेषु तदनु प्रवदेकमलानने ॥
तेन्द्रियाणि च संभाष्य मम वाचं जुहुस्व च ।
ततः सिद्धिकरालीति त्वां मह्यं निपुनकुच ॥
येवत्वंच स एवाहं य एवाहमितीरयेत् ।
सैवत्वं सन्धिनायुक्तमुभौ तदनुकीर्तयेत् ॥
शिवशक्ति समारभ्यमापन्नौ तदनन्तरं ।
१०२ब्)
तदैक्यमिति संकीर्त्य साधया च इतीरयेत् ।
स सन्धिस्तार हृच्छीर्ष मन्त्रस्तदनु सुन्दरि ॥
अयं मन्त्रः समुद्दिष्टः शक्तिशोधनकर्मणि ।
अष्टोत्तर शतार्णढ्यो नन्यूनोनापि चाधिकः ॥
ध्यानं पूर्वोदितं यत् ते भगवत्या मया तव ।
शक्तिं तादृशाकारां ध्यायेद्वीक्ष्यांगसंचयं ॥
भैरव ध्यानसदृशमात्मानं च विभावयेत् ।
ततः आवाहयेद् देवीं शक्त्यंगपीठसंनिभे ॥
वक्ष्यमानेन मन्त्रेण साधकोंजलि मुद्रया ।
मायाकामवधूराव कमलायोगिनीरुषः ॥
डाकिनी चापि फेत्कारी नवैतान्यादिगान हि ।
एह्येहि भगवत्युक्त्वा महाकालि समीरयेत् ॥
शक्तिपीठेनुसान्निध्यामावेशयसमुद्धरेत् ।
१०३अ)
ततस्त्वमहमूल्लिख्या वाहयामि च कीर्तयेत् ।
सर्वशक्ति समाभाष्य स्वरूपिणि ततो वदेत् ॥
तारं प्रतिष्ट शीर्षं च शक्तिमूल मनुं शृणु ।
मायारावः स्मरो नारी शक्तये हृदयेत् ततः ॥
मन्त्रो नवाक्षरः प्रोक्तः शक्तिपूजन कर्मणि ।
ऋष्यादि नास्ति चैतस्य न छन्दो बीजशक्तयः ॥
बिन्दुपाद्यादि नैवेद्य सर्वोपचाराघर्पण हेतुकः ।
जप्तव्यो नैव चायं हि त्रिपुरघ्न वचोद्यथा ॥
सर्वोपचारान्ये तेन प्रदद्यात् किन्तु शक्तयेत् ।
पाद्यदानानि नैवेद्य दानन्त यद्यदिष्यते ॥
न चान्य मन्त्रो भिन्नोस्ति मन्मतेज गदीश्वरि ।
कूर्चते यत् तु मौलेया तदमूलं विभाव्यतां ॥
१०३ब्)
शक्ति पूजा वशिष्टं यत् पुष्पस्रगनुलेपनं ।
यदात्मने दीयतेमत्मामरस्यार्चनं भवेत् ॥
तदमन्त्रं प्रकर्तव्यमेवमीशानशाशनं ।
ततो दत्वा करंशक्ति योनि पीठे जपं चरेत् ॥
साधकः शक्ति गायत्र्या शतमर्द्धार्द्धमेव च ।
योनिपीठ जपप्रख्यो न जप क्वापि विद्यते ॥
सत्यप्रभावजनको मन्त्राणां पीठ उत्तमः ।
मन्त्राणां वलहीनानां प्रयोगक्षीण चेतसां ॥
अनुद्धृतानां सापेभ्यो न्यूनाधिक्यार्णता जुषां ।
गुरुमिष्टानामपि चे प्रदानो नौजसान्तथा ॥
अज्ञानविधि पूजानाम पात्रार्पणभागिनां ।
त्यक्तानां विस्मितानां च तथा चैवा प्रभाविनां ॥
सन्धूक्षणार्थमुभयं प्रोक्तं त्रिपुर वैरिणां ।
एकं निर्वाणमन्त्रेण संपुटीकृत्य तज्जपं ॥
१०४अ)
कौलासनेनापरं च योनि पीठे जप क्रिया ।
कौलासनं योनि पीठेजः स्त्रीभ्यो मनुग्रहः ॥
गुरुस्त्री शक्तिता चापि मिश्रीभूप जपेद् द्वयोः ।
अन्यैः समिन्धनं मन्त्रैर्वजाधिक्यकरं परं ॥
अथात शक्ति गायत्री शृणु देवि महाफलं ।
कामबीजोद्भगवतीं ङेन्तां पुरत ईरयेत् ॥
विद्महे योनि मालिन्यै धीमहीति ततः परं ।
तन्नः शक्तिरिति प्रोच्य सर्वशेषे प्रचोदयात् ॥
एषा हि शक्ति गायत्री सर्वागम सुगोपिता ।

एतान्विना नशक्त्याच्चान शक्त्यच्चींगिको जपः ॥
यथाशक्ति यपित्वैनां तत्समर्प्य च शक्तये ।
वामोरावुपवेश्यैव कुर्यान् मूल जपं प्रियेत् ॥
१०४ब्)
पूजयेन् मदनागारं रक्तचन्दन चर्चिते ।
भागतदीये विज्ञेया नाड्यस्तिस्रः प्रवाहिकाः ॥
एकोत्तरा हि का चान्द्री सौरी चान्यातु वाहिका ।
आग्नेयी चापरा ज्ञेया पूजयेत् तस्तु साधकः ॥
अस्त्र श्रवति चान्द्री सा पुष्पं श्रवति भानवी ।
बीजं श्रवति चाग्नेयी तास्तु नामभिरर्चयेत् ॥
वाग्भवाद्यैर्नमो युक्तैः पूजयेत् सुप्रसन्नधीः ।
ध्यानं कुर्यान् महेशानि गह्व चेका करानने ॥
ताम्रचूडाशिस्वारं गजवक्त्रसमप्रभं ।
तत्रस्थां चिन्तयेद् देवि विद्यां भुवनमोहिनीं ॥
भगमालामन्त्रस्तु ॥
वाग्भवंगशद्वान्ते भगे भगिनि चालिखेत् ।
भगोदरी भगाकेतु भगमाले भगावहे ॥
भगगुह्ये भगप्रान्ते योनिप्रान्ते भगान्तके ।
१०५अ)
निप्रातिनि च सर्वान्ते ततो भगवतिशरि ॥
भगरूपे ततो लेख्यं नीरजायतलोचने ।
नित्य क्लिन्ने भगप्रान्ते सरूपे सर्व चालिखेत् ॥
भगाविमेह्या नमोन्ते वरदेथ समालिखेत् ।
रतेस्वरते भगवत् क्लिन्ने क्लिन्ने द्रवे ततः ॥
क्रेदय द्रावय चाथ सर्वसत्वान् भगेश्वरी ।
अमोघे भगविच्चे चक्षुभः क्षोभय सर्व च ॥
सत्वान् भगेश्वरी ब्रूयाद् वाग्भवं ब्रूजमादिकं ।
भं व्लुं मौं व्लूं च हैं क्रिन्ने च ततः परं ॥
सर्वाणि च भगान्यन्ते मेव शंचानयेति च ।
स्त्रीबीजञ्च हरे प्रान्ते वलमात्मकमक्षरं ॥
भुवनशीं समालिख्य विद्ययं भगमालिनी ।
चतुर्थ्यन्ते यजेद् देवि भगे पुष्पं विनिःक्षिपेत् ॥
१०५ब्)
प्रक्षाल्यकुलद्रव्येण गन्धपुष्पैः समर्चयेत् ।
धूपदीपादिकं कृत्वा पश्चादावरणं यजेत् ॥
इहाप्यावाहनं नास्ति जीव न्यासो महेश्वरि ।
अथैवं च विधानेन ताः षोडशोपचारकैः ॥
इष्टदेवीं प्रपूज्याथ सर्वसिद्धीश्वरो भवेत् ।
अर्चयेद् गन्धपुष्पाद्यैः स्वशिवन्तदनन्तरं ॥
अथ न्यासं प्रवक्ष्यामि शिवात्मानं विभावयेत् ।
पंचवक्त्रं महादेवं कलायुक्तं न्येत् क्रमात् ॥
ईशानस्सर्वविद्यानां शशिनी प्रथमा कला ।
ईश्वरस्सर्वभूतानां मंगदा तदनन्तरं ॥
ब्रह्माधिपति शब्दान्ते ब्रह्मणोधिपतिः पुनः ।
ब्रह्मेष्टदाशिवोमस्तु मरीचि संपुटं न्यसेत् ॥
सदाशिवों समुर्च्चार्य मुंण्डमालिन्यथा परा ।
१०६अ)
तत्पुरुषाय विद्महे कलान्तिरितिरिता ।
महादेय धीमही कलाविद्या तथैव च ॥
तन्नोरुद्रः पदं पश्चात् प्रतिष्ठा कथिता कलाः ।
प्रचोदयात् समुच्चार्य निवृर्ति स्यात् ततः परं ॥
पूर्वपश्चिम याम्येषु उत्तरेष्वप्यनुक्रमात् ।
हृदये विन्यसेद् देवि अघोरेभ्यः स्तमः कला ॥
अथ घोरेभ्यो मोहां च ग्रीवायां विनासेत् ततः ।
घोरान्ते स्यात् क्रिया पश्चाद् दक्षिणंशे प्रविन्यसेत् ततः ॥
घोरान्ते स्यात् क्रिया पश्चाद् दक्षिणांश प्रविन्यसेत् ।
नमस्तेस्तु क्षुधां पश्चा कलां पृष्ठे न्यसे क्रमात् ॥
भुद्ररूपेभ्य इत्यन्ते तृषान्तार नमोन्तकाः ।
वामदेवाय नमोन्तेरजा स्याद्गुह्य देशके ॥
१०६ब्)
मुखसव्ये प्रविन्यस्य रक्ष्या ज्येष्ठाय वै नमः ।
रुद्राय नमोरतिं पश्चाद् वाममुषकलामिमां ॥
कालाय नम इत्यन्ते पालिनी उरु दक्षिणे ।
कलकामा च देवेशि वामे विकरणाय च ॥
नमः पदं समुच्चार्य संयमनीन्दक्षजानुनि ।
वलक्रिया समुद्दिष्टा वामे विकरणाय च ॥
नमोन्ते वृद्धिमुच्चार्य दक्षिणे स्फित्रि विन्यसेत् ।
वलप्रमथनाय नमो रात्रिं वामे प्रविन्यसेत् ॥
सर्वभूतदमनाय नमोऽन्ते ब्रह्मणा कला ।
कटि देश प्रविन्यस्य मनान्ते मोहिनी कलां ॥
दक्षिणे पार्श्वके न्यस्य उन्मनाय नमो ज्वलां ।
पादयोस्तननासासुमूर्द्ध्निनिवाहु युगे न्यसेत् ॥
१०७अ)
सद्योजातोद्भवा सम्यगष्टौ मन्त्री कला क्रमात् ।
सद्योजातं प्रवक्ष्यामि सिद्धिः स्यात् प्रथमो कला ॥
सद्योजातोये वै भूयो नमः स्यादृद्धिरीरिता ।
भवेद्युतिस्तृतीयास्मादभवेतदनन्तरं ॥
लक्ष्मीश्चतुर्थी कथिता ततो नाति भवै पदं ।
मेधाख्या पंचमी प्रोक्ता कला भूयो भवस्वतां ॥
प्रज्ञासमीरिता षष्ठी भवान्त्य स्यात् प्रभा कला ।
उद्भवाय नमः पश्चात् सुद्धा स्यादष्टमी कला ॥
प्रणवाद्याश्चतुर्थ्यन्ता नमोन्ताश्च प्रविन्यसेत् ।
एवं न्यासविधिं कृत्वा स्वयं शैवं विभावयेत् ॥
पंचाक्षरं पुरस्कृत्य रुद्रध्यान परायणः ।
सामरस्य मयं कृत्वा रक्षार्थं कवचं पथेत् ॥
वध्वा तु क्षोभिनीं मुद्र्यं न कालिकान्तर्पयेत् सदा ।
१०७ब्)
सान्निध्यान्तत्क्षणाद्वापि * * * * * * * *?
।
* * * * *? नाश्च तर्पणं चणदामृतैः ॥
गुरूणां साधकानाञ्च सर्वेषां तर्पणं चरेत् ।
तेनामृत न दिव्येन सर्वे तुष्टा भवन्ति च ॥
यत्कामं कुरुते मन्त्री तत्क्षणादेव सिद्ध्यति ।
कुलामृतं समादाय तत्रार्घ निःक्षिपेद् बुधः ॥
ततः सोमकलाः पूज्याः साधकैनिर्मलाशयः ।
मधुभाण्डसहस्रैस्तु मांशभारशतैरपि ॥
नैव तुष्टा भवेद् देवि भगलिंगामृतादृते ।
कुलद्रव्यञ्च संशोध्य शिवशक्ति मयं प्रिये ॥
जीवामृतं परं ब्रह्म रूपं निक्षिप्य सुन्दरी ।
अर्घपात्रामृतैयुष्णा निर्विकल्पः सदानघः ॥
अर्घ द्रव्यश्च देवेशि योनौ देवीं प्रपूजयेत् ।
fओलिओ १०८ नोत् fओउन्द्
१०९अ)
योनि पूजां विना पूज्या कृता चाप्य कृता भवेत् ।
दूती योगे कृते मन्त्री सर्वज्ञा जायते ध्रुवं ॥
न तस्य पुनरावृत्तिः कल्पकोटि शतैरपि ।
यैः कृतं यजनं दूत्यास्तेरिष्टाः क्रतवोखिलाः ॥
सर्वतीर्थ मयोः प्रोक्तः सर्वदेव मयो भवेत् ।
पुरश्चर्यादि सकलं कृतं तेन संशयः ॥
अश्वमेध सहस्राणि वाजपेय शतानि च ।
आसमुद्राश्च धरणी तत तेन स दक्षिणाः ॥
मेरुमन्दर तुल्याणि सुवर्णन्यर्पितानि वैः ।
गो कोटिदानाद्यत् पुण्यं तत्पुण्यं जायते प्रिये ॥
तस्मात् सर्वप्रयत्नेन दूतीयागं समाचरेत् ।
पूजासंपूर्णदं भद्रे सर्वारिष्ट प्रकाशकं ॥
योनि पूजा युता पूजा कृतामप्यक्षया भवेत् ।
१०९ब्)
आयुरारोग्यविभवा नमितान् लभते नरः ।
अनेनैव विधानेन विषार्तोन्निर्विषो भवेत् ॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनं ।
मातंगी शक्तिमत्यर्च्यतंपासाकं समर्चयेत् ॥
मातंगी मन्मथोपेतां सर्वकामार्थसिद्धये ।
शक्त्या साकं सदा पूज्या मातंगी मन्त्र देवता ॥
सा देवी शक्ति हीना तु न ददाति मनोरथं ।
पूर्णाभिषेक रहितो य शक्तिं साधयेन् नरः ॥
सोधमः पतितो रोगी पंचत्वं लभते ध्रुवं ।
इन्द्रियाणामधृष्यत्वात् कामलोभा सम्भवात् ॥
प्रायः कलो कौलिकोयं पंथानरक हेतवे ।
उत्तमा नित्य पूजा स्यान् मध्यमं पर्वपूजनं ॥
मासपूजाधमाप्रोक्ता मासादूर्द्धपशुर्भवेत् ।
११०अ)
मासे वाथ त्रिमासे वा षण्मासे वत्सरेत् पिवा ।
श्रीगुरुं पूजयेद् भक्त्या प्राप्नोतत्स्त्री सुतादिकान् ॥
तदभावे तत्कुलीनं तच्छिष्यं वा योगिनं ।
संतोषयेत् कुलद्रव्यैश्चक्र पूजा पुरःसरं ॥
इति श्रीकौलरहस्य सर्वागम एकोनविंशतितम पटलः

1

अथ चक्रस्य विशेषाचारमाह ॥
उच्छिष्टो न स्पृशेच्चक्रं कुलं द्रव्य तथा गुरुं ।
वहि पक्षाल्प च करौ कुलद्रव्याणि दापयेत् ॥
मद्यभाण्डं समुद्धृत्य न पात्रं परिपूरयेत् ।
भोगपात्रं सुराकुम्भं निःक्षिपेन्न कदाचन ॥
चक्रमध्ये शुचि धिया करास्यक्षालदिकं ।
यः करोति हि मूढात्मा स भवेदापदां पदं ॥
निष्ठीवनं मलं मूत्रमधोवायविसर्जनं ।
श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनी पशुः ॥
११०ब्)
चक्र मध्येद्यतेभिण्य पात्रे वासुवलिते तथा ।
दीपनाशे राजपीडा तच्छान्त्यै चक्रपूजनं ॥
परिहासं प्रलापं च विडंवं वहुभाषणं ।
क्षौदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् ॥
पात्र हस्तश्चक्रमध्ये न भ्रमेत् पूर्ण पात्रकं ।
विरं न स्थापयेद्धस्ते नालयेत् पात्रपाणिकः ॥
पादाभ्यां न स्पृशेत् पात्रं न चस्भं?द्यात् कदाचन ।
नैव हस्तेन दातव्यं न बिन्दुं पातयेदधः ॥
पात्रं न चालये स्थानान्न मुद्रा वर्जिते पिबेत् ।
स शब्देन पिबेत् मद्यं न कुर्यात् पात्रसंकरं ॥
पात्रस्यां शब्दयं मद्य पूर्णं त्र्यशंतुरीयकं ।
नाना न्यान्यं ताडयेत् पात्रं न पात्रं ताडयेदधः ॥
साधारे नोद्धि प्रदं

2

fओलिओ १११ नोत् fओउन्द्
११२अ)
सर्वाम्नाय कलाकलापकलितं कौतुहल द्योतकं चन्द्रोपेन्द्रशम्भुवरुण
ब्रह्मादिभि सेवितं ।
ध्यातं देव गणै मोक्षार्थिभिः सर्वदा लोकानामति वर्द्धनं सुखकरं
पात्रं द्वितीयं नमः

3

मद्यं मांसकमत्स्यकं हरिहर ब्रह्मादिभिः पूरितं मुद्रामैथुन
धर्मसुखदं क्षाराम्लतिक्ताश्रयं ।
आचार्यार्चितमष्टभैरव कलान्यासेन संसोधिपायात्
पञ्चमकारसंयुतमिदं पात्रं तृतीयं नमः

4

आविर्भूत स गोलकुण्डसुखदं ब्रह्मादि रुद्रार्चितं नीराज्यं प्रथमो गजात
कुसुमं दिव्याधि कूटं परैः ।
मच्छोच्छाममुत्तमोत्तमरसंसंस्यव्यादिव्यामृतं भूयः
पंचकमुक्ति कामकमिदंपाचतुर्थं मुदे

5

११२ब्)
आधारे भुजगाधिराजवलये पात्रं मही मण्डलं मद्यं सप्तसमुद्रवारि
पिशितं चाष्टौ च दिग्दन्तिनः ।
सोहं भैरवमर्चयन् प्रतिदिनं तारागणैरक्षितं आदित्य प्रमुखैः
सुरासुरगणैराज्ञा करैः किं करैः

6

च्छत्रं चामर भद्रपीठ परमानन्दायितं दायिनं रामाराज्य
मनोहरसुखरंसायुज्य सामाज्यदं ।
नानाव्याधि भवान्धकार हरणं जन्मान्तरं नाशनं श्रीमत्सुन्दरि
तर्पणेन्द्र वरदं पात्रं च षष्ठं भजेत्

7

जाग्रत् स्वप्न सुषुप्ति तुर्यपुरतो चैतन्य साक्षात् प्रदं विद्युद्भास्कर वह्नि
चन्द्र धनुषजातिः कथाभाषितं ।
इडापिंगलमध्ये गात्रिवलया सत्कुण्डली चोर्द्ध पात्रं सप्तमपूरणेन
तनुनानन्दोधिकः पातुमां

8

११३अ)
खड्गं पादुकमंजनं च गुटिकं सारस्वतं सास्वतं सत्पदं
मृत्योर्वंचनमुग्रकार्य ग्रहनं देह स्थिरः कारणं ।
पायात् सिद्धिकरं मनः स्थिरकरं वश्यं जगघोषितां पात्रं चाष्ट
ममष्टसिद्धिकरणं प्रौढ प्रसन्नं सदा

9

सर्वानन्द करं सदा शिवपदे द्वद्वैक मुक्तिप्रदं साम्राज्यं सुखदं
मनोरथ करंत्व ज्ञानविध्वंसनं ।
आयुः कीर्तियशोविवर्द्धनकरं संसारमोहच्छिदं पात्रं श्री
नवनाथशक्ति नवकं प्रौढ प्रतीपादितं

20

त्रिपात्रं पंच पात्रं वा सप्त पात्रमथापि वा ।
नव पात्रं पिबेद् वापि षोडशार्द्धं पिबेन हि ॥
यावन्न चरते दृष्टिर्यावन्न चरते मनः ।
११३ब्)
तावत्पानं प्रकूर्वीत पशुपानमतः परं ॥
पूर्णाभिषेक युक्तानां पानन्दे विनिगद्यते ।
कराभ्यां पात्रमुद्धृत्य स्मरन्मूलञ्च पादुकां ॥
आगलान्तं पिबेन्मद्यं समुक्तां नात्रसंशयः ।
पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले ॥
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ।
आनन्दा भृययते देवीमूच्छया भैरवः स्वयं ॥
वमनाःत्सर्वदेवासु तस्मान्त्रितयमाचरेत् ।
ब्रह्मज्ञानी कुलाचारे सुरापीत्वा स्खलन्मुहुः ॥
भूमौ पतति तस्यांगे खगन्ति यदि रेणुवः ।
तावत् कारं रेणु संख्यं ब्रह्मलोके समोदते ॥
पीत्वा पीत्वा जपित्वा च मुक्तः कोटि कुलैः सह ।
ब्रह्मलोके वसेद् देवि सत्यं सत्यं न संशयः ॥
११४अ)
तत्रैव व्याप्ति माप्नोति न पुनः प्रपतेद्विह ।
पीत्वा च पूजयित्वैशामीशत्वं लभते ध्रुवं ॥
तत्रैव लयमाप्नोति पुनर्नैव निवर्तते ।
तत्र मत्तेषु वीरेषु कार्याकार्यं न विद्यते ॥
तत्र यद्यत् कृतं कर्म शुभं वा यदि वा शुभं ।
तत्सर्वं देवता प्रीत्यै जायते नात्र संशयः ॥
जल्पोजपफलं तन्द्रा समाधिरभिधीयते ।
विक्रिया पूजनं प्रोक्तं च्छर्द्दिगं भैरवो वलिः ॥
मुक्तिः स्माच्छक्तिसंयोग स्तोत्रं तत्कारभाषणं ।
न्यासो वयव संस्पर्शो भोजनं हवन क्रिया ॥
ध्यानं तु वीक्षणं प्रोक्तं शयनं वंदनं भवेत् ।
तदुल्लासकृतानां च या चेष्टा सा च सत्क्रिया ॥
कार्या कार्य विचारन्तु यः करोति स पातकी ।
११४ब्)
एतच्चक्र गता वीरा विज्ञयाः परयोगिनः ॥
येनाप्नुवन्ति मनुजाः साक्षाद् भैरवरूपतां ।
संमोदकोपशमनं पतनोट्तान नर्तनं ॥
वेणुवीणादि वाद्यं च कविता रचनादिकं ।
नोदनं भाषणं पातः समुत्थानं विजृम्भवं ॥
गमनं विक्रिया देवि योग इत्यभिधीयते ।
विकृतिं मनसो हित्वा ये पाल्लासः प्रवर्तते ॥
तदा तु देवता भावं भजन्ते योगि पुंगवाः ।
कौलिकाम्भैरवा वैशान्या चानिन्दंति मूढधीः ॥
तन्नाशयंभ्यसंदेहो योगिन्यो नात्रसंशयः ।
यद्यद्वक्तिमदावेशादूद्भुतं कौलिकौजनः ॥
तत्तद्भवस्यसंदिग्धं शुभं वा यदि वा शुभं ।
तारो नमो भगवति मद्यमांसविहारिणि ॥
११५अ)
रति प्रिये चक्र देवि वद कौलिक वल्लभे ।
सत्यं मनो गतं मद्य त्युक्त्वा मद्यं पलान्वितं ॥
प्रदद्यात् कौलिके भ्यस्तस्तन्मताः प्रव्रुवन्तिते ।
तत्र कश्चिद कौलञ्चन्नसास्फुरंति भारती ॥
नन्दिन्देन्न हसेत् कुप्येच्चक्रे मधु मदाकुलान् ।
एतच्चक्र गतां वर्ता वहिर्नैव प्रकाशयेत् ॥
तेभ्यो द्रोहं न कुर्वीत नाहितं च समाचरेत् ।
भक्त्या संक्षयेत् तान्वै गोपयेच्च प्रयत्नतः ॥
चक्रे च प्रमदां दृष्ट्वा चिन्तयेद् देवताधिया ।
मोदते वन्दते भक्त्या स गच्छेद्योगिनी पदं ॥
प्रवृत्ते भैरवी चक्रे सर्ववर्णा पृथक् पृथक् ।
स्त्रियोथ पुरुषः षण्डाश्चाण्डालो चाद्विजोत्तमः ॥
चक्र मध्ये न भेदोस्ति सर्वे देव समाः स्मृताः ।
११५ब्)
चक्रमध्ये गताः सर्वे पुरुषा शिवरूपिणः ।
स्त्रियः सर्वाश्च पार्वत्यस्तस्माद् भेदं न कारयेत् ॥
कामुको न स्त्रियं गच्छेदनिछन्तीमदीक्षितां ।
सद्यः संस्कारसंशुद्धां विहितत्वाद्व्रजेत् स्त्रियं ॥
सहस्र चक्र पूजातोराज्य भ्रष्टो नृपो भवेत् ।
पंचाशद्भिश्च पुत्रप्तिर्निरोगो दशभिर्भवेत् ॥
यस्य चक्रस्य पूजायां रतास्खालति चांगना ।
अवश्यं सार्वभौमोसौ वर्षमध्ये भविष्यति ॥
यथेप्सित प्रिया प्राप्त्यै पंचधा पूजनं चरेत् ।
सप्तभिः स्याद्धन प्राप्तिश्चक्र पूजा विधिस्त्वयं ॥
भगिनी वा सुतां भार्यां यो दद्यात् कुलयोगिने ।
मधुमत्ताय चक्रान्ते तस्य पुण्यं न गण्यते ॥
इति श्रीकौलरहस्य सर्वागमे विंशपटलः

21

११६अ)
अथ नैमित्तिकमाह ॥
श्रीमहाकाल उवाच ॥
एतावान्नित्य पूजाया विधिरुक्तो मया तव ।
नैमित्तिकानि काम्यानि सांप्रतत्वं निशामय ॥
निमित्तं किंचिदुद्दिश्य यदा याति सुरेश्वरि ।
तन्नैमित्तिकमुद्दिष्टं नित्यवत् तदपि प्रियं ॥
कामनां कामपि स्वीयां चित्ते कृत्वा प्रवर्तते ।
तत्काम्यमिति निद्दिष्टं कामनाफल साधकं ॥
तत्रापि प्रथमं वक्ष्ये कर्मनैमित्तिकं शिवे ।
नैमित्तिका श्रपि प्रायो विज्ञेयं नित्यवद्बुधैः ॥
यस्तु नैमिर्तिकीं पूजां निमित्तत्वैरूपस्थितां ।
कुरुते नित्य पूजा च दज्ञानपरिवृंहित ॥
तस्मात् पापतरैः को वा कालिका द्वेष भाजनं ।
११६ब्)
अंगहान्यापि नित्यस्य न हानि रूपकल्प्यते ।
नैमित्तिकस्याद्गहा निःफलहानिः प्रजायते ॥
तस्मात् सांगं प्रकर्तव्यं श्रास्त्रं दृष्ट्वा गुरुक्रमैः ।
अंगानिकानि विच्चास्याः पात्राधिक्यं शिवावलिः ॥
पंचायतेनरीतिश्च मन्त्रपार्थक्यमेव च ।
पूजा वलिः पशु वलिः पूजाया क्रममेव च ॥
धूपदीपादि संभारंः शक्तिपूजा जपोदशः ।
नित्य पूजासुसंत्येव यद्यप्येतेषु केचनः ॥
स्यान्नित्स नैमित्तिकयो भिर्न्नारीभिस्तथापि हि ।
सरद्वासन्तिकी पूजा तथा चैवोपरागिकी ॥
निमित्तत्वेनाभ्यूपेता तेन नैमित्तिकी मता ।
एतयोरणनुष्टानाज्जायतेन च नित्यता ॥
नाना तंत्रोदिताः सन्ति प्रधानंन्तत्र तन्मतां ।
११७अ)
एवं सर्वत्र बोद्धव्यं सर्वेश्वेवनित्तिषु ।
शुद्धा नैमित्तिका पूजा प्रोक्ता विंशति भेदिका ॥
पर्वानि च महाप्रेता व्यतीपातः स वैधृतः ।
मन्वादयो युगाद्याश्च वेदांगं देवता भवं ॥
पुष्पाञ्चर विवाराञ्च त्रिगुरूणां स्वकीयकं ।
जन्माहश्चापि दीक्षाया दिवसं नवरात्रके ॥
चन्द्रसूर्यो परागौ च सूतसंस्कार एव च ।
तीर्थयात्राभिगमनं तथा चागमनन्तरं ॥
पीठे पीठगमे पुण्य लाभे होमे व्रतोत्सवे ।
उत्पातानां दर्शनं च बन्धमोक्षो रिपून्नतिः ॥
रोगेष्वापत्सूदोषेषु दुःसंगे दुर्निमित्तके ।
ग्रहपीडाराजभयं शान्तिरत्युदयंत्तथा ॥
एवं नाना प्रकारेण निमित्तानीरितानि ते ।
११७ब्)
दमनारोपनं नाम पवित्रारोहणन्तथा ।
अन्तर्भवन्ति कृत्येषु तिथी नामे च पार्वति ॥
तिथि पर्वाणि कथ्यन्ते येषु नैमित्तिकार्चनं ।
अथ कुलवारादि निर्णयः ॥
कुलवाले कुलाष्टम्यां चतुर्दश्यां विशेषतः ।
योगिनी पूजनं तत्र प्रधानं कुलपूजनं ॥
रविश्चंद्रो गुरुः सौरिश्चत्वारस्त्व कुला मताः ।
भौमशुक्रौ कुलाख्यौ तु बुधवारः कुलाकुलः ॥
द्वितीया दशमी षष्ठी कुलाकुलमुदाहृतं ।
कुलानिसमधिच्छ्यानि तच्छेषान्य कुलानि तु ॥
अष्टमी नवमी चैव तथा चैव चतुर्दशी ।
उभयोः पक्षयोरेता पूर्णिमा दर्श एव च ॥
संक्रामाद्वादश तथा चत्वारस्तेष्वपीरिताः ।
११८अ)
अयने द्वे द्वे विषुवे षडशीति चतुष्टयं ॥
चतुष्कं विषुवत्याश्च नैते पूर्व समा प्रिये ।
श्चाद्येश्चराणां चत्वारो द्विभूपाणान्ततः परं ॥
ततः स्थिराणां तावन्तो येषां पुण्योदयः शुभः ।
व्यतीपातो वैधृती च तिथीनां क्षय एव च ॥
चतस्रोपि युगाद्यास्तामहापुण्यफलप्रदाः ।
शुक्ला तृतीयाराधी पातादृगूर्जनवम्यति ॥
भ्राद्री त्रयोदशी कृष्णा तापसा दर्श एव च ।
शुक्ला सप्तमी कृष्णा रविवारेण संयुता ॥
अष्टमी सौम्यसहिता दशमी गुरुणापि च ।
षष्ठी भार्गवसंयुक्ता शनिना च त्रयोदशी ॥
वैशाखी सप्तमी शुक्ला ज्येष्ठी या च चतुर्थ्यपि ।
ज्येष्ठस्य शुक्ला षष्ठी च दशमी गुरुनापि च ॥
११८ब्)
श्रावणी पञ्चमी कृष्णा शुक्लापंचम्यपि प्रिये ।
द्वितीया तिथिमारभ्य तिथि स्याद् यावदष्टमी ॥
शुक्लपक्षे तु भाद्रस्य तिथयः सप्तपुण्यदाः ।
सामान्येताष्टमीत्वेन पर्वत्वे प्रत्युपस्थितो ॥
दुर्गाष्टमी विशेषेण दुर्गाप्रीति प्रदा तिथिः ।
दुर्वाङ्कुरारोपणाख्यं मौलेया अत्र कुर्वते ॥
अरभ्येवाष्टमी कृष्णां यावत् स्याद् दशमीसिता ।
अष्टादशेमास्तिथयो देवी प्रीतिकराः स्मृताः ॥
तिस्रो विशेषतः पुण्याः सप्तमाद्यावरानने ।
सर्वै निवर्त्यते यासुशारदीयो महोत्सवः ॥
त्रयोदश्यादयस्तिप्रस्तिथयः कार्तिकस्य तु ।
कृष्णपक्षे वरारोहे स्युरनन्तफल प्रदाः ॥
११९अ)
फले त्रयोदशी नाम्नाऽघोराख्या चतुर्दशी ।
दर्शे तु सुखरात्र्याख्या अथवा दीपमालिका ॥
प्रतिप्रद्वाहुले या च सितातस्यां यजेच्छिवां ।
शुक्लाष्टमी तु गोष्ठाख्या सा भूरिमुकृत प्रदा ॥
युगाद्या नवमी प्रोक्ता तस्यां जागर्ति कालिका ।
अतस्तु पूजाविस्तारः कार्यास्तस्याम्विशेषतः ॥
अथ तिथिनिर्णयः ॥
तिथीनां निर्णयं वच्मि सुक्ष्मांतां न तु विस्तरात् ।
नैमिर्तिकीषु पूजासु तिथयो यानिरूपिताः ॥
ग्राह्यानिशीथ व्यापिन्यः पक्षयोरुभयोरपि ।
प्रशस्तमर्द्धरात्रं हि भगवत्यर्च्यने मुदा ॥
योगोनिशीथेन यदा तिथीनां नैव जायते ।
तदा विवेकः कर्तर्थो द्वयोरेव हि पक्षयोः ॥
११९ब्)
यासूदितो रविः शुक्ले तिथय विहितां ।
कृष्णया स्वस्तमायाति सामान्योयन्विधिर्मतः ॥
मुहुर्तमात्रादधिकाया तिथिः शुक्लयोक्षिकी ।
सा स्नान दान पूजादौ विहितत्वेन गृह्यते ॥
न्यूनामुहुर्त मात्राद्वा मुहुर्तेनमितापिता ।
तिथिः कालमतत्येन सा न ग्राह्या कदाचन ॥
यावती या तिथिस्तिष्टेत्तावत्यां तदुरीरिता ।
क्रियारत्य समाप्तव्या तत्तत्कर्मोपयोगिनी ॥
कृष्णप्येवं यदा सा तु तिथिः कालेन युज्यते ।
तदा तद्विहितं कर्म कार्यं रात्रौ दिनेपि वा ॥
निशीथ योगा भावे तु पक्षयोरुभयोरपि ।
पूजादिकं तु कर्तव्यां पूर्वाह्नेनापराह्नतः ॥
देवानामिह पूर्वाह्ने मध्याह्ने तु तृणां भवेत् ।
१२०अ)
अपराह्नः पितृणां स्याः देवं धर्मविनिर्णयः ।
तिथि द्वेध विचाराय मधुना वै विरुप्यते ॥
दितद्वयोपि चेल्लन्या पूर्वाह्न व्यापिनी तिथिः ।
पराविद्ध्ये पूर्वविद्धो तिथ्या नैवाद्यता क्वचित् ॥
चतुर्थी सहिता कार्या तृतीयांतद्वितीय या ।
चतुर्थी पूर्वविद्धै च कर्तर्व्यार्चन वासरे ॥
पंचम्यां सहितां कुर्वन सद्यो नश्रु सान्वयः ।
चतुर्थ्या सहिता कार्या सर्वदा कालिकार्चने ॥
सप्तम्या सहिता षष्ठी प्रसस्ता सर्वकर्मसु ।
षष्ठी विद्धो प्रकर्तव्या सप्तम्मन्मत्र वासरे ॥
नत्वाश्विने तु शारद्यां पूजायां जगदीश्वरिः ।
पक्षद्वयोप्यष्ठमी तु विधातव्या परान्विता ॥
१२०ब्)
अष्टम्या सहिता कार्या नवमी पुण्यदा तिथि ।
नवम्या दशमी विद्धा सर्वसौख्य करी मता ॥
नैकादशी दशा विद्धा कर्तव्या भूतिमिच्छता ।
नैकादशी द्वादशी च न द्वादश्यां त्रयोदसी ॥
चतुर्दशी प्रकर्तव्या त्रयोदश्या समन्विता ।
अमापरयुता कार्या चतुर्दश्या न योजिता ॥
इति देव्यर्चन विधौ तिथि कर्तव्यतेरिता ॥
अथ वीररात्र्यादि निर्णयः ॥
देव्युवाच ॥
देवेश श्रोतुमिच्छामि वीररात्र्यादि निर्णयं ।
वीररात्रि महारात्रिः काललात्रिस्तथैव च ॥
मोहरात्रिर्घोररात्रिः क्रोधरात्रिस्तथैव च ।
शिवरात्रि दिव्यरात्रि दारुणा च यथा क्रमात् ॥
श्रीभैरव उवाच ॥
कथ्यते परमेशानि शृणु सा वहितोद्भव ।
१२१अ)
चतुर्दशी संक्रमश्च कुलकुंकुलावासरः ।
अर्द्धरात्रौ यथायोगा वीररात्रिः प्रकीर्तिता ॥
शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै ।
महारात्रिर्महेशानि कालरात्रि शृणु प्रिये ॥
दीपोत्सव चतुर्दश्यां त्वमाया योग एव च ।
कालरात्रिर्महेशानि ताराकाली प्रियंकरी ॥
जन्माष्टमी महेशानि मोहरात्रिः प्रकीर्तिता ।
मासि मार्ग शिरे प्राप्ते कृष्णाष्टम्यां महेश्वरि ॥
महाकालः स्वरूपाय घोररात्रिः प्रकीर्तिताः ।
चैत्रमासि नवम्यां च शुक्लपक्षे च भूसुते ॥
क्रोधरात्रि महेशानि तारा रूपा भविष्यति ।

प्राप्ते फाल्गुणके मासि कृष्णैकादशिका तु या ॥
भृगुभौमयुता चेत् स्यादवलारात्रिरीरिता ।
१२१ब्)
ज्येष्ठीया दशमी शुक्ला दशयोगसमन्विता ॥
अमा भौमसमायुक्ता संक्रमेण समन्विता ।
कुल ऋक्षसमायुक्ता ग्रहणं यदि चेद्भवेत् ॥
तारा त्रिस्तुसंप्रोक्तं भाग्यादेव तु लभ्यते ।
फाल्गुणे कृष्णपक्षे तु त्यर्द्धरात्रौ भृगौ शिव ॥
शिवरात्रिस्तु संजाता सर्वसिद्धि प्रदायिनी ।
ज्येष्ठी या दशम्ये शुक्ला भृगुवासुरसंयुता ॥
दशयोगसमायुक्ता रात्रावेकादशी यदि ।
सा तिथिर्दिव्यरात्रिश्च कीर्तिता परमेश्वरि ॥
तृतीया माधवे शुक्ला कुलचालक्षसंयुता ।
दारूणा कीर्तिता देवि सर्वसिद्धिश्वरी परा ॥
अथ चान्द्रादि मासः परिग्राह्या शौचादौवसुरेश्वरि ।
राशिक्रमेण या मासौ विवाहादौ सहि स्मृतः ॥
१२२अ)
ऋणादान प्रयोगेन श्रावनश्याध्वनादिषु ।
शान्तिके पौष्टिके वापि नाक्षत्रो मास ईष्यते ॥
इन्द्राग्न्येराहुतिर्यत्र दीयते सुरवन्दिते ।
मासस्यादिः स विज्ञेयो व्रतारंभादि कर्मणि ॥
भोमाग्नीषो मयोर्यत्र मासमध्यक उच्यते ।
पितृणामाङ्क कर्म यदा निर्वहति प्रिये ॥
अन्तो मासस्य विज्ञेयः प्रतिमासमियं क्रिया ।
नैमिर्तिकार्चने कालाः प्रातर्मध्याह्नसंगवाः ॥
प्रदोषरात्री विघेशर विविक्तीशशक्तिजाः ।
विहितं कालमूलंघ्य या काचि क्रियते क्रिया ॥
तया किंचित् फलमपि जायते सुरवन्दिते ।
वित्तराशस्तथा यासौ भवतीत्याहुरागमाः ॥
१२२ब्)
तस्मात् काले प्रकर्तव्यं कर्मस्वर्गा फलार्थिभिः ।
यथाकालं यथाश्रद्धा यथाद्रव्यं यथोचितं ॥
यथावलं यथा देशं तथा पूजां समाचरेत् ।
नैमित्तिक महाकृत्यश्चः कर्तव्ये सुरेश्वरि ॥
एकवारं हविष्यान्नं भुंजीत विजितेन्द्रियः ।
मलीमशांशुभ्यासंक्षौर कर्मधरोषितां ॥
मूर्तिपीठादि संसृष्टिं तत् प्रासादे विलेपनं ।
पूजापात्रा हि संशुद्धिन्ततोद्द्रव्यैर्विशेषतः ॥
नैमित्तिक क्रियायां हि षडेतानि समाचरेत् ।
धूमोङ्गारे दन्तरक्ते सूतके च गलद्वणे ॥
पूजापूर्वं मैथुनं च स्त्रीद्विजा क्रोशने तथा ।
नैमित्तिकं न कुर्वीत कुर्वन्नैवाप्नुयात् फलं ॥
कौलाचाररतः सर्वान् योषितश्चा कुलाध्वगाः ।
१२३अ)
निमन्त्रयीत यत्नेन सर्वैषां प्रथमं गुरुं ॥
नैवेद्य धूपदीपानां कुर्याद् यत्नेन संभृतिं ।
विशेषतश्च पुष्पानां माल्यानां च वरानने ॥
रजन्यां दिवसे वापि विहितार्चन संभुतिः ।
कत नित्य क्रियोदर्भ पाणिः श्रुतिरन्यधीः ॥
अपनीय सुनादीन गन्धादीन् स्थापयेत् पुनः ।
पूर्ववत् सर्वपात्राणि प्रक्षाल्य च सुरेश्वरि ॥
मृद्वासने सुखासीनो यथा विभव कल्पिते ।
प्राचुर्यं वकुलानां च वैशाखे मासि कारयेत् ॥
नागकेशरपुष्पानां ज्येष्ठमासि समाचरेत् ।
भूरीष्टता विधातव्या वंधूकस्याश्विने पुनः ॥
अगस्त्य कुसुमानां हि भूरितामूर्ज आचरेत् ।
आधिक्य विश्वपत्राणां मार्गशीर्षे समाचरेत् ॥
पौषे दुर्वाङ्कुराणां हि संदोहोति फल प्रदः ।
१२३ब्)
कौन्दस्तोमौ मघमासे सर्वकल्याणदायकः ।
फाल्गुणे माधवी पुष्पं सर्वसिद्धि प्रदायकं ॥
चैत्रेऽशोकस्य कलिका कलिकार विनाशिनी ।
मालती यूथिका चैव दमनं कर्णिकारकं ॥
कुरुण्ठकं कुरुवकमम्लानं पातलान्तथा ।
नवमालिर्क पुष्पं * तथा चैवाति मुक्तिदं ॥
एकादशैतानि सदा कुसुमानि वरानने ।
माघस्य वाथ पौषस्य कशोर्केण युतो यदि ॥
व्यती पातश्रवण भयोषादर्द्धो वयो भवेत् ।
युगाद्या कोटिभिस्तुल्या विज्ञेया सा महातिथिः ॥
अन्तफल प्रदन्तत्र च वलिं दत्वा विधानतः ।
धनधान्य सुतान् प्राप्य देहान्ते मोक्षमाप्नुयात् ॥
माघ शुक्ला तृतीया च वरनाम्नाभिधीयते ।
१२४अ)
अत्रार्चिता कालिका हि कन्याभ्यो वरमृच्छला ॥
कारस्य कन्या च कुंभकारस्य कन्यथा ।
कन्याष्टकमिदं प्रोक्तं कुलाष्टमथा शृणु ॥
राजवेश्या गुप्तवेश्या देवदेश्या विलासिनी ।
नृत्यपात्री तीर्थवेश्या कुटिनीव्यभिचारिणी ॥
पंचलिंग हतावेश्या दशलिंगा भगेश्वरी ।
पञ्चविंशति लिंगा च लिंगं तुष्टाः प्रकीर्तिता ॥
पंचाशलिंगसंयुक्ता लिंगसिद्धाः प्रकीर्तिता ।
शतलिंगा भगानन्दा सहस्राभगसुन्दरी ॥
असंख्या लिंगसंयुक्ता भगब्रह्म परामता ।
कुलाष्टकमथेदानीं शृणु पार्वति तत्वतः ॥
मध्ये लिंगा महेशानि भगमाजा महोत्तमा ।
विश्वलिंगा सर्वयोनि सर्वस्मादपि चोत्तमा ।
१२४ब्)
कुलाकुलाष्टके देवि द्विविध परिकीर्तिते ।
राजवेश्यादिका युग्मं गोपयश्च यथादिकं ॥
मात्रा पूत्री तथा पौत्री स्वसारवैस्तुषातुया ।
कालिके केलि कुंची च भातृजा तथाष्टमी ॥
कुलाष्टकमिदं प्रोक्तं सर्वसिद्धिं प्रदायकं ।
तरुणीं सुन्दरीं रम्यां चंचलां कामलोलुपां ॥
गुरु भक्ता मन्त्रयुक्तां सर्वलक्षणसंयुतां ।
ईदृग्विधां समानीय प्रसून तुलिकोपरि ॥
कुचौ तु कलशौ प्रोक्तं सामान्यार्घ्यन्तु नाभिका ।
भगध्वजै विषैशाघ्यौ त्रिकोणं यन्त्रमीरितं ॥
गमागमा वृत्तिरुक्ता पुष्पप्रहसितं स्मृतं ।
आलायस्तु तपः प्रोक्तं न्ववलोकवरः स्मृतः ॥
क्रोधस्तु निग्रहः प्रोक्ते करग्राहो भयं भवेत् ।
१२५अ)
तस्याः पादप्रमारस्तु पृथिव्यास्तु प्रदक्षिणा ॥
चुंवनं स्तोत्र पाठोत्र कुचधारस्तु सत् क्रियाः ।
गलपादस्य निक्षेपः सिंहासनमितीरितं ॥
विपरीतं दोलिकाख्या पूजा प्रोक्ता महेश्वरि ।
विसर्जनं वीजपातो मुद्रात्वा लिंगनं भवेत् ॥
क्षौष्टसंचुंवनं देवि खेचरी योग ईरिताः ।
कपोलचुंवनं देवि गुटिका परिकीर्तिता ॥
ललाटे चुम्वनं देवि पादुकापरिकीर्तिता ।
नेत्रसंचुम्वनं देवि अंजनं परिकीर्तितं ॥
करसंचुंवनं देवि खड्गसिद्धिः प्रकीर्तिता ।
योनिसंचुवनं देवि मनोरथ मयी शतिः ॥
जिह्वा प्रदानं देवेशि कालवंचनमीरितं ।
१२५ब्)
रससंलेलिनं देवि ब्रह्मरूपं न संशयः ॥
आलोचने पृथिव्यास्तु देवता दर्शनं भवेत् ।
तत्संगिना सदाभाव्यं तामालोक्य जपेत् सदा ॥
कोटि ब्रह्माण्डदानादि एकतं परिकीर्तितं ।
तस्याश्वलोकनं देवि सर्वश्रेष्टतरं भवेत् ॥
तपः स्यात् कोटितीर्थेषु योगानामपि कोटयः ।
देवालयानामभ्यं कृतं येन निरंतरं ॥
तेनेदं प्राप्यते देवि दर्शनं विंदुरूपिणः ।
ब्रह्मणो दर्शनं देवि शब्दब्रह्म महत्तरं ॥
चंद्रामृतंराहु भीत्या तथा स्वर्गामृतं पियत् ।
राक्षसानां तु संभीत्या क्षोष्टे योनौ विराजिते ॥
चंद्रामृतं चाधरोष्ठे योनौ स्वर्गामृतं प्रिये ।
सदा तिष्ठति देवेशि ज्ञानास्सिध्यति नान्यथा ॥
अज्ञाराद्विषरूपं स्यान्नात्र कार्या विचारणा ।
१२६अ)
मुखे हालाकरे माला योनिशाला च चक्षुषि ।
हुदयेस्त्री करालातु दीपमाला गृहांगणे ॥
न करोति परं यस्तु स कथं मम पूजकः ।
संयोगो गृहेनं देवि महाकल्पांततोपि च ॥
सूर्यग्रहो यथा योगे विपरीते निशाकरे ।
तयायेदुच्यते वाक्यं तद् देव कारये प्रिये ॥
तदा योगे समालब्धे योगे यदाचन ।
पुरुषस्य न जातो हि तेन सः क्रीडते मुहुः ॥
ग्रस्तास्त स तु विज्ञेय सर्वश्चोत्तमोत्तमः ।
स्वयं योगे समालब्धे स्वस्य पूर्वं तु स च्युतिः ॥
तया कार्यं समाचर्यं तस्याः पातो न जायते ।
ग्रस्तोदयः स विज्ञेयाः सर्वसिद्धि प्रदायकः ॥
१२६ब्)
इदं रहस्यं यत्प्रोक्तं दिवायोगं शृणु प्रिये ।
स्वस्थ क्रमेणैव तस्य तस्यास्नार्द्धो दयोद्भ मतः ॥
महोदयः स्वयोगे स्याद्वार्तादशहरः स्मृतः ।
तद्वार्ताक्षप्यरूपाख्यास्तृतीयः परीकीर्तितः ॥
इति संक्षेपतः प्रोक्तं विशेषं शृणु पार्वति ।
मास द्वादसकं देवि क्रमेण परिकीर्तितं ॥
शतयोगे महेशानि महासाम्राज्यमीरितं ।
दिव्यादीनामिति प्रोक्तं दशूना शृणु चापरं ॥
राज्यं शृणु महेशानि सूर्यचन्द्र क्रमाद्विचा ।

दर्शवा पूर्णिमायाम्वा राहुसूर्यनिशा करौ ॥
संच्छ्रादयति देवेशि ब्रह्मणो वरदानतः ।
भूमिच्छायानुगश्चन्द्रः चन्द्रशोर्क कदाचन ॥
एकरासावेकभेचायदातोभ्यां निलस्वयं ।
१२७अ)
सति योगे सप्तमे वाराकादर्शावसानतः ।
ततो परापगो भवति कोटि पुण्यफलप्रदः ॥
सूर्य भेदत्रयं देवि चन्द्रे भेद त्रयं तथा ।
सूर्योपरागोग्रत्तास्तस्तथाग्रस्तोदयः स्मृतः ॥
चंद्रेपि भेद त्रितयं शाक्तोवपि त्रिधा त्रिधा ।
सार्द्ध द्वयं गुरोत्तरं ग्रस्तत्वं परिकीर्तिते ॥
स्नाने जपे तथा होमे दाने श्राद्धोंविकार्चने ।
समहान् पुण्यकालो हि विज्ञातव्यः सुरेश्वरि ॥
अहोरात्रोपितः पूर्वं ग्रहणे चन्द्रसूर्ययोः ।
जपित्वाभ्यर्च्य वा देवी दानदत्वा तथैव च ॥
कृत्वा श्रार्द्धं विधानेन सर्वपापै प्रमुच्यते ।
यद्यत् करोतितते काले तस्या दक्षयं हि तत् ॥
धनदोप्यत्र पुण्येन मोदने ब्रह्मणा सह ।
भास्करस्य च चंद्रस्य ग्रहणे प्रत्यूपस्थिते ॥
१२७ब्)
आपः कौप्यापि देवेशि गंगाजलसमाः स्मृताः ।
तस्याच्छतगुणं ज्ञेयं सारसं सलिलं शुचि ॥
तस्मात् सहसस्रगुणितं नादेयं परिकीर्तितं ।
तस्मात् कोटि गुणं ज्ञेयं गांगेयं पावनं महत् ॥
स्नानात् सहस्रगुणितो होमो ज्ञेयो विचक्षणैः ।
होमाच्छतगुणं श्राद्धं श्राद्धाच्छतगुणा जपः ॥
जपात् सहस्रगुणितं दानमाहुर्मणीषिणः ।
दानात्कोटिगुणा पूजा भगवत्या विशिष्यते ॥
तत्र नैमिर्तिकी पूजा कार्यातित्या कदापि न ।
पूर्वेद्युरुपवासे तु पूजाकोटि गुणा भवेत् ॥
उपोषणस्या सामर्थ्ये पूजा लक्षगुणा मतां ।
चंद्राक्कौ तमसाग्रस्तौ दृद्धैवार्चांसमारभेत् ॥
अदृष्टे तु ग्रहे देवि सर्वविफलमीरितं ।
१२८अ)
न तत्र प्रत्ययात् स्वस्य प्रत्ययो देवकर्मणि ।
स्नाने दाने जपे होमे श्राद्धेर्चार्यां प्रतिग्रहं ॥
दर्शना नन्तरं दृणांमधिकारो न चान्यथा ।
अन्तर्दृष्टे तु ग्रहे देवि मध्यग्रासे महेश्वरि ॥
मेघाच्छन्ने मुक्तिहीने स्नानदानादिकं चरेत् ।
जपमात्रं विधातव्यं मध्यग्रासे तु सूर्यके ॥
ग्रस्तोदयं समारभ्य ग्रस्तास्ते परमेश्वरि ।
शास्त्रं दृष्ट्वा समालोक्य स्नानदानादिकं चरेत् ॥
कदालग्नं कदामुक्ति सर्वज्ञात्वा प्रयत्नतः ।
स्नानदानादिकं कार्यं नान्यथा शांकरं वच ॥
स्वराशितो वरारोहे त्रिषष्ठ्यैकादशे ग्रहे ।
सदोषे पश्यतोराहुमिति तत्रापदोषता ॥
यतः फलानां वाहुल्यं दोषाणमल्पना तथा ।
१२८ब्)
जायते तः प्रकर्तव्यमवश्यं राहु दर्शनं ।
नाडीभाष्टमचन्द्रादि दोषाणामपनुत्तये ॥
किंचिद् दानं प्रकर्तव्यं तत् तद् विघ्नोपशान्तये ।
उद्धृत्ताये मया प्रोक्ताः काली मन्त्राः शुचिस्तिते ॥
तेषामेकोप्यकवारं जप्तश्वेद्राहु दर्शने ।
पापानि नाशयेत्येवं कोटि जन्मकृतान्यपि ॥
षोडशार्णं सप्तदशीमेकवारं य उच्चरेत् ।
सप्तद्वीपावती पृथ्वी दानस्य फलमश्रुते ॥
तस्माद् विशेषतः कार्यो जपः पूजा समन्वितः ।
पुरश्चरण मन्त्रैव गौणं कुर्वि केचन ॥
कर्मैकं कार्यमेतस्मान्तते पूजाधिकारिणः ।
आवश्यकतयातैस्तु प्रकर्तव्यमुपोषणं ॥
पूजाकर्तनमुख्यन्तत्कृते तु फलभूरिता ।
यामत्रयं न भोक्तव्यं चन्द्र * हणपूर्वतः ॥
१२९अ)
सूर्यग्रहणतः पूर्वं प्रहराणां चतुष्टयं ।
राहुनिर्मुक्तमरूणं तथैव रजनी करं ॥
दृष्ट्वैव भोजनं कुर्यादन्यथा नारकी भवेत् ।
ग्रस्तास्तौ च दुभौस्मातामथवाचनिमीलितै ॥
दिवारात्रमुपोषैव ततोऽग्नीयाद्यथा क्रमं ।
अत्र केचिदपीच्छंति भवशास्त्र विमोहिताः ॥
उपवासं प्रकुर्वीत ग्रस्तास्ते परमेश्वरि ।
शास्त्र दर्शस्तु संदर्शः प्रत्यक्षे पूर्णरूपता ॥
दिव्यानामपि देवेशि अंगुल द्वयतो भवेत् ।
उपवासं त्रिरात्रं तु शैवानीं परिकीर्तितं ॥
विष्णुगाणपसौराणां द्विरात्रं परिकीर्तितं ।
शाक्तानां पूर्वरात्रं तु पुरश्चर्या युतो भवेत् ॥
पुरश्चण हीनानां पूर्वमेततन्मया तव ।
१२९ब्)
चांद्रे स्वायंभुवे देवि द्विरात्रं परिकीर्तितं ।
नोपवासं प्रकुर्वीत जीवपुत्रो हि कचिहिते ॥
नैमित्तिकं द्वयं यत्र तत्राल्पं काम्यवाचकं ।
अविधाय नरोयस्तु विमुक्तस्नानमीश्वरि ॥
भुक्ते स केवलं मद्यं भुक्ते विश्व स केवलं ।
श्राद्धकृद्धोम कृद्वासि दानकृज्जपकृच्च वा ॥
निवर्तित प्रात्यषिकः कलाकांक्षी स्थितो भवेत् ।
ग्रहं दृष्ट्वाशु च स्नात्वा मर्तत्कम समाचरेत् ॥
आशौचं जन्ममरणं जनितं चेत् प्रजायते ।
न काम्याश्रार्द्ध दानार्चाः केवलं स्नानमाचरेत् ॥
सूतकद्वय युक्तोपि यो मूर्खो वा स्नाति न ग्रहे ।
सद्यः समृत्युमाप्नोति स्नायी पापान्न विंदति ॥
जपेदान तथा होमे श्राद्ध चैव सुरार्चने ।
१३०अ)
असौ च दोषः सर्वत्र न तु स्नाने सुरेश्वरि ।
मासयोर्भाद्र नभसोः सरितः स्युरजस्वराः ॥
चन्द्रसूर्यग्रहे प्राप्ते रजो दोषो न विद्यते ।
स्नात्वा पुण्येदके तीर्थे शुचिः पूर्वेमपोषित ॥
स्पर्शाद्विमुक्ति पर्यन्तं जपेन्मन्त्रमनन्यधी ।
अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् ॥
अथ वामहतीं पूजां कुर्याद् दानं तथैव च ।
मूलमन्त्रस्य सिद्ध्यर्थं गुरू यत्नेन तोषयेत् ॥
एवं च मन्त्रसिद्धिः स्यात देवता च प्रसीदति ।
तत् तिर्थे विशेषस्यात तथैव च फलेष्वपि ॥
स्नानादौ तेन कर्तव्यं तीर्थाभिगमनं प्रिये ।
गंगा फलसमान्युस्युः सर्वाण्यमसिभूतले ॥
तथापि तत् तत् तिथानां विशेषः कोपि कथ्यते ।
१३०ब्)
दशजन्म कृतं पापं गंगास्नानेन नश्यति ।
त्रिंशज्जन्म कृतं पापं गंगायमुनासंगमे ॥
शतजन्मकृतं पापं गंगासागरसंगमे ।
जन्मनां तु सहस्रेण यत्पापं समुपार्जितं ॥
कृत्वा सूर्यग्रहे स्नानं तन्मुंरति महोदधौ ।
जन्मनांति युते नैव यत्किंचिन्नृभिरर्जितं ॥
वाराणस्यां ग्रहे नाम्नात्तदाश्चैव व्यपोहति ।
नरैख्यापं कृतं यद्यज्जन्मनां कोटिकोटिभिः ॥
तत्सर्वं सन्निहत्यायां राहुग्रस्ते निशाचरे ।
नाशयेत् स्नानमात्रेण सत्यं सत्यं सुरेश्वरि ॥
सूर्यग्रहः सूर्यवारे सोमे सोमग्रहस्तथा ।
चूडामणिरिति ख्यातस्तदा योगो महाफलः ॥
सर्वेभ्यो देवि दानभ्यो द्वेदानेति महत्फले ।
भूमेरथसुवर्णस्य वर्णाद्भूमिः प्रशस्यते ॥
१३१अ)
पूजायामपि देवेशि परिवारगणार्चनात् ।
षोडशद्वादशाष्टांब्दा कुलपूजा प्रसस्यते ॥
ततः कोटिगुणं ज्ञेयं निश्चितं बिन्दु पूजनं ।
चन्द्रसूर्यग्रहे वापि यन्त्रस्थापनमाचरेत् ॥
यंत्रसंस्थापनं कर्मं चन्द्रसूर्य ग्रहे शिवे ।
तद्यन्त्रस्था देवता तु सद्ग्रस्रावरदायिनी ॥
चन्द्रसूर्य ग्रहे देवि यद्यत्कर्म करोति च ।
तत्तदक्षयमायाति विद्याराज्ञा प्रसादतः ॥
चन्द्रसूर्योपरागे तु मेरुसाधनमाचरेत् ।
दुष्टमन्त्रोपि देवेशि क्रमेण सिध्यति ध्रुवं ॥
तारापिंड ग्रहे प्राप्ते तथा सूर्य ग्रहेपि च ।
जपादिकं विधातव्यं शक्ति पूजां ततश्चरेत् ॥
सर्वसिद्धिश्वरो भूयान् नात्रकार्या विचारणा ।
ऋतु स्नातां स्त्रियं ज्ञात्वा सूर्यचन्द्रग्रहान्तरे ॥
१३१ब्)
पतिपार्वणमासाद्य पिंडं तस्मै प्रदापयेत् ।
वंध्या पुत्र प्रदो योगः सर्वसिद्धि प्रदायकः ॥
सूर्योपरागे देवेशि स्नात्वा पूजां समाचरेत् ।
सांगां सावरणां पूज्य सवल्यन्तं महेश्वरि ॥
कुमारी पूजनं कृत्वा सर्वसिद्धीश्वरो भवेत् ।
चन्द्रर्प्य ग्रहे देवि शतसंख्यां कुमारिकां ॥
पूज्यसिद्धिश्वरो भूयान् नात्रकार्या विचारणा ।
सूर्यग्रहे महेशानि काम्यहोमं चरन् शिवः ॥
तर्पणं कुरुते यस्तु तस्य श्रीसर्वतो मुखी ।
मार्जनं तु प्रकर्तव्यं सर्वदुःख प्रशान्तये ॥
सूर्यग्रहे समायाते परधिर्यदि वै भवेत् ।
परभृद्वाभिधो योगः सर्वसाम्राज्यदायकः ॥

तारापिंडे परागे तु गुरुं संपूज्य देवतां ।
१३२अ)
संतोष्य तद्वरो ग्राह्यः सर्वसिद्धीश्वरो भवेत् ॥
तारापिंडाग्रहे प्रोक्ते शवमानीयसाधकः ।
शवासने जपेद् देवि ग्रासादुद्ग्रासतः शिवे ॥
सर्वसिद्धिश्वरो भूयात् तद्वन्ते शिवतां व्रजेत् ।
सूर्योपरागे देवेशि शुद्धांतः करणो यदि ॥
स्नात्वा यथोक्त विधिना संपूज्य जगदंविकां ।
शिरः पुष्पः कर्तयित्वा देवतायै निवेदयेत् ॥
देवता पश्यति शिवे वरदान पराध्रुवं ।
सूर्योपरागे संप्राप्ते स्नात्वा प्रोक्तेन वर्त्मनां ॥
शक्तिमानीय तद्ग्रात्रे न्यासजालं प्रविन्यसेत् ।
मद्यैमांसैस्तथा मत्स्यै भगलिंगामृतैरपि ॥
देवतां तत्र संपूज्य सांगांसावणां शिवे ।
तत्र जिह्वां प्रदत्वा तु जपात् त्रैकाल्यच्चिद्भवेत् ॥
१३२ब्)
अतीता नागतज्ञाने वर्तमानं च पश्यति ।
सूर्यग्रहे महेशानि वेश्यामानीय सादरं ॥
शक्तिं लिंगोपरिस्थाप्य जपेद् यत्नेन पार्वति ।
त्रैलोक्य विजयी भूत्वा नात्रकार्याविचारणा ॥
अनुकल्प प्रदातृणां द्विजानां श्राद्धमेव च ।
कौलानामपि सर्वेषां विमुक्तानां महेश्वरि ॥
पात्राणां स्वग्रहणं सस्तं ग्रहं मध्ये कदाचन ।
इति संक्षेपतः प्रोक्तः ग्रहणस्य विनिर्णयः ॥
इति श्रीकौलरहस्य सर्वागमे एकविंशपटलः

22

अथ यन्त्रभेद ॥
जावज्जीवं सुवर्णे स्याद् रौप्य द्वाविंशति प्रिये ।
ताम्रे द्वादशकं वर्षं तदर्द्धं भूर्ज पत्रके ॥
ताम्रे द्वादश वर्षाणि धारणेन तु पूजने ।
ताम्रार्घ्ये ताम्र यन्त्रे च देवता सर्वदा स्थिता ॥
संस्कृत्य पूजयेद् देवि स्फटिकादौ तु सर्वदा ।
१३३अ)
ताम्रे लक्षगुणं प्रोक्तं रौप्य कोटिगुणं भवेत् ।
सौवर्णेऽनन्त फलकं मण्यादौ किं वदामि ते ॥
अथ यन्त्रा ध्यानमाह ॥
देव्युवाच ॥
पूर्वसंसूचितं नाथ यन्त्रध्यानं त्वया प्रभो ।
कथं ध्येयं किं विशिष्टं किं ध्येयाध्ययमेव हि ॥
वृत्तं मूर्ति स्वरूपं वा मेखलावस्वरूपकं ।
किं वारेखा मयं ध्यायं किं वा वै भूस्वरूपकं ॥
विश्वरूपं स्मरेद्वापि तत्सर्वमपि कथ्यतां ।
ईश्वर उवाच ॥
ध्यानन्तु त्रिविधं प्रोक्तं यन्त्रे मात्रे महेश्वरि ।
आदौ विराद्विश्वरूपंद्विश्वचन्द्र स्वरूपिणं ॥
यन्त्रं संभावयेद् देवि सर्वत्र कथितं स्विदं ।
श्रीचक्रादौ महादेवि विरद्रूपे तु साम्यता ॥
द्वितीयं च कथं ध्यायं तन्मे वद महेश्वरि ।
१३३ब्)
रजः पुंजनिभारेखा सर्वचैतन्य रूपिणी ।
सर्वदर्पणवद्भाव्यं स्वप्रकाशस्वरूपिणं ॥
चैतन्यं भाववयत्सर्वं विंद्वादिं भूपुरात्तकं ।
मूलतेजः प्रकाशेन अभिन्नं भावयेत् प्रिये ॥
तृतीयं शृणु देवेशि मेरु रूपं समातनं ।
उत्तरोत्तरमुच्चं स्यात् विद्वारभ्यविभावयेत् ॥
द्विंद्वधो भावयेद् देवि एकैकोत्तरत शिवे ।
न चोत्तरक्रमेणैव भावयेद् वा महेश्वरि ॥
काली विद्या विधौ देवि नवरत्न स्वरूपिणीं ।
रेखां संभावयेद् देवि मेरु प्रस्तार वच्च वा ॥
श्रीचक्रं वीजसंयुक्तं निःफलं परमेश्वरि ।
बीजहीनन्तु यच्चक्रं निर्बीजं सिद्धिदं न हि ॥
सृष्टि चक्रं भवेदादौ स्थिति चक्रं द्वितीयकं ।
लय चक्रं तृतीयस्या त्रिधा चक्रं विभेदितं ॥
१३४अ)
बीजसंलेखरं देवि त्रिधात्र गदितं मया ।
बीजं विना तु निर्जीवं शववत् परिकीर्तितं ॥
बीजयुक्तं भवेद् यन्त्रं निःशप्त सिद्धिदायकं ।
बीजाभावे मातृकार्णत् संलिखे बिन्दु भूषितान् ॥
यन्त्र मध्ये तु संलिख्य तद्यन्त्रं पूजये च्छिवे ।
दलाकारन्तु यद् यन्त्रं तद्यन्त्रं सिद्धिदायकं ॥
दलाकारं कलौ पूज्यनान्यथा सिद्धिदं शिवे ।
मन्त्रचैतन्यकं देवि यंत्र चैतन्यकं देवि स्वस्मिन् त्रितय भावना ॥
न तत्र ध्यानरूपादि तेजो यन्त्रं विभावना ।
सप्रपंचे तु संसारे दूराचारा वृत शिवे ॥
भावेनैव तु संप्रोक्ता भावना सिद्धिदा मता ।
अथ कौलिका देविशेषमाह ॥
देव्युवाच ॥
देवेश श्रोतुमिच्छामि रहस्याति रहस्यकं ।
वामिनां चैव कौरानां यन्त्रसंस्कार कर्मा च ॥
१३४ब्)
शिव उवाच ॥
अथोच्यते महायन्त्र संस्कारः सर्वसिद्धिदः ।
शुभेह्निस्नानमाचर्य शुभे लग्ने शुभक्षणे ॥
कृत नित्य कृतो मन्त्री प्राङ्मुखो वाप्युदङ्मुखः ।
पूर्वोक्त धातु द्रव्यैश्च सुन्दरं सुमनोहरं ॥
सुरेखं शुभदं यन्त्रं लेखयित्वा विधानतः ।
प्रतिष्ठां च ततः कुर्याद् यथाशास्त्र प्रमानतः ॥
शुभे लग्ने पुण्यकाले शैलादि विहित स्थले ।
मंत्री कल्पानुसारे तु पूर्वद्युरधिवासयेत् ॥
सायं संकल्प विधिवत् घतस्थापनः पूर्वकं ।
गणेशादीन् समभ्यर्च दिक्पालां परिपूजयेत् ॥
मद्यं मांसं तथा मत्स्यं मुद्रामैथुनमेव च ।
यन्त्रसंस्कार कर्मादौ द्रव्यमेतन्मयेरितं ॥
यथाशक्त्यापचाराद्यै पूजनं मूल देवतां ।
१३५अ)
सुगंधतैलगन्धाद्यै द्रव्यैस्तमधिवासयेत् ॥
चन्द्रेत्यादि च मन्त्रेण जपघोषपुरस्मरं ।
इत्यादिधिवासितं कृत्वा संयतो विजितेन्द्रियः ॥
प्रातर्नित्यं विधायादौ ततो यागस्थले विशेत् ।
पतकाध्वजसंकीर्णं दिव्यमण्डलमण्डिते ॥
वितानचामरच्छत्र पुष्पमाला विराजिते ।
मंगलांकुर पत्राद्यै कलशैपरिभूषिते ॥
मण्डलं सर्वतो भद्रे रेखा साहस्रसंयुतं ।
सामान्य भद्रं वा देवि वेद्याश्चोपरितो लिखेत् ॥
अथवा दक्षिणे वामे वक्ष्ये वारुणमण्डलं ।
चतुरस्रं चतुःषष्ठिकोष्ठं विद्यां निवेशयेत् ॥
अन्त्यो यान्ति महत्यास्तु दिक्षु कोष्ठानिमार्जयेत् ।
मध्येस्थ चतुरक्षीणि तद्वाराख्यानि पूर्ववत् ॥
१३५ब्)
पीतश्यामश्वेतहरिद्रजोभिः परिपूजयेत् ।
कोणकोष्ठं विहायैक पंचाशत् पादसंगिता ॥
पीठस्य पाण्डुरारक्त पीतकृष्णः प्रपूजयेत् ।
आग्ने पीतः कोणकोष्ठान्या रक्तहरिमासितैः ॥
श्वेतवर्णेन चत्वारि मध्ये वृत्तारिकारयेत् ।
पूजयेदथ तस्यार्धं वितानं वन्धयेद् यथा ॥
षट्त्रिंश शदशव्या सार्द्ध वृत्तमाद्यं तु पीततः ।
तत्पीतं कर्णिकाकारं सितरेखा वृतं ततः ॥
द्वितीयं द्विगुणव्यासभूपकेशरसंयुतां ।
पीतरक्तश्वेतवर्णमूलमध्यग्रकेशरं ॥
द्विसप्तत्यंशिकाश्चेतां तस्याग्रे कुरु रेखिकां ।
तृतीयं तु तृतीयांशं तुल्याव्यासं तु वर्तुलं ॥
श्वेतमष्टदलं तत्र रक्ताग्रं तद्दलांतले ।
१३६अ)
श्वेतं वहिः कृष्णवर्णा प्रागवद् रेखांसितां कुरु ।
तद्वहिर्वृत्तसंलग्नान् षोडशारन् प्रकल्पयेत् ॥
श्यामपीतारुणश्चैतैस्तदन्तस्तु यवाकृती ।
सितपीतारुणश्यामहरिताः पंचमेखिकाः ॥
कार्याः सुरूचिरां पंच स्यान्तरेवं प्रपूरयेत् ।
वज्रशक्ति दण्डखड्गपाशध्वजगदां लिखेत् ॥
पूर्वतस्तु तथैशान्यं शूलचक्रां व्रजान्वितं ।
वामदक्षिणयोरेत मण्डलं वारुणा द्वयं ॥
प्राङ्मुखो वाग्यतो भूत्वा संकल्प्याभीष्टसिद्धये ।
पंचशुद्धिं समाचर्य हुर्वन्तक्षत संयुतं ॥
संस्थाप्यमण्डले तत्र यजेदाधारशक्तितः ।
पीठमन्त्रं समास्तीर्य स्थापये कलशं बुधः ॥
दीक्षाक्रमोक्त विधिनाभिषेक कलसं तथा ।
पंचगव्यं ततः कुर्याच्छिवमन्त्रविवोधितं ॥
१३६ब्)
तेन सुस्नापयेन्मन्त्री यन्त्रं च प्रणवं जपन् ।
पंचामृतेन हविषा दघ्ना? च पयसा क्रमात् ॥
तत उद्धृत्तनं कृत्वा जलेन स्नापयेदपि ।
पंचगव्यं समानीय तत्र यन्त्रं समाहितः ॥
जपन् क्षिपेत् सुवर्णादौ वेदसूत्रं पुरस्सरं ।
तत उद्धृत्यस्वर्णादि पात्रे संस्थाप्य मन्त्रवित् ॥
पंचामृतेन तीर्थेन शीतलेन जलेन च ।
सहस्रशिर्षामन्त्रेण मूलमन्त्रपुरस्सरं ॥
सुस्नाप्य पावनेन कर्पूरां गुरुनीरतः ।
सर्वोषधि जलैर्गंध जलैर्यत्नेन मार्जनं ॥
ततः सुद्धदुकुलेन जलमुत्सार्यसाधकः ।
परिधायह कुलेहे स्वर्णनिर्मितदोलया ॥
मण्डले तं सन्यानीय नृत्यगीतैजयस्वनैः ।
१३७अ)
कुंकुमाद्यैर्विलिप्यांथ पूज्यसर्वोपचारकैः ।
पीठपूजां ततः कुर्यात् स्वस्वकल्पोक्तमामतः ॥
कुशैः कुलीनैर्वा देवि शतमष्टोत्तरं जपेत् ।
पूर्वोक्तां यन्त्र गायत्रीं जप्त्वा देवत्वमाप्नुयात् ॥
अथेष्ट देवतां ध्यात्वा मुद्रया वाहयेत् ततः ।
जीव न्यासं ततः कुर्यात् पूजयेद् दिष्ट दैवता ॥
नृत्यगीतैश्ववादित्रैः पंचघोष पुरःसरं ।
ततो जपेदिष्टमन्त्रमष्टोत्तर सहस्रकं ॥
कुण्डे वा स्थण्डिले मन्त्री हविषा संस्कृतेले ।
यथाविधिविधानेन श्रुचाहोमं समाचरेत् ॥
ग्रासप्रमानं च चरुं मूले नाकृक्षमन्त्रवित् ।
घृतश्रावं ततो दत्वा जुहुयादग्निसंमुखे ॥
पंचविंशति तत्वैश्च तत्वेन तर्पणं चरेत् ।
१३७ब्)
इन्द्रादि दिक्पतित्यश्च दद्यान् पूर्वोदितं वलि ।
तत आवृत्ति देवेभ्यो घृतेनाहुति माचरेत् ॥
तदंते देवि मन्त्रेण हुनेदष्टोत्तरं शतं ।
मातृका युक्त मन्त्रे तु जपं जय जयस्वनैः ॥
गत्वा होमसमांपेतु दत्वा पूर्णाहुतिं ततः ।
इष्टसिद्ध्यै वलि दत्वा प्रणमेच्चक्रमुत्तमं ॥
तोषयेत् स्वर्णवस्त्राद्यैः प्रदद्याद् दक्षिणामपि ।
मकारैः पंचभीद्देवि वीरपूजा समाचरेत् ॥
शक्तिं कुमारिकां वालां पूजयेत् पंचपंचकं ।
कुर्याद् दशाष्टकं वापि कुलद्रव्यैः समस्तकैः ॥

त्रैलोक्य नाथो भवति मन्त्रपूजन योगतः ।
भुतशुध्यादि कृत्वा च कल्पोक्त न्यासमाचरेत् ॥
निशायां शक्तिपूजां च दूतीयागश्च कौलिका ।
१३८अ)
मकारैः पंचभियुक्तै चर्वारेयुमिनोर्चनं ॥
एवन्दिनत्रयं कृत्वा ततो नित्य क्रमं भवेत् ।
सृष्टिस्थिति लयेत्वेन सुन्दरी यन्त्र पूजनं ॥
सृष्टिसंहारमार्गेण कालिकायन्त्र पूजनं ।
सृष्टिसंहारमार्गेण ताराच्छिन्ना च पीजभा ॥
एवं देवी प्रतिष्ठायां क्रम सान्निध्यकारकः ।
स्त्रीशूद्रानां वामिनां च कौलिकानामयं विधिः ॥
विधि युक्तं प्रकर्तव्यं विधिहीनं न कारयेत् ।
विधिहीनास्य विघ्नानि यानिते कथयाम्यहं ॥
कलहो द्वेगद्वंद्वश्च व्याधिशूलं ज्वलं तथा ।
राजोपद्रवहानिश्च द्रव्यनाशं रुजं तथा ॥
चिह्लाकाकाश्च काकुल्यो शिवाफेत्कार दारुणा ।
कपोताश्च गृहे तस्य आरुहन्ति विशन्ति च ॥
१३८ब्)
विघ्नं कुर्वन्ति वै तस्य विधानं गुप्तसंस्थिता ।
च्छिद्रन्ति तस्य योगिन्यो नाना विघ्नैः प्रबाध्यते ॥
सर्पवृश्चिकुलूताश्च कीतोश्चैव तु दारुणाः ।
दशक्ति च महा उग्रा प्रेरितास्ते मरीचिभिः ॥
वृषैश्चाश्चैर्गजेन्द्रश्च मेघैर्चक्र समनिस्तथा ।
उपद्रवंति दुष्टाश्च ज्वराभूता दयस्तथा ॥
लूतागद्दसापंस्मारा अभिभवन्ति नान्यथा ।
अथ मालां प्रवक्ष्यामि द्विविधा सा स्थिर चला ॥
स्थिरा तु स्थिर चित्तानां चंचला चलते तसां ।
तत् साधनं त्रिधा प्रोक्तं प्रथमावर्णमालिका ॥
द्वितीया जपमाला स्यातृतीयांगुलि मालिका ॥
अथः वर्णमालामाह ॥
अकारादिक्षकारान्तैर्विन्दुमन्मातृकाक्षरैः ॥
१३९अ)
अनुलोम विलोमस्थैः कॢप्तयावर्णमालिका ।
एकैकं वर्णमुच्चार्य वर्णेनान्तरितं मनुं ॥
सुधीरे वलकारान्तं तत आन्तं समानयेत् ।
अकारम्मेरु रूपन्तु लंघयेन्न कदाचन ॥
सकृदेवोच्चरेत् क्षन्तु तदन्ते नोच्चरेन्मनुं ।
मेरु हीना च या माला मेरु लंघ्या च या भवेत् ॥
अशुद्धा तु भवेदत्र सामाला निःफला भवेत् ।
चित्रीणी विसतं त्वाभा ब्रह्मणादी गता तु या ॥
तथा संग्रथिता ध्येया सर्वकामफलप्रदा ।
अष्टोत्तरशते जप्ते त्वादौ क्लीवं समुच्चरेत् ॥
ऋ ऋ ऌ ॡ वर्णे चतुष्टत्य क्लीवे प्रचक्षते ।
वर्गाणामष्टकं वापि कामभेद क्रमेन तु ॥
अकचटत पयसा इत्येवं चाष्टवर्गकं ।
किं वामृतत्रैत्यजैः ॥
१३९ब्)
प्रवालैःम्मौक्तिकैद्देवि पश्चिमाम्नाय दैवतै ।
उत्तराम्नाय देवानां महाशंखाख्यमालिका ॥
उर्द्धाम्नाय स्वयंभूस्था पाताले रत्नसंभवा ।
प्रवालैः सूर्यमन्त्रै च मौक्तिकै शक्तिमात्रके ॥
शिवशक्ति मयी माला रुद्राक्षस्फटिकै युता ।
रुद्राक्ष स्वर्णसंयुक्ता माला विधि शिवात्मिका ॥
सर्वमन्त्रेषु रुद्राक्षा शक्तिमन्त्रे दिवा न हि ।
तथा च ॥
शिवशक्तिवियोगत्वान्नरुद्राक्षैर्दिवा जपः ।
विजोग पूजिता काली सहिसान प्रसीदती ॥
रुद्राक्षैः शक्ति मन्त्रं तु दिवायो जपति प्रिये ।
स दुर्गति मवाप्नोति जपन्तस्य निरर्थकः ॥
इति शापः पुरादत्तेस्तत्कथा कथ्यते शृणु ।
कदाचित् समये देवि दक्षयज्ञोपरायणः ॥
fओलिओ १४० नोत् fओउन्द्
१४१अ)
सकलां ऋषयो देवा यक्षविद्याधरोरगाः ।
पुत्रीजामातृ संबंधाद् गृहेनाकारिता च ता ॥
महादेवः सत्यवती तेन नाकारिता व्रुतौ ।
सती च भर्तृनिको उक्ता तत्र प्रगम्यते ॥
शिव उवाच ॥
ममैवकारनं तेन न कृतं प्राणवल्लभे ।
तव लज्जा कथं नास्ति त्वया तत्र प्रगम्यते ॥
प्रियो देवः प्रियः प्राण प्रिय एव हि भूषणं ।
मां विहाय कथं देवि त्वया तत्र प्रगम्यते ॥
पातिव्रत्तामिदं क्वास्ति प्रतियोगी विहीनतः ।
तथापि तव वांच्छा च्छेत श्रीघ्रं गन्तु कृपां कुरु ॥
भर्तुराज्ञां गृहीत्वा च प्रस्थितं यागमण्डपेत् ।
तस्मिं हे नक्षणान्नीतं ब्रह्मणो यागमंण्डपं ॥
तेन नादरिता कन्या दुःखिता दीनमानसा ।
१४१ब्)
अधोमुखी स्थिता तत्र पार्वती रूपमावहन् ।
सर्वदेवा *? त्र सन्ति मद्भर्ताना च दृश्यत ॥
महदुःखं मम कृते मेतावृद्धृदय स्थितं ।
एतस्मिनन्तरे देवि दक्ष प्रजापतिः स्वयं ॥
शिवनिन्दापरो भूत्वा पुनर्निन्दार्थमुद्यतः ।
अनाचारितरूपो भूत् विष्णुना वात्रितोपि च ॥
महुर्न्निन्दापरो भूत्वा भृंगीवृषभवाहनः ।
श्मशानवासी मांसाशी नग्नोधारतराविराट् ॥
कपाली च त्रिशूली च मुण्डमाला विभूषितः ।
भस्मोद्धूलित सर्वागो व्याघ्रजिन समास्थितः ॥
लम्पटोलोलपाश्चेति वहुनिन्दापरो भवेत् ।
दुःखिता निन्दया त्वाहि मण्डपाद्वहिरा गता ॥
दूरे नेत्रान्तरे गत्वा वह्नि कुण्डं विधाय च ।
१४२अ)
सतीत्यक्त्वा तत्र देहं वह्नि रूपत्वतां गता ।
शिवोहं क्रोधरूपेण ज्वालाभास्वरमण्डलः ॥
मत्क्रोधेन महेशानि भस्मीभूतं जगत्रयं ।
मर्ज्वालया सत्पन्नो वीरभद्रो महाविभुः ॥
कोटिकालान्त दहनो दुःसहः सर्वजस्तुषु ।
दक्षप्रजापतेर्यज्ञ ध्वंसनार्थसमुद्यतः ॥
त्रिशूल हस्त्री क्रूरश्च यज्ञध्वंस परायणः ।
शवरूपां शिवां देवि गृहीत्वा स्कन्ध गोचरां ॥
रोदनं चक्र तुस्तस्मात् पतिताश्चाश्रुवि विन्दवः ।
तत्र श्रुविन्दवाजाता महारुद्राक्षवृक्षकाः ॥
स्थावरत्व मनुप्रावर्त्यानुग्रहकारणात् ।
फलंति सर्वकानेत्रा मोरङ्गीयः प्रकीर्तितः ॥
मध्य नेत्रात् समुत्पन्नो मालान्ती परिकीर्तितः ।
१४२ब्)
धुनाश्रीकोष्ट दश च पार्वतीय मनुर्भवेत् ।
एकविंशति वक्त्रांतं मलाकी परिकीर्तितः ॥
एवं वक्त्राणि जानानि रुद्ररोदनसंभवात् ।
स्फटवक्त्रे पार्वतीये प्रतिष्ठा स्फुटमेव च ॥
धनाशीकेशरी कान्ति रेखायी जायते प्रभो ।
मलाकीये वह्निनाशस्तत्कालं जलमध्यतः ॥
जलोपरि समायाति समलाकी प्रकीर्तितः ।
तेन यत् क्रियते कर्म तदनन्तभरं भवेत् ॥
अन्य मन्त्रे सिद्धिरूपा शक्तिमन्त्रे दिवा न हि ।
इति कारणतो देवि रात्रावेव जपः स्मृतः ॥
रात्रिः संयोगरूपा स्यात् विद्यात्वं च महेश्वरि ।
वियोगरूपो देशो मन्त्रशास्त्रे प्रकीर्तितः ॥
महामालामाह ॥
१४३अ)
अतः परं पृथक् रूपो मालासंस्कार माचरेत् ।
मालारात्रि विधं वक्ष्ये शृणु सा वहिता भव ॥
सुदिने शुभ ऋक्तादि दिने शुद्ध दिने शिवे ।
महामालां समादाय वीरपात्रं समानयेत् ॥
वीरयन्त्रं समासाद्य वीरमालां च शोधयेत् ।
देवीं सावरणां पूज्य सवल्यान्तं महेश्वरि ॥
दशविशत् पंचविंशद् दीपां दत्वा वलिं चरेत् ।
एवं मालांशभां कृत्वा महासंस्कारमाचरेत् ॥
शुभे मुहुर्तसंलग्ने मालां वा पंचगव्यके ।
निमन्त्रो पंचगव्यं च गोमुत्रं गोमयं पुनः ॥
दधिसर्पिः क्रमे नैव पंचगव्यं प्रकीर्तितं ।
तदुर्तार्य शुद्धजलैः शंक्षाल्यसंविदाशवैः ॥
मूलमन्त्रेन संक्षाल्य तद् द्रव्ये स्थापयेद् दिनं ।
१४३ब्)
तृतिये दिवस देवि यक्षकर्दमकैर्यजेत् ।
सर्वगन्धैरष्टगन्धैरे निमाद्यष्टकैर्यजेत् ॥
अष्टनीलाश्वतारायास्ताराष्टा रोचिनी मनौ ।
चतुर्थ दिवसे देवि त्र्यशान् स्थाप्य यजेत् क्रमात् ॥
रहस्य माला मन्त्रस्यास्य ऋषिः परमेश्वरः ।
श्रीमहातारिणी देवि उष्णिक् च्छन्द प्रकीर्तितः ॥
क्रीं बीजं स्त्रीं तथा शक्ति हूं मन्त्र कीलकं स्मृतं ।
महामहालादन्तमाला शोधने विनियोजने ॥
त्रिशक्त्या तु षव्यंगानि ध्यानं मन्त्र वदाचरेत् ।
ध्यात्वा संकल्पयत्नेन मन्त्रे नानेन पार्वति ॥
प्रणवं च तथा लज्जा श्रीलज्जा कामकुर्चकः ।
फट् स्वाहेति मन्त्रेण च सकमालिकीक्षिपेत् ॥
१४४अ)
तत्र वाहनमन्त्राद्यैः कालिकालसारदां ।
साधुधां परिवारीश्च पूजयेत् परमेश्वरि ॥
मूलमावृत्यतात्तीयं संस्मरन् धेनु मुद्रया ।
अमृती कृत्य कवचे नावगुंठ्य महेश्वरि ॥
महामुद्रा समाचाद्य देवी रूपी विभावयेत् ।

ध्यायेत् तत्र क्षिपेद् बिन्दुं तत्र मन्त्रात् शृणु प्रियेत् ॥
प्रणवं कुर्चयुग्म युग्मं च स्वाहा प्रणव कूर्चकै ।
वह्निजाया च तारास्त्रे वह्निजाया विषं तथा ॥
तारां च वह्निजायां च तारलज्जा सकुच्चकैः ।
वह्निजाया ततस्तारं लज्जाकटुवह्निजायया ॥
द्वि त्रि सृखलिकाच्य समस्तमन्त्र मालया ।
शतधानेन मन्त्रेण बिन्दुप्रक्षेपमाचरेत् ॥
वह्निजावस्तुनिकाकेशरं च चन्द्रा गुरु प्रधूपकै ।
१४४ब्)
पुष्पमालां समुत्तार्य विद्यया चाभि मन्त्रयेत् ।
प्रणवं च तथा माया श्रीमहावज्रिणाति च ॥
ततो महाघोरन प्राकर्कणेति पदं वदेत् ।
महास्थि मण्डले प्रोच्य प्रविशति पदं तथा ॥
सर्वसिद्धिं प्रयेच्छेति प्रणवं कूर्चबीजकं ।
मायाबीजं वह्निजाया महा कपालिनीति च ॥
ततो महाघोररूपे स्वाहा प्रणवमायया ।
माया कूर्चस्त्रि स्वाहान्ता विद्योक्ता चाभि मन्त्रणे ॥
दूर्वाक्षतैः समभ्यर्च्य कामेनो दीपनं चरेत् ।
उपचारैः समभ्यर्च्य मातृकां मूलमन्त्रतः ॥
उद्दीपनं ततः कृत्वा हंकारेण तु वेष्टयेत् ।
वलिं दद्यादने नैव तारं माया द्वयं वदेत् ॥
वासुदेवं बिन्दुयुतं कूर्चं न पुटितं वदेत् ।
१४५अ)
वासुदेवं बिन्दुयुतं कूर्चं न पुटितं वदेत् ।
कूर्चतारे फट् चर्चं प्रणवद्वयमुर्च्चरेत् ॥
कूर्चबीजं वह्निजाया प्रणवं कूर्च बीजकैः ।
महायोगिनि शब्दान्ते ततस्त्रिभुवनमारिणि ॥
महासंखास्थिताला च मध्ये निवास कूर्चति ।
कुरुशब्दं सर्वसिद्धिं देहि युकूर्चसुरापदं ॥
मांसो प्रहारेण गृह्नेति युकु गृह्नापय द्वयं ।
कुल्लुका फट् ततः स्वाहा मन्त्रेणानेन पार्वति ॥
यथोचितेन द्रव्येन वलिं दत्वा विधानतः ।
पंचद्रव्यैः पंचदिनं मालास्थाप्य चमे चमे ॥
मालारात्रि विधिं कुर्यात् तेन सिद्ध्यति मालिका ।
निभृते स्थापयेन् मालां रहस्य मालिका विधि ॥
इति श्रीकौलरहस्य सर्वागमे द्वाविंशपटलः

23

१४५ब्)
अथ स्त्रीसूद्रार्थं मालासंस्कारमाह ॥
शूद्रार्थं चास्त्रियामर्थे मालासंस्कार उच्यते ।
गणेश सूर्यविष्णीश दुर्गाः संपूज्य भक्तितः ॥
मालायामथतां मालां ह्वौं बीजे नाभि मंत्रितां ।
अष्टोत्तरं शतं पंच गव्येतां स्थापयेत्र्यहं ॥
चतुर्थे तु समुद्धृत्य क्षालयेदस्त्र मन्त्रतः ।
हृन्मन्त्रेण ग्रंथयित्वा स्थंडिले तां निधापयेत् ॥
ततस्तु तोल्यतां मालां स्थापयेद्वेमपात्रके ।
पंचामृतेन संस्नाप्य शीतलेन जलेन च ॥
चन्दनेन सुगंधेन कस्तुरी कुंकुमादिभिः ।
अभिषेकं ततः कुर्या हसौं मन्त्रेण साधकः ॥
नवग्रहात् पूजयित्वा दिक्पालाश्चांपि पूजयेत् ।
तिलेनामृत युक्तेन शक्तितो होमयेत् ततः ॥
स्वर्णन्तु दक्षिणां दद्याद् गुरुवे मनिसंख्याकान् ।
१४६अ)
तन्मन्त्र जापिनो विप्रान् भोजयेद् वाथ वैदिकान् ॥
अभावे स्वर्णपात्रस्य ग्रह्येमस्वत्थ पत्रकं ।
मालासंस्कार इत्युक्तो जपः स्यात् सिद्धिदायकः ॥
ग्रथन प्रकालमन्त्र ॥
शक्तिमन्त्रेण संग्रंथ्य शिवमन्त्रं जपेच्छिवे ।
शिवमन्त्रेण संगथ्य शक्तिमन्त्रं जपे च्छिवे ॥
शिवशक्त्योरभेदेन मालाकार्यकरी परा ।
ये नैव ग्रंथ्यते देवि तमेव प्रजपेन्मनुं ॥
इत्याद्युक्तं त्वया पूर्वं किं त्वया विस्मृतं प्रभो ।
इदानीमन्यथा प्रोक्तं संशयोस्ति मम प्रभो ॥
मातृकातारभिन्नानि शिवशक्ति विहीनके ।
मातृकायामिदं नोक्तंमन्यमालाविधौ मतं ॥
अन्यप्रकारग्रथने ये नैव ग्रथनं चरेत् ।
तमेव प्रजपेन् मन्त्रं जपेच्छिवे ॥
१४६ब्)
मातृकादावपि शिवे *? लाक्रन्तु रूपिणी ।
ग्रथितासूत्र ॥
ग्रथितापट्टसूत्रेण देव्याः प्रीत्यै तु मालिका ।
कार्पास वैष्णवी माला पद्मसूत्रेरथापि वा ॥
ऊर्णभिर्वावल्कल्लैर्वा सौत्रिकार्याससूत्रजाः ।
कार्पासंधर्मकर्मादि साधनं सर्वसिद्धिदं ॥
प्रायशः सर्वदेवानां सूत्रोत्पर्ति विधिं शृणु ।
सूत्रं द्विजेन्द्र पुन्यस्त्री निर्मितं ग्रन्थि वर्जितं ॥
या जीववत्सकानारी सुन्दरी पतिवल्लभा ।
तया कर्तितसूत्रं च कुमारी कर्तितं च वा ॥
श्वेतरक्त सुवर्णाभ कृष्णवर्णा द्विजा दिनः ।
सर्वेषामेव वर्णानां रक्तं सर्वेप्सित प्रदं ॥
त्रिगुणं त्रिगुणीकृत्य ग्राह्यं प्रक्षाल्यजत्ततः ।
मेरु सूत्रेण पट्टेन त्रसरेण विनिर्मिता ॥
१४७अ)
निर्मिता स्वर्णरजतैः स्वर्णेनापि शुभा मता ।
हारिद्रं सर्वथा सूत्रं ग्रामकार्पाससंभवं ॥
चैत्रकार्पासजं चाथ त्यजेद् ग्रथन कर्मणि ।
गुरुणा ग्रथिता श्रेष्ठा स्वयं कॢप्ता तपतोऽवरा ॥
शक्त्या च ग्रथिता श्रेष्ठा न शूद्रादिभिरीश्वरि ।
एतेषु ब्राह्मणः श्रेष्टो जपमालाकृते भृशं ॥
अलाभे तु द्विजातीनामपि वा स्वजातयः ।
कलौ तु दुर्लभा विप्रा यथाविप्रा स्वधर्मगाः ॥
अथ स्याः शोधनं वक्ष्ये समासात् परमेश्वरि ।
कुलमार्गानुसारेण स्मृत्युक्त विधिनापि वा ॥
कृतनित्य क्रिया शुद्धे उक्ते व्यक्तेष्वतन्द्रित ।
उपवासं हविष्यं वा तथैक भक्षमेव वा ॥
विधाय पट्टकार्पासः शनैः सूत्रं विनिर्ममेत् ।
१४७ब्)
उपवास दिने देवि तानि सर्वाणि पूजयेत् ।
द्विगुणां त्रिगुणां वापि तच्च त्रिगुणमाचरेत् ॥
चन्दनाक्षतधूपाद्यैः कुसुमैर्वलिदीपकैः ।
कर्तव्यानि समासानि न स्थूलानि कृशानि च ॥
प्रातस्तत्सूत्रमादाय कामना कार्य भेदतः ।
श्वेतं नीलं तथा पीतं रक्तवर्ण च कारयेत् ॥
अथ पवित्रारोहनं ॥
श्रीदेव्युवाच ॥
कुलजानां महेशानि पवित्रां रोहणं कथं ।
कस्मिन् काले कथं कार्यां किमर्थं वद मे प्रभो ॥
श्रीभैरव उवाच ॥
पुरादेवासुरैर्देवि क्षीरोदध्सुमत्थितः ।
तत्र नेत्रे महाभागे कश्यपस्य सुतो वली ॥
मन्थाने योजिते भद्रे विषनिद्रीविमूर्च्छिदः ।
न शक्नोति तलस्यान्ते वर्षासुवसितुंन्तदा ॥
आराधितस्तुते नाहं पवित्रेण महान्मना ।
१४८अ)
द्रव्यवर्षसहस्रन्तु वायुभक्षो महावलः ।
तुष्टोहं तेन देवेशि किं कर्तव्यं पुरोदितं ॥
ततोसौ दण्डवद् भूमौ पपातमभ्यदाग्रमः ।
प्रावृत्कालेन शक्नोमि तलान्ते वसितुं हरः ॥
ततः सोपि मया देवि कराभ्यां गृह्यभूतलात् ।
शिरसा धारितो देवि जटाजूटे वरानने ॥
ततः सर्वैस्तु देवैश्च शिरसाधारितः शुचिः ।
पुनः पवित्र नागाय वरो दन्ता मया शिवे ॥
पवित्र रोपणं यस्तु क्रियते न फलं तव ।
दशकोट्यास्तु पूजायास्तेषामेव पवित्रकः ॥
तस्मात् सर्वेषु देवेषु पवित्रारोपणं क्रमात् ।
प्रतिपत् पौर्णमास्या तु यस्य या तिथिरुच्यते ॥
द्वादश्यां वैष्णवे कार्यं शुक्ले कृष्णथवा हरेः ।
१४८ब्)
व्यतीपातेऽयने चैव चन्द्रसूर्य ग्रहे शिव ।
विषुवे वृद्धिकाले च गुरोरागमने तथा ॥
नित्यं पवित्रमुद्दिष्टं प्रावृत्काले स्ववश्यकं ।
कुर्यान् मिथुन संक्रान्ते तुल्वासंक्रमणावधि ॥
आषाढ उत्तमो मासः श्रावणे मध्यमो भवेत् ।
हीनो भाद्रपदः पक्षः श्वेतः सन्मध्यमोसितः ॥
पंचमी चाष्टमी चैव नवमी दशमी तिथौ ।
द्वादश्यां च चतुर्दश्यां पौर्णमास्यामथापि वा ॥
कालो ग्रीष्मः शरद्वर्षा एवमुख्यतमः प्रिये ।
केचिद्वसन्तमिच्छन्ति कालं माध्यमिकं वुधाः ॥
नैव हेमन्तशिशिरौ प्रशस्तौतौ कदाचन ।
एकं विज्ञाय देवेशि कृतादिषु यथाक्रमं ॥
सौवर्णं राजतं ताम्रं कलौ कार्पासजं शुभं ।
कौणेय पट्टकंराज्ञां वनस्थानां तु कल्कलं ॥
१४९अ)
पद्मजातं सौगतानां शूद्राणां क्षौमपिष्यते ।
वटुनादर्भसंजातं वैश्यानां तुशाशाद्भवं ॥
मुंजजातं व्रतस्थानामाविकं समरैक्षणां ।
कार्पासिकं पद्मजं च सर्वेषां सस्तमीश्वरि ॥
अम्नाय भेदाद्भिद्यन्ते सूत्रवर्णः सुरेश्वरि ।
पूर्वार्द्धयोस्मितं सूत्रं रक्तसूत्रं तथोत्तरे ॥
पश्चिमेप्यथ पीतं हि अथोदक्षिणयोर्मतं ।
निलेनाक्तं भवेत् सूत्रं षडाम्नायेषु कर्हिचित् ॥
आम्नायेप्यथ सर्वषु प्रशस्तं सितमेव वा ।
अथ दमनारोपणं ॥
दमनारोपनाख्यैकापवित्रारोपणी परा ।
प्रतिसम्वत्सरश्वैते योन कुर्वीत साधकाः ॥
तस्य वर्ष कृता पूजा व्यर्थाभावेति भाविनि ।
कृतामपि विलुप्यम्नि भूतप्रेतादयो गणाः ॥
१४९ब्)
प्रतिसवत्सरं तस्मात् कुर्याद् यत्नेन साधकः ।
दमनारोपणं कर्म पवित्रारोपणन्तथा ॥
दमनेन च यो देवं वर्षमध्येन पूजयेत् ।
तस्य वर्ष कृतं पूजा फलं गृह्नाति कामरात् ॥
अथा स्यात्पर्तिबीजमाह ॥
पार्वत्युवाच ॥
एकविज्ञेप्नुमिच्छामि प्राणनाथ महेश्वरि ।
अस्थाय परमं योगं योगिन्द्रेण त्वया प्रभा ॥
आवांयुयुक्षु धर्मदतोदाग्धानयन वह्निना ।
किमर्थं परिणीताहमथभोगं समुज्जता ॥
आवयोः किं सुखं तस्मिन् मृतेरति विवर्द्धने ।
यद्यसित्वं मयासार्द्धं चिकीर्षुकेलि मुत्तमां ॥
संजीव यदा कामं प्रीयते मम धूर्जत ।
श्रुत्वेत्थं गिरिजा वाक्यं रतिलीलासुखावहं ॥
स्मिदं विधाय प्रोवाच मानयत् प्रेयसो भवः ।
१५०अ)
श्रीमहादेव उवाच ॥
ईदृशी यदि ते श्रद्धा कामसंजीविने प्रिये ।
न दास्य सिरसिश्चापि ते विचेमिरीन्द्रजे ॥
एषमं जीवयाम्येनं प्रीयते तव पार्वति ।
ख्यातिं प्रख्यापयिष्यामि तवानेन च कर्मणा ॥
विधास्यामि तथा चान्यं व्यवस्थां भुवन त्रये ।
अघोत्तरा फल्गुणीभं तिथिश्चापि त्रयोदशी ॥
शुक्लः पक्षश्चैत्र मासो योगो वृद्धिस्तथैव च ।
पूजामृतमयेप्यनं मुदेतवममापि च ॥
पुष्पधन्वेति नामास्य पुष्पैरेवास्यपि ग्रहं ।
संकल्प्यारचयिष्यामि पश्यन्त्यास्तव पार्वति ॥
इत्युक्त्वा ज्ञाप्यगणपाना लेप्य कुसुमानि च ।
कामसंजीवयामास तत्तदङ्ग प्रकल्प्यसः ॥
सर्वं शरीरं दमनैर्वदनं कमलेन च ।
१५०ब्)
नासीचम्पक पुष्पैण दृशो कुवलयेन च ।
मल्लिकाभिः कपोलौ द्वौ यूथिभिरलकं तथा ॥

द्वौ कर्णो करवीरैश्च पाटलाभिर्हमुद्वयं ।
माधवीभिर्जत्रुणा द्वेशिरीषै गुणुयायुगं ॥
नासापुटे द्वेवकुलैः कर्णिकारैर्गलस्तथा ।
चूतांकुरैर्वाहु युगं केशपाशः कुरुण्ठकैः ॥
काञ्चनारैरशयुगं कुन्दैः कुक्षियुगं तथा ।
वक्षःस्थलमशोकैश्च जठरं केतकीदकैः ॥
पार्श्व हृयं जातिभिश्च वक्षणं किंशुकैरपि ।
तवर्गोरूरुयुगं ध्वजं प्येजवया तथा ॥
पारिजातैर्मरुवकैः कदम्बैर्वन्धजीवकैः ।
अंगपादानि सर्वाणि प्रत्येक कुसुमै भवेत् ॥
चकार कामदेवस्य समग्रन्तु कलेवरं ।
दमनैः कल्पया मास शरांश्चापि शरोसनं ॥
१५१अ)
वसन्तं काकिलां भृंगां मलयानिलमेव च ।
रतिञ्च वामदिग्भागे प्रीतिं दक्षिणतस्तथा ॥
प्रकल्प भगवानीशो मृतसुञ्जीवनी मनुं ।
गृणन् सञ्जीवया मास स्वशक्त्या प्रमथाधिपः ॥
स जीवितः समुत्थायऽवसहाय समन्वितः ।
उमामहेश्वरौ भक्त्या नमामनु विदण्डवत् ॥
विज्ञापया मास तथा प्राप्ते देहः स्मरोहरं ।
किं कर्तव्यं मया देवे तदनुज्ञा तु मर्हसि ॥
उवाच तमथेशानो भक्ति प्रणत कन्धरं ।
त्रिजगन् मोहयन् नित्यं पौष्पेण धनुषा स्मर ॥
विचरेत् स्वच्छेयै ताभिः शक्तिभिः परिवारितैः ।
मित्री भूत सहायैश्च तथाऽमीभिरेषि ध्रुवं ॥
मोहयन् युवती यूनः शरैः पञ्चविधौः सदा ।
सदामत्तः कलेवरं लब्धं त्वया देव्याः प्रसादतः ॥
१५१ब्)
इयं तिथिररंगाष्या तवनाम्ना भविष्यति ।
त्वमस्यां येऽर्चयिष्यन्ति गन्धपुष्पादि विस्तरैः ॥
नैवेद्यधूपदीपाद्यैर्गीतवाद्यादिनत्तनैः ।
अश्लीलवचनाक्षेपैर्गीतवाद्यादिनर्मादकद्रव्यभोजनैः ॥
योनि लिंगादि श * * * * * हास्यकारकैः ।
तत् तदाकार वचनैर्महात्सव समान्वतैः ॥
लंवाराणिप्सितां दद्यास्तेषां मद्वचनात् स्मर ।
तत्परेऽहनिमत्पूजा विस्तार्यामकत्र ध्वज ॥
इत्युक्त्वा संविसर्प्यामुंसवसन्तरति हरेः ।
उमामुवाच पार्श्वस्थां विहसन्मानयंश्वतां ॥
देवित्वद्वाक्यमात्रेण मयासंजीवितः स्मरः ।
तवापि नाम भुवनख्यापयिष्यामि सुन्दरि ॥
कामदेवशरीराख्यैर्दमनैरधिवासितैः ।
१५२अ)
पङ्करोपितमूलैश्च त्वामर्चिष्यन्ति ये नराः ।
तेषां त्वयि कृता पूजा वार्षिकी सफला भवेत् ॥
दमनारोपनं कर्म न कृतं यैः प्रमादतः ।
शुभानि नाशयित्वैषा मण्डभानि प्रदीस्यति ॥
त्वदीयाश्च गणाः सर्वे हरिष्यभ्योब्दिकार्चनं ।
यथाते शारदीयार्चा नित्याक्षेम प्रदायिनी ॥
दमनारोपनं * द सुधा भवतु भूतले ।
दमरोपनं कर्म ततः प्रभृति सुन्दरि ॥
दमनारोपनं कर्म ततः प्रभृति सुन्दरि ।
स्थितमावश्यक तया कर्तव्ये त्वेन चा प्रिये ॥
अथ दशमहाविद्यायाः षडम्नायं निर्णय माह ॥
भुवनेशी महालक्ष्मीः सर्वाम्नाय प्रगोचरा ।
त्रिपुरा त्रिपुटा वाला विशालाक्षेन्न पूर्णिका ॥
१५२ब्)
दक्षवक्त्रेण देवेशि मयाद्यापि प्रजाप्यते ।
वगला चैव मातंगी सिद्धलक्ष्मीररुधती ॥
आम्नायाः पश्चिमाख्या तु तद्ववक्त्रेण प्रजप्यते ।
ताराच्छिन्नापिशाची च धूम्रा चोत्तरगोचरा ॥
कालिका भेद सहिता उर्ध्वम्नाय प्रगोचरा ।
उपविद्याश्च पाताले विद्याम्नायः प्रकीर्तितः ॥
अथ दशविद्यासूत्र ॥
काली तारा महाविद्या षोडशी भुवनेश्वरि ।
भैरवी च्छिन्नमस्ता च विद्याधूमावती तथा ॥
वगला सिद्धि विद्या च मातंगी कमलाम्विके ।
एतादश महाविद्या सिद्धिविद्या प्रकीर्तिता ॥
अथ दशविद्या पुरश्चरणमाह ॥
दीक्षां प्राप्य पुरश्चर्या षण्मासात् परतो यदि ।
भ्रष्टतां याति पापात्मा अब्दलक्षं च रौरवं ॥
१५३अ)
दीक्षां प्राप्य पुरश्चर्यां अकृत्वा मृयते यदि ।
पच्यत रौरवे घोरे यावचन्द्रार्क मेदिनी ॥
पुरश्चरणकं देवि त्रयोदश प्रकारकं ।
आत्मवित्तानुसारेण कृत्वा श्रद्धा समन्वितः ॥
गुरुं संतोष्य यत्नेन प्रयोगं कारयेद् बुधः ।
पुरश्चरणकं कृत्वा अष्टोत्तरशतं दिने ॥
अनन्तरं च प्रयो नागा कृयते सदुरात्मवान् ।
भक्षन्ति तस्य मांसानि इन्द्राक्षी प्रमुखा गणां ॥
डाकिन्याद्या महाक्रोधा तर्जयन्ति मुहुर्मुहुः ।
मृते नरके पच्यन्ति कुम्भि पाकेऽति दारुणे ॥
प्रयोगेषु च कार्येषु दीक्षासु च विधानतः ।
पुरश्चरणके देवि अन्तरं नैव कारयेत् ॥
दीक्षा पुरश्चरणकं प्रयोगेस्ति विधामतः ।
यथोक्तं क्रियमाणस्य मन्त्रसिद्धिर्न संशयः ॥
१५३ब्)
पार्वत्युवाच ॥
पुरश्चरणशब्दस्य ब्रुह्यर्थ च विधिं ततः ।
वैदिकाद्याः सर्वा मन्त्रा न सिद्ध्यन् निचयं विना ॥
श्री-ईश्वर उवाच ॥
धर्मार्थकाम मोक्षाणां साधको मन्त्र उच्यते ।
तत्सिद्धये पुरोयच चर्यते तत् प्रकीर्तितं ॥
पुरश्चरण कर्माख्यं वेदादौ शावरान्तके ।
मन्त्रे यन्त्रे तथा वश्यं तत् प्रकारान् व्रवीम्यहं ॥
जपहोमस्तर्पगं च मार्जनं विप्र भोजनं ।
पंचांग कर्म रूपं तदाहुः केचन तत्र तु ॥
चतुरंगास्तथा त्र्यंगाद्व्यंगा एकागिनांपि च ।
मन्त्रास्तिष्ठन्ति वेदेषु तथा तन्त्रे पिशाचरेत् ॥
केचित् षडंगा मन्त्रास्पस्तदंगानां जपादिति ।
अर्घमर्षशसूर्यार्घ जलपान प्रणामकैः ॥
देवार्चया पंचभिश्च तैरेवं स्युर्दशांगकाः ।
दूतीयागात्तथोच्चोन्नि कर्मतश्चक्र पूजनात् ॥
१५४अ)
ध्वजलिंगसमायोग जपाच्च वलिदानतः ।
महावलि प्रदानाच्च भवंत्येका दशांगतः ॥
षोडशांगा कौलिकानां वामकानां द्विकेरितं ।
अन्यर्यश्मरि सेवातोष्टा दशांगास्वघोरिणां ॥
सर्वपापक्षयं कुर्याद् अन्यथा सिद्धिवन्ध कृत् ।
यावत् पापं तस्य नाशं कृत्वा कुर्यात् पुरस्कृतिं ॥
यथा प्रोक्तेन मार्गेण तस्य सिद्धिरहुरतः ।
सर्वपापक्षयस्तत्र भवेद् वैदिक वर्त्मना ॥
कल्पोक्तैवकृतं संख्या त्रेतायां द्विगुणां भवेत् ।
द्वापरे त्रिगुणा प्रोक्ता कलौसंख्या चतुर्गुण ॥
अथासितायाः पुरश्चरणमाह ॥
दिवालक्षं शुचि भुत्वा हविष्याशी जपेद् बुधः ।
ततस्तस्य दशांशेन होमयद्व्रविषा प्रिये ॥
१५४ब्)
तर्पये तीर्थतोयेन पयसा सर्पिषापि वा ।
मधुनावासिमामिश्र तोयन परमेश्वरिं ॥
देवीं चाभिषिंचर्तोयंस्तर्पणस्य दशांशतः ।
तर्दशांशैहविद्रव्यैर्भोजयेद्भक्तितः प्रिये ॥
कालि मन्त्र विदो विप्रान् दक्षिणां गुरुवददेत् ।
पाशवं कथितं कल्पं शृणु चैवंः ततः प्रिये ॥
रात्रौ मांससर्वदेवीं पूजयित्वा विधानतः ।
ततोणग्नंस्त्रियं नग्नो रमक्लेद युतोपि वा ॥
जप लक्षं ततो देवि होमय ज्वलितेऽनल ।
योनिकुण्डे स्थिते सर्पि मांसद्युयुतं तथा ॥
दशांशं तर्पयेन्मद्यै मांसमिश्रैसुसाधकः ।
तर्पणस्य दशांशेन अभिषिंच्य जगन्मयीं ॥
दशांशं भोजयेत् साधु साधकं कालिका प्रियं ।
१५५अ)
मद्यं मासं च मत्स्यं च तर्पणं च प्रदापयेत् ।
ततस्तु तोषये भक्त्या गुरुं स्वर्णादिभिः प्रिये ॥
एतत् कत्वद्वयाद् देवि मन्त्रः सिद्ध्यति वै ध्रुवं ।
द्विजातीनां च सर्वेषा दिवाविधिरिहोच्यते ॥
शूद्राणां च तथा प्रोक्तं रात्रो विष्टं महाफलं ।
अथ तारायाः ॥
नक्तभोजी हविष्याशि जपल्लक्षे चतुष्टयं ।
रहस्य मालामादाय जपेद्वा रक्षमेव चः ॥
लक्षमात्रं जपेन्मन्त्रं दशांमसितोत्पलैः ।
आद्याक्तैर्जुहुयान्मन्त्री तद्दशांशेन तर्पयेत् ः ॥
काण्डागुरुद्रवोपतैमिमर्लर्गन्धवारिभिः ।
तर्पयेच्च परां देवीं तत्प्रकारमिहोच्यते ॥
जलेचावाद्ध्य विधिवत् पाद्यं रुपचारकैः ।
सन्तर्पविधिवद्देवी परिवारान् सकृत् ॥
देवीवुर्द्ध्यास्वमान्मानं संपूज्याधकात्तमः ।
१५५ब्)
तालिणीसिञ्चयामीति जलं मूद्ध्नि निविक्षिपे ॥
कुम्भाख्य मुद्रा देवि नमोस्तेनाभिसेवलं ॥
अथ निशाक्रममाह ॥
एवं कुर्वन्नदन्भक्ष्ये मनकं दधिमध्यपि ।
मधुमांसं च ताम्बूलं जपेल्लक्षं चतुष्टयं ॥
दशांणं जुहुयाद्रक्त पद्मैः क्षीराज्य लोलितैः ।

शवमुण्डं पूरयित्वा जपस्थाने जपं चरेत् ॥
नारी पश्य स्मृशन् गच्छन् महानिशि वलिं ददेत् ।
न कार्यः सुभ्रुवां द्वेषां यत्नतः परिपूजयेत् ॥
जपेन कालनियमो न स्थितौ सर्वदा जपेत् ॥
अथ च्छिन्नायाः ॥
आदौ पूजा प्रकर्तव्या जपेल्लक्ष चतुष्टयं ।
पातालैर्विल्वजैर्वापि जुक्षुयात् कुसुमैः फलैः ॥
तर्पणादिं ततः कुर्यादेवं सिद्धो भवेन् मनुः ।
१५६अ)
अथ षोडशी विद्यायाः ॥
तत्र स्थित्वा जपेल्लक्षं साक्षो देवीं स्वरूप धृक् ।
किंशुकै हवनं कुर्यादशांशेन महेश्वरिः ॥
कुसुमैर्वापि धुरत्रयमिति स्मृतैः ॥
अथ त्रिर भैव्याः ॥
दीक्षां प्राप्य जपेन्मन्त्रं तस्वलक्षजितेन्द्रिय ।
पुष्पैभानु सहस्राणि जुहुयाद्ब्रह्मवृक्षजैः ॥
त्रिमध्यक्तैः प्रसूतैर्वा करवीरसमुद्भवैः ॥
अथ महालक्ष्माः ॥
जपेद् भास्कर लक्षं च नियताशीयत व्रतः ।
तद्दशांशं प्रज्जुहुयाघृतैस्त्रिस्वादुसंयुतैः ॥
पद्मैरमाद्रुम फलैः प्रभ्यकमयुतै हुनेत् ।
सुधीतैः शुचिभिस्तायैस्तर्पयेदचततद्वयं ॥
अथ मातंग्याः ॥
पुरश्चरण काले तु षट् सहस्रं जपेन्मनुं ।
१५६ब्)
तद्दशांशं हुनेदाज्यैः शर्करा मधुभिः सहः ।
ब्रह्मतरुद्भवैः काष्टैः साधकैः शक्तिभिः सह ॥
एवं पुरक्रियां कृत्वा प्रयोगविधिमाचरेत् ॥
अथ भुवनेश्वर्याः ॥
रविलक्ष्यं जपेन् मन्त्रं पायसै मधुरान्वितैः ।
दशां जुहुया मन्त्री शतर्द्दशांशं यथाक्रमं ॥
तर्पणं मार्जनं कुर्यास्तथा ब्रह्मण भोजनं ॥
अथ धूमावत्याः ॥
जपं कृष्णचतुर्दश्यां शून्यागारे दिवानिशं ।
उपवास परश्चैव मेकाहात् सिद्धिमाप्नुयात् ॥
यस्या श्मशाने विपिने जपंल्लक्षं तु वाश्यते ।
सौष्ट्रष आद्रवासश्वतेन मन्त्रः प्रसिद्ध्यति ॥
होमचात्रघृते नैव तर्पणादिं ततश्चरेत् ।
अथवा प्रजपे लक्षं श्मशाने विगताम्वरे ॥
१५७अ)
निशाभोजी दशांशेन तिलैर्हवनमाचरेत् ।
अथ वगलामुख्यं ॥
पीताम्बलधरो भूत्वा *? र्वा शाभिमुख स्थितः ।
लक्षमेकं जपेन्मन्त्रं हलिद्रा प्रधिमालया ॥
ब्रह्मचार्यरतो नित्यं प्रखे यातो ध्यान तत्पराः ।
प्रियंगु पायसे नापि पीतपुष्पैश्च पूजयेत् ॥
इति कौलरहस्य सर्वागमसारे त्रयविंश पटलः

24

अथ जपरहस्यमाह ॥
स्वस्वध्वनि प्रोच्चरितो प्रभुत्वं प्राप्नुवन्ति ते ।
मन्त्रारक्ष * * *? न्सूत्रे प्रोतारिपरिभावयेत् ॥
तामेव परमे व्यानि परमामृतसंज्ञके ।
दर्शयेदान्मसद्भाव पूजाहोमादिभिर्विना ॥
अथ मन्त्राणां सूतकादिनिर्णयमाह ॥
१५७ब्)
जातसुतकमादौ स्यात् मृतसुतकमन्तकं ।
सुतकद्वयसंयुक्तो यो मन्त्रस्मरसिद्ध्यति ॥
गुरुकुण्डलिनी ध्यानं विवाहः परिकिर्तिताः ।
द्विरागमो भवेत् सानं संयोगः संध्यया भवेत् ॥
अर्घदानं भवेद् गर्भा गायत्री त्वष्ट मानिकं ।
भुतशुद्ध्यादि प्राणान्तं गत्रा वयवकल्पनं ॥
देही चापि मातृकाया प्राणायामस्तु संस्क्रियाः ।
ध्यानोच्चारे महेशानि वालक्तात्पर्तिरीरीता ॥
मन्त्राच्चारणतो देवि जातसूतकमीरीतं ।
जातसूतस्य दोषस्य शमनार्थं महेश्वरिः ॥
दशविंशति पंचाशद् यथाशक्त्या जपेच्छिवे ।
दशांगादि पुरश्चर्या संस्कारा दशवै शिवे ॥
इदमादि समादिष्टं मृति संशृणु सादरं ॥
संस्कारात् प्राशवांस्तानथ जप्त्वा हृदिमं शिवे ।
प्रसन्नां तत्क्रमेणैव तसिद्धि साधनं तथा ॥
साहं भावे मातृकाप्तिष्यरचैतन्य मेलनं ।
अंगाज्ञानं च तादात्यं तदनन्तरमीरितंः ॥
१५८अ)
विसर्जनं महेशानि मृतसूतकमीरीतं ।
मृतसूतकशांत्यर्थं दशविंशति वा जपेत् ॥
तेन तस्य निवृर्त्ति हि भवत्येव न शंसयः ॥
अथवाः ॥
ब्रह्मबीजं मनोद्दत्वा अद्यन्त परमेश्वरः ।
सप्तवारं जपेन्मन्त्रं सूतकद्वय मुक्तये ॥
एवं जपं पुरा कृत्वा तेजो रूपं समर्प्ययेः ॥
अथारक्तं कर्मसूतकान्न त्याज्यं ॥
यज्ञव्रतविवाहेषु अद्धेहोमोच्चने विधि ॥
आरब्धे सूतकं नस्यादनारंभे च सूतकं ।
योरंभो वरणं यज्ञ संकल्पो व्रत जापयेत् ॥
नादिमुखं विनाहादौ आर्द्धपाक परिस्क्रिया ।
जपादीक्षार्चन विधिः कार्या दीक्षान्वितैर्नरैः ॥
मास्तिपापं यतस्तेषां सूतकं वायतात्मनां ।
सूतके मृतके चैव धूमाज्ञारादिके तथाः ॥
जपं चार्घं तथा कुर्यान् मन्त्र न्यासे पुरःसरं ॥
१५८ब्)
अथ मन्त्रविद्याया भेदमाहः ॥
मन्त्रविद्या विभागे तु द्विधा मन्त्र जातयः ।
मन्त्राः पुन्द्रेवता प्रोक्ता विद्या स्त्री देवता मता ॥
पुन्मन्त्राः फेत् उक्तास्यु द्वितान्तास्युस्त्रियो मताः ।
नपुंसका नमोन्तास्यूरित्युक्ता मनवस्त्रिधा ॥
एतत् सून्या महाविद्या महामन्त्रस्तु गीयते ।
चन्द्रात्मिका स्मृता विद्या मन्त्रा देवी प्रसीपकाः ॥
आग्नेयासंप्रवुद्ध्यन्ते प्राणे चरति दक्षिणे ।
भागे न्यस्मिन् गते प्राणे सौम्या बोधं प्रयान्ति हि ॥
नाडीर्द्धये गते प्राणे सर्ववाढं पयार्तिते ।
प्रयच्छन्ति फलं सर्व प्रबुद्ध्या मन्त्रिणां द्रुतं ॥
अथ मन्त्रशिखामाहः ॥
शृणु देवि परं तत्वं सर्वज्ञानोत्तमोत्तमं ।
येन विज्ञान मात्रेण क्षिप्रं विद्या प्रसीदसि ॥
१५९अ)
मूलकुण्डे तु या शक्ति भुजंगाकार रूपिणि ।
तत भ्रमावत्तवातोयं प्राण इत्यभिधियते ॥
तं त्यक्त्वा व्यक्त मधुरां कुजन्ती सहसा स्थिताः ।
गच्छन्ती ब्रह्मरंध्रेण व्रणिशन्ती पुरस्तनुंः ॥
यातायात क्रमेणैव तत कुर्यान् ममोलयं ।
तेन मन्त्र शिखा जाता सर्वमन्त्रप्रदीपिणीः ॥
तमः पूर्णे गृहे यद्वन्न किञ्चित् प्रतिभासते ।
शिखा हीनास्तथा मन्त्रा न सिद्ध्यन्ति कदाचनः ॥
शिखोपदेश सर्वत्र गोपितः परमेश्वरि ।
विना येन न सिद्धिः स्याद् वर्षकोटि शतैरपि ॥
तस्माद् यत्नेन कर्तव्यं शिखाया भावनं मनोः ।
अथ चैतन्य मन्त्रमाह ॥
मन्त्ररूपी भवेद् देवो देवरूपी गुरुर्भवेत् ।
गुरुरूपि भवेदात्स्मा आत्मरूपी मनु भवेत् ॥
१५९ब्)
इति ते कथितं देवि मन्त्र चैतन्य मुर्त्तमं ।
यस्य विज्ञानमात्रेण अद्वैतं ज्ञानमुत्तमंः ॥
श्रीदेव्युवाचः ॥
अवैथ कुलुकोत्पर्ति कथयस्वममाधुना ।
कुल्लुका कीदृशी नाथ सेतुर्वा देवकी दृशः ॥
कीदृशो वा महासेतुन्निर्वाणं त्वथ कीदृशं ।
अन्यद्वा कथितं यन्मे कीदृशं तद्वद प्रभो ॥
श्रीशिव उवाच ॥
रहस्यमपि ते देवि कथ्यते शृणु सा प्रतं ।
विना येन महेशानि निष्फलं तु जपादिकं ॥
कुल्लुका च तथा सेतुर्महासेतुस्तथैव च ।
निर्वाणं कुण्डली षष्ठी सर्वो सर्वोत्पर्ति शृणु प्रिये ॥
विद्यानां कुल पूज्य त्वात् कुल्लुका तेन कीर्तिता ।
विद्या संवंधि दोषाणां भक्षयित्री यतः शिवोः ॥
तेन यं कुल्लुकान्नाम्ना सर्वतंत्रे अगोपिता ।
१६०अ)
विद्यासिद्धार्णवे देवि येन पारं प्रगच्छति ।
तेन सेतुर्महेशानि विद्यामार्गः प्रकीर्तितः ॥
महाविद्याप्तिशंदर्शी महासेतुर्महेश्वरि ।
महाविद्या नवस्यार्थ चैतन्यस्य प्रदर्शकं ॥
महासेतु?र्मदेविर्महाविद्यार्स्वरूपर्धृक् ः ।
देवतायास्तु निर्वाणं चैतन्य ये च कीर्तितं ॥
निर्वाणं कथितं भद्रे विद्यावाक् मातृकार्णकैः ।
निर्वाणं परमेशानि चतुश्चरण रूपधृक् ॥
निर्वाणं च महेशानि परं ब्रह्मात्मतात्मता ।
चतुर्थं कर्तितं भद्रे विद्याचरणमीरितः ॥
पंचमीं कुण्डलीं देवि यथावद वधारये ।
मूलाधारादाविलातं विसातन्तु तनीयसीं ॥
सर्वदेव स्वरूपां च सर्ववर्ण प्रदीपिनीं ।
महाकुण्डलीनीं देवि ममली कुण्डली परां ॥
१६०ब्)
श्रीदेव्युवाच ॥
क्रमेण दशविद्यायाः कुल्लुकाया विधिं वद ।
श्रीशिव उवाच ॥
पंचाक्षरी कालीकायाः कुल्लुकापरि कथ्यते ।
कालाकूर्च वधू मया फडंता परमेश्वरि ॥
अघोराक्षो ऋषिः प्रोक्ता विराट् च्छन्द्रः प्रकीर्तितं ।
देवता कुल्लुका काली वाजमायाभिधं मतं ॥
कामः शक्तिस्तथा कूर्चं कीलकं परि * र्तितं ।
षट्दीर्घद्येन कामेन षडंगन्यास ईरितः ॥
ध्यान पूजादिकं सर्वं कालिकावत्समापयेत् ।
मायावधूवतध्वा कूर्चं तरिणी कुल्लुकामता ॥
तारिणी कुल्लुकायाश्च विरुपाक्षे ऋषिः स्मृतः ।
उष्णिक् च्छन्द्रः समाख्यातं देवता नीलतारिणि ॥
कूर्चबीजं तथा माया शक्तिर्वधु च कीलकं ।
१६१अ)
र्माययार्तु षडंगानि सर्वं नीलर्सरस्वति ॥
च्छिन्नायाश्च महेशानि कुल्लुकाष्टाक्षस्सि भवेत् ।
वज्रवैरोचनीये च अन्ते चर्म प्रकीर्तिकंत् ॥
अति कालो ऋषिः प्रोक्ता गायत्री च्छन्द्र ईरितं ।
हं बीज भू तथा शक्तिः कीलकं राचिनी मता ॥
शिवः षट् दीर्घयुक्तेन षटंगन्यासमाचरेत् ।
ध्यान पूजादिकं सर्वं च्छिम्नावत्समुपाचरेत् ॥
सुन्दर्याः कुल्लुका देवि संप्रोक्ता द्वादशाक्षरी ।
वाग्भवं कामराजं चल्लर्जा च त्रिपुरे पदं ॥
भगवती पदं प्रोच्य तदन्ते ठ द्वयं वदेत् ।
सुन्दरी कुल्लुकायास्तु ऋषिरानन्द भैरवः ॥
गायत्री च्छन्द्र आदिष्टं वग्भवं बीजमीरितं ।
लर्जा शक्तिर्महेशानि कामबीजं च कीलकं ॥
१६१ब्)
देवता त्रिपुरेशी च षडंगं त्रि द्वयं न च ।
ध्यानपूजादिकं सर्वं सुन्दरी वत्समाचरेत् ॥
संपत्प्रदायाः प्रथमं बीजं श्रीभैरवी मनौ ।
विकरालो ऋषिः प्रोक्तः पंक्तिः च्छन्द प्रकीर्तितं ॥
देवता भैरवी नाम्ना कुल्लुका परिकीर्तिता ।
हं बीजं सं महाशक्तिरमत्र कीलकं मतं ॥
षट् दीर्घ न बीजेन षडंगन्यासमाचरेत् ।
मातंगी वगलालक्ष्मी धूमोच्छिष्टाक्रमे शृणु ॥
तारं कूर्चं नारसिंहै पंचानां कुलकामना ।
ऋषि भैरवनामा च यावत् च्छन्दांसि पार्वती ॥
देवता सवबीजादि स्वस्वदैव क्रमेन च ।
ध्यानपूजादिकं सर्वं स्वदैवत वदा चरेत् ॥
ईयन्ते कथिता देवि संक्षेपात् कुल्लुका मया ।
अथ दश महाविद्या जिह्वाशोधनमन्त्र ॥
श्रीशिव उवाच ॥
अपरैकं प्रवक्ष्यामि जिह्वाशोधनमुर्त्तमं ।
१६२अ)
यत्र कृत्वा महादेवि जप पूजा वृथा भवेत् ।
अशुद्ध जिह्वाया देवि यो जपेत् स तु पापकृत् ॥
तस्मात् सर्वप्रयत्नेन जिह्वाशोधनमुर्त्त चरेत् ।
देव्युवाच ॥
देवदेवं महादेव शूलपाणेपिशाक धृक् ।

पृथक् पृथक् महादेव कथयस्व मया निधे ॥
श्रीशीव उवाच ॥
शोधनं सर्वविद्याणां मुखस्य शोधनं शुभे ।
श्रीबीजं प्रणवं लक्ष्मी तार श्रीप्रणवं तथा ॥
इयं षडक्षरी विद्या सुन्दर्या दशधा जपेत् ।
भैरव्याः शृणु चार्वग्नि मुखशोधनमुर्त्तमं ॥
प्रणवं च ह्सौं बीजं प्रणवं सुरवन्दिते ।
इदं हि त्र्यक्षली मन्त्रं दशधा प्रथमं जपेत् ॥
शृणु सुन्दरि श्यामाया मुखशोधनमुत्तमं ।
निजबीजे त्रयं देवि प्रणव त्रितयं पुनः ॥
१६२ब्)
कामेतयं वदि बिन्दु रति बीज युतं त्रिकं ।
एषा नवाक्षरी विद्या जिह्वा शोधन कारिणि ॥
तारायाः शृणु चार्वंगि अपूर्व मुखशोधनंः ।
जीवनी भुवना लर्जा भुवनेशी ततः प्रिये ॥
त्र्यक्षरीयं महाविद्या विज्ञाय मृतवर्षिणी ।
दुर्गायाः शृणु चार्वंगि मुखशोधनमुत्तमं ॥
द्वादश स्वरमुधृत्वा बिन्दुयुक्तं त्रियं तथा ।
अपरैकं प्रवक्ष्यामि वगलमुखशोधनं ॥
वाग्भवं भुवनेशानी वाग्वीजं सुरविन्द्रिते ।
मातंग्याः शोधनं देवि अकुसं वाग्भवं तथा ॥
बीजं चाकुशमेतद्धि विज्ञेयं त्र्यक्षरीयकं ।
लक्ष्याश्च शोधनं देवि श्रीबीजं कमलानने ॥
प्रणवं दान्तमुधृत्य वामकर्णविभूषितं ।
पुनः प्रणवमुद्धृत्य विद्येयं त्र्यक्षरी मता ॥
१६३अ)
वालादीनां च श्रन्या सांप्रगवं सुशशोधनं ।
स्त्रीशूद्राणां महेशानि औकारेण तु शोधनं ॥
मुखशोधनमात्रेण जिह्वामृत मयी भवेत् ।
अन्यथा मन्त्र विट् युक्ता जिह्वा भवति सर्वदा ॥
भक्षणे दुषिता जिह्वा मिथ्या वाक्य न दूषिता ।
कलहै दुषिता जिह्वा तत्कथं जतपन्मनुं ॥
तत् शोधनमना चार्य न जपेत् यामरः क्वचित् ।
शैव शाक्त वैष्णवानां सर्वेषामप्यवश्यकं ॥
अन्यथा प्रजपेन्मत्रं मोहन यदि भविनि ।?
सर्वं तस्य वृथा देवि मन्त्रसिद्धिर्न जायते ॥
अन्तेनरकमाप्नोति भवेत् सापि न चान्यथा ।
देवो यदि जपेन् मन्त्रंमकृत्वा मुखशोधनं ॥
पतनं तस्य वै देवि किं पुन कर्मभ्य वासिनां ।
१६३ब्)
अथ शापोर्द्धारः ॥
शापोर्द्धारोत् कीलेन तु तत्र भेदः क्रियात् भवेत् ।
? श्म वद महादेव यद्यहं तव वल्लभा ॥
श्रीमहादेव उवाच ॥
उत्कालनं वधं वंध न स्वाच्छापस्तेजानिरोधकः ।
कीलेन तु महादेवि न गतागतमीरितं ॥
गतागतं महादेवि शापोर्द्धारे तु वर्तुतः ।
भक्तानुग्रहकामत्वार्देवी साक्षाधकसनिधौ ॥
गत्वादभोवरो देवि समय जात एव हिः ।
मन्त्र चैतन्य रोधत्वान् मृषाजाता महेश्वरि ॥
यथा दुरतरे वत्से धेनुः प्रीतिस्तु वर्तते ।
वंधनस्य यदामुक्ति स्तनपानं तदैव हि ॥
काली तारा तथा च्छिन्ना तेजाः पुंजनिभा मता ।
त्रयाणां तेजसंरोधं कोहि कतुक्षमो भवेत् ॥
तस्माच्छ्रापादिकं नास्ति कालिकाया महेश्वरि ।
१६४अ)
कालितारिणी च्छिना उत्कीलन विमोचिनी ।
दामसंत्रोटनं कृत्वा धेनुर्याति यथासुभं ॥
भक्तानुग्रह काम्यत्वान्नधेयं कालिका परा ।
ताराच्छिनास्तंभवेशी सर्ववन्धविमोचिणी ॥
शापो तु प्रस्तवो नास्त्रि कीलेन प्रस्तरो नास्ति कीलेन प्रस्तवोस्ति हि ।
कालिका या महादेवि सर्वदा प्रस्तवोस्ति हि ॥
शापोर्द्धारनिरुक्तिस्तु शृणु यत्नेन साप्रतं ।
वत्सो निकटवत्नी स्यार्द्धे तु निकटवर्तिनी ॥
दुग्धा भाववान् महादेवि नैकट्यै किं फलं भवेत् ।
काली तरे समायाते पुनदुग्धं यथा भवेत् ॥
शापो निर्मोचाना देव पुनस्तेजः प्रवर्तते ।
वत्सबंन्धन मुक्ती त्वात् फलसिद्धि हि वर्तने ॥
उत्कीलनवंन्धनं हि फलसिद्धिः प्रदा प्रिये ।
तस्मादुत्कीलनं भिन्नं शापो भिन्नः प्रकीर्तितः ॥
१६४ब्)
अक्षरव्यत्ययो देवि *? त्कीलन विधौ स्मृतः ।
मन्त्र चैतन्य व्यत्ययोन चः ॥
चैतन्य व्यत्वया मन्त्री पापभागी नरो भवेत् ।
तत्पापस्य निवृत्यर्थं प्राणायाःम प्रकिर्तिताः ॥
देहवन् मन्त्ररूपत्वं द्यक्षरेवत् तते शिवे ।
अक्षरव्यत्ययोर्देवि हींशां गत्वं प्रजायतेः ॥
शापदाने महादेवि सर्वांगं सिद्धमेव हि ।
वत्सवंधनकं कर्म पुनः सिद्धं यथा भवेत् ॥
ततोत्कीलनकं कर्म पुनः सिद्धं महेश्वरि ।
शापदान महादेवि चैतन्या भाव एव हिः ॥
विद्यमाना यथा गादो दुग्धं ना महेश्वरि ।
शापदाने महेशानि चैतन्यं नास्ति शांभविः ॥
उत्कीलने महादेवि चैतन्यं सिद्धमेव हि ।
एकदा समये कोपि साधकः स्थिरमानसः ॥
संस्मारदक्षिणां देवी सदा भक्तैक मानसां ।
१६५अ)
द्युतक्रीडां मयासार्द्धं प्रवर्ता च विहाय सा ।
गता सा साधको यत्र दलातस्यैवरंततः ॥
निवृत्ता सामया शक्ता क्रुद्धेन मनसा मुने ।
यतोमां त्वं विहायैव गतामाधक सन्निधिं ॥
अतस्त्वं शीघ्र फलदान भविष्यसि दक्षिणे ।
ततो दीनमना देवि संतुतोषस्तथा वैः ॥
ततस्तुष्टोह मनया पुनरेनां समुर्चिवान् ।
महाविद्यां संपुटितां जप्त्वा यप्त्वां सुमंध्यमे ॥
ततस्त्वं शापनिर्मुक्ता भविष्यसि फलप्रभा ।
ततः प्रभृति विद्येयं द्रुतं च फलदायिनी ॥
साधकसं महाभाग जननी बन्धमुक्तये ।
इत्युक्वान्तर्दधेशस्तु भार्गवस्य हि पश्यतेः ॥
भार्गवा हि मुनिश्रेष्टेस्तपश्य वमनोदधे ।
शापोद्धारं प्रवक्ष्यामि वशिष्ठ मुनिना कृतं ॥
चतुर्विंशति लक्षाणि जप्त्वा कोपेन शप्तवान् ।
१६५ब्)
अद्य प्रभृति देवेशि कालिके कालरूपिणी ॥
तवमन्त्रेषु संसिद्धिः कष्ठे नैव भविष्यति ।
इति श्रुत्वा महादेवि प्रादुभूता प्रसाद्यतं ॥
उच्चा च पुत्रकीमिदं शापदानं वृथाकृतं ।
एवं फलं यथा न स्यात् तथा कुरु मुनीश्वर ॥
ज्ञानदर्तं दुचाराध्यं दुल्लभं यत्सुरेरपि ।
ततः प्रीत्या वारं लब्ध्वा ज्ञानविज्ञानसंयुतं ॥
उवाच प्रीत मनसा शापान्तं मन्त्र संकटे ।
मातः क्रोधेन कथितं तत्रोपाय महं वदे ॥
प्रणवं पूर्वमुद्धृत्य घोररूपे च दक्षिणेः ।
सिद्धिं कुरु द्वय प्रोच्य कालिकेति पदं ततः ॥
ममाभीष्ट फलं शीघ्रं देवि द्रवैण संपदं ।
जपादौ मन्त्रमुच्चार्य जपान्ते च पुनष्पथेत् ॥
१६६अ)
भविष्यति ततः सिद्धिरचिरात् परमेश्वरि ।
अथ मन्त्रोयवे ज्ञानमाह ॥
श्रवणास्य हृदये नेत्र ज्ञानन्मोक्षो मनोः सद्यः ।
श्रोत्रादीनां ज्ञाना भावे मन्त्रस्य ग्रहण मात्रात् ॥
दारिद्रञ्च विपर्ति चर्नरक प्राप्तिर्यशोवंशः ।
दीनोति दुःखभागी पराजितः शत्रु पीडितः ॥
कुर्यादवस्थित चित्तो मन्त्री शोत्रादि विज्ञानं ।
स्वनाति भक्त्या श्रोत्रादिनां गुरोज्ञानं भवति तादा कृतभ्या लोकत्रय
पूजितो नघमन्त्री ॥
लयश्रोत्रा मृगास्यादि हृच्छून्याः सदृशः स्वराः ।
गर्जिनि ध्रुम्र भैरव्या आभावेरदृशौ स्मृतौ ॥
मूलार्णमुखमादिष्टं हृदयं स्वरशक्तयः ।
एभिरशेषमन्त्राणां हृन्नेत्र वदनानि च ॥
१६६ब्)
असावास्य परिज्ञयः सर्वतन्त्रेषु गोपिता ।
बीजरक्त मुखासर्वमूलार्ण हृदयं स्वराः ॥
दक्षिवामदृशौ चण्डी विचारे मध्यसा नम ।
बीजाभावे मनो विद्यू नेत्र वमनो हरीः ॥
मूलार्णं हृदयं दण्डी पाणौ च स्वरशक्तयः ।
चिन्तामनि नृसिंहाख्यौ नेत्रास्य प्रणहृत् श्रुतीः ॥
यत्री बीजाक्षरं मन्त्रं तत्र सर्व स एव हि ।
प्रधान पूर्वपरगा विकरा यत्रः हृश्यतेः ॥
तत्र नेत्रं विजानीयान् मुखं चक्षु तजोक्षितं ।
रक्तवर्ज मनोमूल वर्णमास्यं प्रकल्पितंः ॥
मालापूजा ॥
इष्टमन्त्रेण मालायाः प्रोक्षःणं परिकीर्तितं ।
ओं मालामाले महामाले सर्वशक्ति स्वरूपिणि ॥
चतुर्वर्गस्त्वयि न्यस्तस्तस्मान् मे सिद्धिदा भवः ।
वाग्भवं च तथा लक्ष्मी महादिमालिकान्तथा ॥
ङेन्तां हृयं देवर्णान्तो मन्त्रेणानेन पूजयेत् ।
१६७अ)
मन्त्रध्यानः ॥
चिन्तयित्वा गुरुं मूर्द्ध्न यथावर्णादिकं भवेत् ।
मन्त्रं ध्यायेत् तणुमध्यपीतावर्ण हिणायं ॥
महामायां च हृदये स्वात्मानं गुरुपादयोः ।

आज्ञा चक्रेतगः पश्चाद् गुरोम्मन्त्रस्य चान्मनः ॥
देव्याश्चाप्यकतां दीत्वा सुषम्नावन्मना ततः ।
अथ जपसंख्याकृतौम्मह ॥
नाक्षतैहस्त पर्वैर्वानधान्यै न च पूष्पकैः ।
न चन्दनैर्मृतीकया जपसंख्यां न कारयेत् ॥
लाक्षाकुलूशीतशिन्दुलं गोमयं च करीषकं ।
विलोद्य गुटिकां कृत्वा जपसंख्यां तु कालयेत् ॥
इति श्रीकौल रहस्य सर्वागमसारे चतुर्विंशपटलः

2

अथ मन्त्रसिद्धिदीपो यथा ॥
अथातः संप्रवक्षामि सर्व तन्त्रेषु गोपितं ।
मन्त्रसिद्धिकरं दीपं न वाच्यं यस्य कस्यचित् ॥
शक्त्याद्यहगणार्केपु भक्तोवर्ण प्रजायते ।
१६७ब्)
मन्त्रवर्णस्य दिवसे क्रमार्द्दिवं प्रकल्पयेत् ॥
सायं तु कुडवाहस्य वर्तिभूपंचतंतुभिः ।
यावज्वलति दीपो स्यैतावत्पश्यन्मनुं जपेत् ॥
मन्त्रार्णख्य दीपेषु ज्वलितेष्वथ तद्दिनेः ।
पुनर्दीपे कृसा तु दीपे संदृश्यते स्फुटं ॥
इष्टं स्वकीयं कथयेद्या च येन्मनसेत्प्सितां ।
ददाति देवता तुष्टा गुह्य *? तत्प्रकाशितं ॥
अथ सावरमन्त्रपुरश्चरणं ॥
अथ सावरमन्त्राणां पुरश्चरणमुच्यते ।
कामरूपाक्ष देशे तु कामाक्षा यन्त्र देवता ॥
कामशैलोस्त्रियत्रासौ कामपीठं तदुच्यते ।
तत्रासंलेख्य मन्त्रं हि वंशोपरि यथाक्रमं ॥
गुरुणा वाचनीयः सस्वयं पञ्चात्पथेन्मुनुं ।
गुरोरभावे तस्यैव मूले शैलश्य पर्वणि ॥
लिखित्वा प्रपठेन्मनु ॥
ज्वालामुखी समीपे वा हिंगुलाया समीपतः ।
लिखित्वा प्रपठेन्मन्त्रं नान्यथैव प्रसिध्यति ।
१६८अ)
मुखतः स्त्रीसमीपे हि कामपीठे मनोग्रहः ।
अथवासदेशेषु मन्त्रग्रहणमुच्यके ॥
तालपत्रे मनुंल्यख्य पूर्णकुम्भनिधापयेत् ।
भास्करं तु गुरुं ध्यात्वा वाचयेन्त्रि गुरु रवि ॥
इति सावरण मन्त्रपुरश्चरण विधि ॥
अथ षोढान्यासपुरश्चरणं ॥
देवी भावसमायुक्तः षोढान्यास परो भवेत् ।
दशविद्याविधो सा च दशधा भिन्नभिन्नतः ॥
प्रत्येकं षट् ऋषिं तं तं तद्ध्यानं च समाचरेत् ।
* * *? च्छन्दादिकं यत्र कीर्तितं परमेश्वरि ॥
तदेव तत्र ग्रदितं मनुक्ते सूलदेवेवत् ।
ध्यानं च्छन्दादिकं स्त्रोत्रं देवीवत्सर्वमेव तु ॥
आयुतं च पुरश्चर्या न्यसन क्रमयोर्गतः ।
१६८ब्)
अथ सहस्रनामस्तव कवचाणां पुरश्चरणं ।
ईश्वर उवाच ॥
सहस्रनामस्तोत्रंषु कवचेष्वपि पार्वति ।
तत्कोवचोदिता प्रोक्ता सावै कार्या पुरस्क्रिया ॥
यत्रनोक्ता पुरश्चर्या तत्र किं वा विधियते ।
अयुतं तु पुरश्चर्या स्तोत्रमात्रे प्रकिर्तिताः ॥
माहाकाल मते प्रोक्तं तत्रस्थं चेत्समाचरेत् ।
विप्रसंतोषने नैव सर्वसिद्ध्यति पार्वति ॥
हवगर्तु कथं कार्यं पुरश्चर्यादिकं भवेत् ।
सहस्रनाममरूपं वै कीदृशं परमेश्वरी ॥
तथा च कवचं देवि किं रूपं परिकिर्तितं ।
शिव देव्यास्तु संवादो ब्रह्मरंध्रेति कीर्तितं ॥
अन्य श्लोकाकेश तुल्या ऋषिः शिर ईतिरितं ।
१६९अ)
छन्द्रो किं मुखोद् देवि देवता हृदयं भवेत् ।
बीजं गुह्यमिति प्रोक्तं शक्तिस्तु परमंगोता ॥
सर्वांगं कीलकं देवि ह्यर्थ वादः प्रकीर्तितः ।
स्त्रोत्र मध्ये स्थितं यद्यत्तत्सर्वं स्तोत्र रूपकं ॥
एवं च देवदेवेशि स्तोत्ररूपा प्रकीर्तितः ।
तथैव कवचं देवि ज्ञात्वा पाठे पठेत् प्रिये ॥
अंगहीने भवेन्नाशः सर्वथा परमेश्वरि ।
फलं स्तुत्वादिकं देवि अंगमित्यभिधीयते ॥
आद्योपान्तं विना देवि फलमर्द्धं प्रकीर्तितंः ।
अत्रार्थे प्रत्यया देवि षडङ्गाद्या यथा स्मृता ॥
हवणं कवचांदीनां श्लोकान्ते विहितं वचा ।
आद्योपान्तं पाठीत्वा वा पश्चा तुफ हवनं मतं ॥
अथवा देव देवेशि नामान्तं भव मतं ।
कवचादवावपि प्रिये मन्त्रान्त्रे हवनं भवेत् ॥
उपक्रमस्य संहारी श्लोकान्ते वहणं मतं ।
१६९ब्)
आदौ पूर्णा तु संपथ्य तथैचान्ते महेश्वरि ॥
मध्य नामानि पाद्यानिद्यानि पुरश्चर्या प्रकीर्तिताः ॥
श्लोकान्ते मार्जनादिकं ॥
तत्र स्त्रोत्रोक्त विधिना पुरश्चर्यादिकं चरेत् ।
स्तोत्रमावर्त्य संपूर्णं तदन्ते गणनां चरेत् ॥
संपूर्ण होमयोगोयं कथितस्तु प्रियं वदेत् ।
मार्जनाभिषेकर्म कुर्यादत्र महेश्वरि ॥
सारूपं कवचाख्यं च सायुज्यं स्तोत्रमीरितं ।
सानिध्यं नाम साहस्र त्रितयं परिकिर्तितं ॥
कवचं कवचं रूपं स्यात् स्तोत्रं सहचरो भवेत् ।
सह नामस्तोत्रं तु पूजास्थाने प्रकीर्तितंः ॥
पूजादूर्गा स्वरूपा स्यात् वलिदानं तु मारणं ।
मंत्रोराज पुरश्चर्या राज्यसंपर्तिरीतिता ॥
सपत्या तु विनाराजा न शोभति मेश्वरि ।
१७०अ)
संपर्तिमूलमेतद्धि सर्वमेव प्रकीर्तितं ।
होममन्त्रमिति प्रोक्तं पर्जन्यास्त्रं तु तर्पणं ॥
जले दूर्ग स्वरूपं वै त्वभिषेकः प्रकिर्तितः ।
ब्राह्मणानां भोजनं तु दुष्टसैन्य प्रभक्षणं ॥
देवता गुरुविद्यैक्यं त्वान्मैक्यं परिभाव्यने ।
सर्वसिद्धीश्वरो भूत्वा त्रैलोक्या विधिपति भवेत् ॥
यथा च राजराज्यादौ शत्रुसैन्यं भयं भवेत् ।
सिद्धिराज्यं महादेवि तथैव परिकीर्तितं ॥
दूर्गाद्यम्वादिकं देवि देशराज्य यथामतं ।
तथैव सिद्धिराज्यस्य पुरश्चर्यादिकं मतं ॥
मन्त्रोराजागुरोर्मंत्री गणेशाद्वारपालकाः ।
साधनं शवमुण्डस्य सिहासनमितिरितं ॥
१७०ब्)
साधकेन तथा कार्यं येन सर्वं तु सिध्यति ।
नैमित्तिकं च काम्यं च हय द्विरदकौ मतौ ॥
होमधूपः पताका स्यात् ततस्तु सिद्धिराजाधिपे देवि किन्न सिध्येति भूतले ।
षोढान्यासादिकं सेना देवताराद्यदायिका ॥
यन्त्रं तु वज्रदूर्ग तु जीवचक्रं विभेदकं ।
कचादि पुरश्चर्या प्रोक्ता किंशोतु मिच्छसि ॥
अथाङ्कयंत्रपुरश्चरणमाह ॥
आदौ यन्त्रंस्य सिद्ध्यर्थे तन्मन्त्रस्य पुरस्कृयां ।
कृत्वा युत प्रमाणेन पञ्चाद्यन्त्रस्य वाचरेत् ॥
यथाधारे यथा द्रव्य यन्त्रसंलिखा यत्नतः ।
तत्रा वाह्यैव नर्देवं संपूज्य विधि पूर्वकं ॥
ध्यात्वा जपं वलिं होमं कृत्वा ॥
* * * * * *? ॥
एकैकवारमावान्य मन्त्रं यन्त्रं स्मरन बुधः ।
इत्थं जपादिभिः सिद्धे यन्त्रे नामाध्यता क्वचित् ॥
१७१अ)
दिक् सहस्र प्रमाणे यन्त्रे कार्य पुरस्कृतां ॥
अथ द्वित्रिपुरश्चरणैर्मन्त्रामसिद्धत्वेमेति पुनस्तत्रोपायामाह ॥
तथा च सम्यग तुष्टिते मन्त्र यदि सिद्धिर्न्न जायते ।
पुनस्तेनैव कर्तव्यंस्ततः सिद्धिर्न जायते ॥
तकोपायं प्रकुर्वीतद्यत्तङ्गोप्य मधुनोच्यते ।
अनुलोमविलोमेन बिन्दुमातृकाक्षरैः ॥
जपेत् संपुटितं मन्त्रं पत्यहं सत संख्यया ।
एकमाततोहोमादिकात् सिद्धा भवेत् मनुः ॥
पुरश्चर्याक्तमखिलमाहिकं च सामाचरेत् ।
क्रूरदैवत मन्त्रन्तु भूतलिप्यापुटी कुरु ॥
क्रमान्क्रमाच्छता वृत्तिं कुर्यात् सिद्धिस्तु मासतः ।
अचोहयरवलाश्चान्तिमादि द्विचतुर्थकं ।
तृतीयं च क्रमेणैव वर्गानामक्षरं पठेत् ॥
१७१ब्)
उष्मत्रयं ततश्वेद्यं अर्चितासु प्रसीदति ।
शपोतावाकीलितत्वात्तत्रापायाष्टकं भवेत् ।
संपाताथायनं द्रावो वोधनं वचवशी कृतिः ॥
पीडनं षोषणं शौचं दहनं तत्रु क्रियोच्यते ।
भूर्जपत्रं समानीय पद्ममष्टदलं लिखेत् ॥
अष्टगंधेन देवस्य रोचनान्दनेन वा ।
साधकस्य तु नामार्णै मन्त्रं संदभिलिखेत् ॥
यावत् द्वयो समाप्तिः स्यात् तस्य चाद्यं तयो लिखेत् ।
तारादिकं साधकस्य नामाथाष्टादलेषु तु ॥
द्वौ द्वौ लेख्यौ स्वरौ तच्च सस्यग्या यत्सुधात्मकं ।
तत्संवेष्टो मृदासम्यग् वेष्टयद्ब्राह्मणादिकंः ॥
शुक्लादि वर्णया पश्चात् सिक्स्वकेन च वेष्टयेत् ।
१७२अ)
क्षिप्रे त्रिमधुरेतर्तु मृन्मये लघुभाजनः ।
क्षीरपूर्णेनवेकुले तत्क्षिपेल्लघु भोजने ॥
अग्निसंस्थापनं कृत्वा सनिधो तस्य तं घटं ।
संस्थापयेन्त्रिमधुरै मूलमन्त्रेण होमयेत् ॥
अष्टाधिक सहस्रं तु संपातं कलशे क्षिपेत् ।
होमांसंमाथतं कुंभं निक्षिपेच्च जलाशये ॥
स्वगुरुं ब्रह्मणाश्वान्तैस्तोषयेद् दक्षिणादिभि ।
संपाताधाय चैतश्चदुक्तं सिद्धिर्न चेद्भवेत् ॥
द्रावणं तु तदा कुर्यात् तत् प्रकार इहोच्यते ।
वं बीजेन ग्रथयित्वा भूर्जपत्रे लिखेन् मनुं ॥
उशीररोचनाभ्यां च शिखाकर्पूर कुम्भमैः ।

क्षीराज्य मधुतोयातां मध्य तं लिखितं क्षिपेत् ॥
पूजनार्च्च जपाद्धोमात् द्रावितः फलदो भवेत् ।
१७२ब्)
द्रावितोपि न सिद्धश्वर्द्धाधनं तस्य कारयेत् ।
वाग्भवेन च बीजेन संपूतीकृत्यं तं जपेत् ॥
एवं बुद्धा भवेत् सिद्धो नोच्यत् कुर्याद् वशो कृतं ।
कुचंदनं महादारु हरिद्रामदनीशिलाः ॥
एतैस्तु लिखीतो मन्त्रो भूर्जपत्रे सुशोभने ।
कठे धृतो भवेद् वश्यो नोचेन्कुर्याच्च पीडनं ॥
अनुदात्तस्वरश्याच्य मुदात् तेन द्वितीयकं ।
तृतीयमधुदात्ते च पठेत भुर्जमुदात्ततः ॥
एवं पादानि सर्वणि पठे मन्त्रस्य साधकः ।
अनुदात्तर्पदाचार देवं ध्यायेदधः स्थितंः ॥
उधो स्थिते मुदात् तस्योच्चारेष्टादि सहस्रकंः ।
जपेन् मन्त्रं ततो भूर्जे भानुदग्धे वलेखयेत् ॥
मंट्रं तमाक्रमेद्वाम पादनाथ च होमयेत् ।
अष्टोत्तरशतं मन्त्रः पीडितः सन्प्रसीदति ॥
१७३अ)
न सिद्धश्वेत्तदोपोष्यः प्रोच्यते तत्क्रियाधुना ।
सौः बीज पूटितं मन्त्रं विलिख्येद्भूर्जपत्रके ॥
रोचनाकुंकुंमभ्यां च धारयेदिति ।
एतच्छोखलमित्युक्तं दहनं प्रोच्यतेधुना ॥
पृथक् पृथक् स्वमन्त्रार्णान् चतुदिक्षु समावृतान् ।
रंबीजेन पलाशश्य वेजे तैलेन संलित् ॥
भूर्ज पत्रेथ गतेर्द्धर्य कंठे दाह क्रिया त्वियं ।
इति सप्तसंस्कारः ॥ अथ मन्त्रार्थ प्रकरनं ॥
मन्त्रार्थं मन्त्र चैतन्यं योनि मुद्रा न वेत्ति यः ।
शतकोटि जपेनापि तस्य सिद्धिर्न जायते ॥
तत्रादौ गुरुमन्त्रार्थ ॥ यथा ॥
अथातसंःप्रवक्ष्यामि मन्त्रार्थं गुरुनामतः ।
गकाराज्ञानसंपर्तिरकारात् तप्रकाशकः ॥
उकाराशिवतादात्म्यं दद्याति गुरुत स्मृताः ।
गुरु दैवतयोरैक्यं भावयेत् परमेश्वरि ॥
१७३ब्)
इडा नाडी स्थित चन्द्र पिङ्गलाभारवाहिणी ।
सुषुम्ना भेदरूपाणि दहनं पापनासनं ॥
गुरुनामा प्रयत्नेण परतत्वं च प्राप्यते ॥
अथ शिवमन्त्रार्थमाह ॥
ओंकारं प्रथमं विद्यान्नकारां तु ततः परं ।
गकारं तत्परं विद्यां च्छिकारं तु ततः परं ॥
वाकारं पंचमं विद्यां द्यकारं तु षडक्षरं ।
एवं पंचाक्षरेषु स्याद्रुत दृष्टिस्तथा शिवे ॥
प्रणवे ब्रह्मदृष्टिः स्याद् ब्रह्मैवाहं न संशयः ।
मन्त्रार्थः कथ्यते पश्चाद् येन मुक्ति नृणां स्मृता ॥
सत्यज्ञान परानंद स्वरूपा चित्कला पला ।
अति व्यक्त तया ज्ञेया शिवशब्देन शाम्भवि ॥
१७४अ)
वाचकोयं ततः शब्दो ब्रह्मणश्चित्कला मनः ।
नम शब्दो नमस्कार वाचकः परिकीर्तितः ॥
प्रह्वत्व लक्षणः प्रोक्ता नमस्कार पुरातनैः ।
प्रह्वतारामजीवस्य शिवात् सस्यादि लक्षणात् ॥
भेदेन भासमानस्य मायया सर्वरूपतः ।
संवंधं नम इत्याह शिवतात्म्य लक्षणं ॥
नित्यः शुद्धिः शिवः साक्ष्यात् स्वरूपः सर्वदेहिनां ।
तस्माद्बुभुत्सोर्जीवश्य नोपादेयं हि सर्वदा ॥
सहोयमपि वा तद्वद्वस्तुतो न प्रकीर्तितः ।
एवं विद्यान्नकारार्थं मकारार्थं मुदीयते ॥
वकारो मम शब्दार्था लुप्तस्त्वेको मकारकः ।
व्यवहारिक दृष्ट्वायं नमस्कारः प्रकीर्तितः ॥
१७४ब्)
तस्माचतुर्थी शवस्तु प्रोच्यते नापि वस्तुतः ।
ओंकालं सर्वशब्दार्थ वाचक परिकिर्तितः ॥
प्रयोगा देव सर्वत्र सर्वार्थः शिव एव हि ।
तस्माच्छिवस्य पूर्णत प्रणवा वाचक स्मृताः ॥
वाच्यवाचतावास्य लक्षलक्षणं तापि च ।
अन्यथापि च नास्त्व च परमार्थ निरूपणेः ॥
अथवा देवसर्वस्य शिवादन्यस्य सर्वदा ।
नास्तीति स्यान्मृषाभागि न भातीत्यादि माययाः ॥
कल्पितं चिन्मुखनंदं परमार्थ शिवात्मकं ।
माया तत्कार्यमप्यस्माच्छिवात्सत्यादि लक्षणांत् ॥
प्रत्यक्षसिद्धिनास्त्यैव परमार्थनिरूपणे ।
अथ किं वहुनोक्तेन शिवादन्य न विद्यते ॥
शिवस्वरूप मे वाहुरिदं सर्वं विचक्षणः ।
सर्वस्वरूपमज्ञात्वा दृश्यतेन तु वस्तुयोः ॥
१७५अ)
एष एव हि सर्वार्थं सेव्यं सर्वं च नान्यथा ।
वध्यवाधकतां याति व्यवहारे परक्षणं ॥
समुद्र इव कल्लोला इति मन्त्रार्थ संग्रहः ॥
अथ तारायाः ॥
स्वयं लीलया परं विष्णुमूर्तिर्वभौचेम्न चैवं कथं चन्द्रचूडः ।
त्रदंघ्रि प्रपद्माङ्गतांवु प्रवाही जगनित्य बीजं भेतां त्रिनेत्रां ॥
विधाता यदायान चास्ते स्वयं सः स्वयंभुः कथं स्यात् कदातोति
तूर्णनुनाभिधेधोनजातङ्कलौकेजगत्यादि ॥
जगतम्रष्ट्रमस्मै चतुर्भिः स्वहस्तै ददौ या चरस्त्रं नु वेदाननोभूत् ।
अतः सन्ति वर्णायुगादि वेदा जगत्यादि ॥
तदंशं समायं हि बीजं ततस्यात् त्रिपादेतिदान्तिनोयां वदन्ति ॥
१७५ब्)
चिदेक्षरं व्रर्णा युगादिनी वेदा जागत्यादिः ।
ततोस्त्रं यदासार्ध पंचाक्षली सा जगत्तारणादुग्रह ताराप्रसिद्धा ॥
विनातारकं सापरैका जटास्याजगन्नित्यादि ।
इदं ये जना स्त्रोत्र राजरिडन्ति प्रसिद्धाश्च ते गद्य पद्य प्रसंशे ।
जगद्रूपपाणाद्विमुक्ता हि तूर्णं शरीरान्तरे यान्ति तारा सस्तिपं ॥
विपर्तौ निशार्द्ध जपान्ते प्रभाते पठेद्यस्तु भक्त्या तदतदर्थं विचित्य ॥
भवेन्नीलवान्याद्विरेफांघ्रि पद्मे सजीवस्तु हंसः सजीववस्तु जीवः ॥
इती श्री-अर्द्धतनिरूपते मन्त्रार्थविवरणान्मकतारा अर्थं संपूर्णं ॥
अथ श्रीमहात्रिपूलसुन्दर्यमन्त्रार्थमाह ॥
भैरवो उवाच ॥
लकारान्पृथिवी देवि सशैलवनकानना ।
१७६अ)
पंचाशत्पीठसंपन्ना सर्वतीर्थ मयी परा ॥
सर्वगंगा मयी सर्व क्षेत्रस्थान मयी शिवे ।
सकारा चंद्रतारादि ग्रहदेवस्वरूपिणी

3

हकाराच्छीवसंयोगाद्व्योमं मडलसंस्थिताः

4

इकाराद्विश्वकर्त्रीयं माया तूर्यात्मिका प्रिये

5

एकाराद्वैष्णवी शक्ति विश्वपालन तत्परा ।
रकाराद्वैष्णवी शक्ति विश्वपाला न तत्परा

6

रकारारेजसा युक्ता परं ज्योति स्वरूपिणि

7

ककारात् कातदाकाम रूपिणि स्फूरव्ययदा

8

अर्द्धचंद्रे तु देवेशि विश्वयोनिरितीरिता

9

बिंदुना शिव रूपेण सून्यरूपेण साक्षिणी

10

१७६ब्)
अनया सहवत्रत व्यापि निश्चलतात्मना ।
श्रीचक्रमपि देवेशि मेरु रूपं न संशयः

25

सकला भुवनेशानि कामेशी बीजमुत्तमं ।
अनेन सकला विद्या कथयामि विशेषतः ॥
शक्त्यंत सूर्यवणेयं कलमध्येसुरोचने ।
वाग्भवं पंचवणाढ्यं कामराजमथोच्यते ॥
मादनं शिवचंद्राढ्यं शिवांतं नील लोचने ।
कामराजमिदं भद्रे षट्वर्णं सव मोहनं ॥
शक्तिबीजवरारोह चंद्राद्यं सर्वमोहनं ।
चतुरक्षररूपं तु त्र्यक्षरात्रि पुरापरा ॥
इति सुचनामन्त्रार्थ उर्द्धाम्नाय ॥
अथवालक संस्कारमन्त्रमाह ॥
अथातः संप्रवक्ष्यामि वाङ्मत्वाश्च मनुत्तमं ।
वाग्बीजं प्रथमं मन्त्रानारदोस्य मतो मुनिः च्छन्दोनुष्टुप् देवता तु
वाङ्मतां परीकीर्तिताः ॥
१७७अ)
बीजपूर्वैश्च षड्दीघैः षडंगविधिरीरितः ।
श्वेतांवरांश्वेतवर्णां श्वेतगन्धानुलेपनां ॥
सुधाकुंम्भश्च पद्मंञ्च वीणापुस्तकमेव च ।
करैदधर्ती मीनस्यां मुक्ताभरणभूषितां ॥
एवं ध्यात्वा कनीकायां यजेद् देवी षडस्रके ।
रुद्रधारां मणिमतिं फल्गुं विष्णुमनीं तथा ॥
प्रभावती भानुमतिं भूपुरे तु दिगीश्वराम् ।
लक्ष त्रयं जपेन्मन्त्रं पञ्चषाद्यैस्तथा हुनेत् ॥
तर्पणादि ततः कृत्वा सिद्धि मन्त्रः प्रजायते ।
सद्यो जातस्य वालस्य जिह्वायां बीजमालिखेत् ॥
मधुना स्वणलैखन्या सोष्टवर्षः कवि भवेत् ।
वाग्मत्यां चाथगंगायां पुरश्चर्या कलोति यः ॥
द्वितीयस्या प्रतिष्ठाही भिक्षाशी वाथ मौनवान् ।
१७७ब्)
ब्रह्मचारी भूमिशायी श्वेताम्बर धरः शुचिः ।
वाक्सिद्धि लभते वेश्यं दाता भोक्ता त्वया च कः ॥
इति श्रीकौलरहस्य सर्वागमसारे पञ्चविंशपटलः

1

अथ दशविद्यायाः मन्त्रसंख्यामाह ॥
दशलक्ष प्रभेदैश्च कालि विद्या कलौ स्थिता ।
दशपूर्वैः शप्तलक्षैः सुन्दरीकात्तिता भुवि ॥
त्रिनिखर्वं तुरास्या च च्छिन्नायाः खमात्रकं ।
पंचाशीति सहस्रश्च लक्षपंचकसंयुता ॥
भुवनेश्रीमहाविद्या वगलां शृणु सारदं ।
तत्वलक्ष्या तु वगला सहस्र नवतीर्गता ॥
धूमावती महाविद्या षोडशीतिस्तु भैरवी ॥
१७८अ)
मातंग्या नेत्रलक्षा च कमला लक्षपंचका ।
एते सृंखलिका योगान् प्रस्तारास्तु विनिर्गताः ॥
अथ कौमारी जाति भेदफलं ॥
विप्रां सर्वेष्टसंसिध्यै यशसक्षत्रियोद्भवां ।
वेश्या प्रयागं देवेशि कोटिसिद्धि प्रदायकं ॥
स्वैरिणी वांच्छिताद्यर्थं कुट्टिनी सर्वकर्मसू ।
हृती प्रीति विधौ वश्य कुमारी परिकीर्तिता ॥
वृषली देवता सिद्धै देहसिद्ध्यैकिरातिनी ।
पार्वतीया सर्वकर्यमनोरथ मयी कला ॥
चाण्डालिनी राष्ट्रसिद्ध्यैराज्युसिद्धैकुविन्दजा ।
विद्यासिद्ध्यैराजसुता क्रमेन परिकीर्तिता ॥
सर्ववाच्छा प्रसिद्ध्यर्थ प्रोक्ता श्रीवालसुन्दरी ॥
न कौमरी ॥
अद्याशुद्धा वासिकान्या तृतीया ललिता स्मृता ।
१७८ब्)
चतुर्थी मालिरीख्याता पञ्चमी स्याद् वसुन्धुरा ।
सरस्वति रमागौरी दुर्गा तु नवमी भवेत् ॥
पुरुषस्य ॥
पञ्चन्नववषञ्च यद्देद्वालंविचक्षणः ।
पंचाध्यावटुक प्रोक्ता न वर्षा गणेश्वरः ॥
अथ प्रसंत् विविध प्रायश्चित्तमाह ॥
प्रयोगं नैव कर्त्तव्यं साधकंः सिद्धिकांक्षिभिः ।
प्रयोगान्नरकः प्राप्तिः परकोनविद्यते ॥
प्रयोगां श्रीपमाप्नोति प्रायश्चिर्त्ती तु साधकः ।
प्रयोगदोषशात्त्यर्थं लक्षमात्रं जपेत् मनु ॥
मारणेर्च्चाटने द्वेष लक्षमात्रात् सुचि भवेत् ।
वश्याकरणस्तथा भादौ लक्षवाप्य युतं जपेत् ॥
ईश्वर उवाच ॥
१७९अ)
शृणु देवि प्रवक्षामि प्रायश्चित्त विधिन्नवः ।
गुरुत्यागकरः शिष्यः प्रायश्चिर्त्ती भध्रुवं ॥
लक्षं श्रितोद्रकं जप्त्वा तस्मात् पाद्विशुद्ध्यति ।
मन्त्रात्यागकरो यस्तु तत्संङ्गं वर्जयेत् प्रिये ॥
लक्षमेकं जपेन्मन्त्रं होमतर्पणतः शुचिः ।
सर्वेषामेव पापानां शंकरे समुपस्थिते ॥
प्रायश्चित्तं विजानीयादयुतं मन्त्रजापतः ।
नित्यादि क्रमदोमानां शान्त्यै विद्याशतं जपेत् ॥
नैमिर्तिकाति क्रमणे सहस्रं जपमेन्मनुं ।
यदि दैवात् पशोर्विद्या लभते कुलजैन्नरैः ॥
द्विजन्तु कौलिकं प्राप्ये पुनर्विद्यामुपालभेत् ।
शकलोबीजहीनस्तु सन्दिग्धो निन्दितस्तथाः ॥
१७९ब्)
मनवस्तु न सिद्ध्यंति गुरुः स्याद्ब्रह्मघातकः ।
तदा तं सहसा ज्ञात्वा मन्त्रदेवं गुरुं त्यजेत् ॥
लक्ष त्रयं जपेल्लीपीं लक्षम्वाप्य जपाजपेत् ।
होमयेद्ध विपान्तेन निष्या पश्यात् तथा ध्रुवं ॥
एकपात्रे पिबेद् द्रव्यं वीरीमहेश्वरो यदि ।
श्वारोच्छिष्टं भवेत् पानं प्रायश्चित्तं स कौलिकः ॥
गायत्र्यास्तु सहस्रेण उपवास त्रयेन च ।
सम्यक् शोथित चित्तस्तु सुवर्णं गुरु देवदेत् ॥
वलात्त स्वरतो वापि योरमेन्मन्त्रमातरं ।
शदलक्षं मनुं जप्त्वा तुषानलं समाचरेत् ॥
मन्त्रपुत्र्याः स्वपुंत्र्यश्च भगिन्याश्च कुलस्त्रिये ।
रमना लक्षजापेन पूतो भवति कौलिकः ॥
कृत्वा वीरे वधं मन्त्री वृथापानं गुरोःस्तुषां ।
१८०अ)
मन्त्रपूर्त्रीम्वीरपत्नीं रमित्वा रक्षमो जपेत् ॥
अस्थि प्राणिसंघाते हत्वा वनरकं व्रजेत् ।
हत्वा च पक्षिणस्यर्वान् स्त्रियं चैकादशं जपेत् ॥
सर्पमार्जारनकुलमुखमुष्ट्रखरं हयं ।
गजात्वाथ मृगान् सर्वान् हत्वा चाष्ट शतं जपेत् ॥
जपेदष्टं सहस्रस्तु क्षुद्रजन्तु क्षुद्रजन्तु वधे कृते ।
वलिदानम्विना मन्त्री पातयेन्न पशून् क्वचित् ।
अन्यथा स्मार्तु मुदितं प्रायश्चित्त मनिषिभिः ॥
गोवधे दशभिलक्षैम्मुच्यतेनरकाणवात् ।
लक्षैर्द्वादशभिमन्त्री वृषं हत्वा विमूच्यते ॥
गुरुं हत्वा प्रमादेन पञ्चलक्षैब्भवेच्छुचि ।
दशभिः कोटिर्मन्त्री स्त्रीवधात् प्रविमुच्यते ॥
१८०ब्)
प्रमादात् पतिते विप्रे लक्षैर्विंशतिभिशुचिः ।
क्षत्रादयो यथोक्तेन मुच्यते किल्विषादितः ॥
ब्रह्मणास्य वधे लक्षं क्षेत्रिये द्विणां स्मृतं ।
वैश्यां त्रिगुणद्दिष्टं पादये च चतुर्गुणंः ॥
अहर्द्धा द्वावधे मन्त्री खाब्धिलमुनुं जपेत् ।
वभ्रोश्यशूकलाणाञ्च वधे पञ्च सहस्रकं ॥
क्षिणां हनने मन्त्री द्विसहस्रेण शुद्ध्यति ।
सर्पमार्जारमत्स्यानां वधे वेदसहस्रकं ॥
देवेद्रोहाद्गुरुद्रोहान्त्रिंशत्कोटिम्मनु जपेत् ।
देवद्रव्यं गुरुद्रव्यं भुक्त्वा तावन्मनुं जपेत् ॥
निन्दने समयानाञ्च योगिनी वीरयो शिव ।
शास्त्राणां मन्त्रिणां स्त्रिणां सहस्रं जप माचरेत् ॥
वा दक्षिणसिद्ध्यान्ते शैवव्रतधरे हरेः ।
१८१अ)
चतुःकोटिमितं मन्त्री जपशुद्ध्यति किल्विषात् ॥
अर्घ्यादि निन्दने मन्त्री दशावत्तनशुध्यति ।
अर्घामृतं पिबेन् पूर्वं देवीमुत्थापयेत् ततः ॥
पशुपानं भवेत् तस्य तत्क्षोयो लक्षयो भवेत् ।
अनिवेद्य तु भुक्ते प्रायपेत् सतताष्टकं ॥
वीरपत्नी वृथा ॥
प्रायश्चित्तं चरेन् मन्त्री दिव्यवीरार्चनादिकं ।
दीपनाशे पात्रनाशे पात्रस्खलनं तथा ॥
पूजयित्वा महादेवीं जपेदष्टोत्तरं शतं ।
आज्ञानाते तदुच्छिष्टं ज्ञानतो द्विगुणं भवेत् ॥
दग्धं च स्फुटितं यन्त्रं हृतञ्चैवेण वा प्रियेत् ।
विदिर्णं घृष्टवीं खेचदुपायं च शृणु प्रिये ॥
लक्षमात्रं जपेद् विद्या होमतर्पण पूर्विकां ।
१८१ब्)
सद्भक्त्या चलुंतोष्य ब्राह्मणानपि भोजयेत् ।
शक्तिपूजा ततः कार्या कुर्यादष्टाष्टकं वुधः ॥
पंचपंचककं वापि कालि तारा तु सारतः ।
कदाचिल्लुप्तचिह्नम्वा स्फटितो विभूषणं ॥
भग्नं नष्टकरो मर्त्या मृत्युस्तस्य भवेद्ध्रुवं ।
तस्मात् स तीर्थराजे वा गंगादि सरिताम्वरे ॥
समुन्द्रे वा क्षिपेद् देवि अन्यथा दुःखमाप्नुयात् ।
विद्यामात्रे त्विदं कार्य विशेषं शृणु सादरं ॥
लिगे वाणे नर्मदोत्थय च युग्मेन दुष्यति ।
शलाक चादिनो भदिनो भग्ना तदा लिंगं न दुष्यति ॥
शालग्रामनिलामात्रे भंगे मृत्युक भवेत् ।
भूमौ पादकलो घाते नेदि मस्तके शिवे ॥
१८२अ)
हृदया चातमे यत्र सर्वनश्याति पार्वति ।
तां मूर्तिं विसृजे देवि पुनमूर्ति समाचरेत् ॥
महाविद्या विधौ देवि विशेषं शृणु सादरं ।
यत्र देवो गतो देवि तद् देशतस्थलं त्यजेत् ॥
प्रायश्चित्तं ततः कृत्वा सुखमाप्नोति साधक ।
वालामनीयकौमारीं चर्वगिं चारुचर्चितां ॥
प्रसूनमंचे संस्थाप्य सांगं सावरणां यजेत् ।
देव्याः स्वरूपं देवेशि तद्वेत्तस्याः स्वरूपकंः ॥
विभाव्य प्रजपेद् देवि संप्रदायानुसारतः ।
उपवासं प्रकुर्वीत दिनमेदं मद्रिततः ॥
लक्षमात्रं जपेन्मन्त्रं जप तर्पण भेदतः ।
कुमार्यामेव संपूज्य तत् तद् दीपात् समाचरेत् ॥
१८२ब्)
त्रिशक्ति परविद्यादौ दीपराजं समाचरेत् ।
दीपाग्रे दीपीनी जप्त्वा दोषहीनस्तथा भवेत् ॥
सिन्दूरण कृतं यन्त्रं मूलेनावेष्टितं ततः ।
तत्कोणे कुल्लुकां लिख्य तत्र दीपं समाचरेत् ॥
अष्टगंधेनपेनापि गंधेनद्यसृणेनचः ।
दिव्यवर्ण न देवेशि तेन सिद्धीश्वरो भवेत् ॥
पश्चिमाभिमुखं दीपं पात्रं त्रिपलमात्रकं ।
सौवर्णराजतं ताम्रं मार्तिक्यं धातुयं भवेत् ॥
दीपं कृत्वा प्रयत्नेन एकविंशति तंतुभिः ।
त्रियं च नवरुद्रैश्च वितस्तिवर्तिकां चरेत् ॥
शोप्यतेन पलाष्टेन आह्यपात्रं समाचरेत् ।
चतुरंगुलमुच्छ्रायं सार्द्धांगुलसमुत्तमंः ॥
१८३अ)
वध्रंगुणीलप्रोक्तं कवचं सप्तधा भरेत् ।
दीपस्वदेविसंपूज्य सांगां सावरणा शिवे ॥
एवं क्रमेण देवेशि सिद्धिमाप्नोति साधकः ।
वलिदानं ततः कुर्यात् सात्विकादि प्रभेदत ॥

आपदूर्द्धारकं जप्त्वा दोषहीनो नरो भवेत् ।
अयं च नित्य दीपो हि त्रिशक्ति विषं ये मतः ॥
प्रायश्चित्त प्रसंगेण कीर्तितः परमेश्वरि ।
एवं दोष विनिमुक्तः पुनर्यन्त्रं च संग्रहेत् ॥
उक्तसंक्तारमासाद्य स्वगुरुक्तेन वस्मनाः ।
महाविद्या विधौ प्रोक्तं शैववैष्णव यो शृणु ॥
उपोष्य रजिनीमेकामघोरं लक्षमात्रकं ।
तद्दशांशं होमकर्म दोषहीनस्ततो भवेत्

26

सौरेहं संजपेच्छिवे ॥
गाणपे श्रीहरिद्राष्य जप्त्वा सिद्धिश्वरो भवेत् ।
१८३ब्)
अन्यथा कुरुते यस्तु तत्वापापो भविष्यति ।
अयुतं त्रयमीच्छन्ति दिव्यौघाश्चात्र पार्वति ॥
कौलिकः पशुगामी च परशक्तिं रमेद्वलात् ।
गोष्टी मध्ये च यत्नेन स्पर्शं तस्या न कारयेत् ॥
अविषेकविनाभूते आचार्यत्वं करोति यः ।
योनि कोटि शतं याति रौरवं नरकं व्रजेत् ॥
मातृरूपं परित्यज्यास्त्रिरूपं शक्तिमादरेत् ।
सयाति नरकं घोरं जन्मकोटि शतानि च ॥
परं लक्षत्रयं जप्त्वा अजपां लक्षमेव च ।
तुर्यावीजंपंलक्षणं ततः शुचिं समाचरेत् ॥
अथ मालायतनादौ प्रायश्चित्तमाह ॥
प्रमादात्मालिकाभंगो प्रायश्चित्तं समाचरेत् ।
रहस्य मालाभंगे तु दद्याच्छाग वलि नरः ॥
१८४अ)
अग्नि दग्धेपि लक्षं च नष्टे भहस्त च्युता यदि ।
चौरानी षट् सहस्रं पतिते त्रिशतं जपेत् ॥
कराङ्ग्रष्टे शब्दकृते प्रजपेर्द्धि शतं शतं ।
पुरश्चर्या जपे होमे मालाहस्तच्युता यदि ॥
प्रायश्चित्तं शतं जप्त्वा तद्दशांश प्रवर्द्धनं ।
त्यजेद् दशांशं त्यर्जायं प्रायश्चित्त क्रमेण च ॥
केचिदत्रममिच्छन्ति पुरश्चर्या पुनर्भवेत् ।
प्रायश्चित्त शतं जप्त्वा पुरश्चरनमाश्चरेत् ॥
त्रुटिता मेरु मूले तु स्त्रिणां तस्य चादिशेत् ।
त्रुतिता चेत् स्वयं माला प्रायश्चित्तं समाचरेत् ॥
गजान्तक सहस्रं तु जपहोमसमाचरेत् ।
पुनः संग्रथनं कृत्वा प्राणस्थापनपूर्वकं ॥
तदा माला सिद्धिदा स्यान् नान्यथा शांकरं वच ।
१८४ब्)
अथ ग्रहमातृका मन्त्रमाह ॥
अथातसंःप्रवक्षामि ग्रहमातृ सुधासनं ।
ग्रहमातृरितुष्टायं किं ग्रहहैदुरितैरवि ॥
ग्रहमातरि तुष्टायां सुग्रहैः किं प्रयोजपं ।
मंगरापिङ्गलाढान्या भ्रामली भद्रिका तथा ॥
उल्कासिद्धासंकटा च विकटा गर्भपालिका ।
रौद्रनक्षत्र तचाष्टौजन्माधिष्ठ्या क्रमाद् दशा ॥
फलं नामानुरूपं स्यादेकोपचयमाब्दयाः ।
पिंगला सूर्यजनी महाव्याधिकारिका ॥
तुष्टावेच्छत्र वर्गस्य रुष्टा कुर्याच्च साधके ।
ब्जं बीजं तु समुच्चार्य पिंगले वैरिवारिणि ॥
प्रसीद फलडिति प्रोक्तस्त्रयोग्नि शक्ति वर्णिकः ।
दीर्घ षट्कयुजा पूर्व बीजेनवषडंगकं ॥
१८५अ)
पिंगवर्णापिंगकेशो पिंगनेत्राधुनुः शचान् ।
हस्तात्यर्थ दधतीं पद्मयुगलं तां भजाम्यहं ॥
अथ पूजा विधिं वक्ष्य सर्वासामेवतं तत्रः ।
जपा पुष्पानि शस्ता च धूपो तुग्गुलसंभवा ॥
घृतप्रदीप्तमधुरा नैवद्याः पायसादयः ।
अलंकारास्तथा रक्तास्तथा वस्त्राणि चन्दनं ॥
स्वर्णलंकारणैश्वापि समुद्रव्यैर्वहुपंचकैः ।
तर्पयेत् परमेशानिं तत्तन्मन्त्रैः सहस्रधा ॥
सुवर्ण पत्रे निःच्छंद्रे हस्तायामे मनोरमे ।
कृत्वा यंत्रं यथोक्तं तु योगिनिं तत्र पूजयेत् ॥
तत्तन्मन्त्रवलं जप्त्वा विघ्नंशात्यै सहस्रकः ।
सप्ताहेन प्रजायेते त्रिविधोत् पाववारकं ॥
१८५ब्)
ततश्च कुंडं विधिवत् कृत्वा चे चतुरस्रकं ।
अथवा स्थंडिले शुद्धे सुलिप्ते गोमयां वुभिः ॥
चतुहस्त प्रमाणेन यो जपे स्थिरमानसः ।
योगीन्यश्वितु संस्थाप्य कृत्वा पूर्वादिताः क्रिया ॥
अन्यासां दशवारं तु विरुद्धायाः सहस्रधाः ।
विल्व पत्रै तत्फलैश्च कमल्लरागकेशनैः ॥
जुहुयात् पायसान्नेन तथैवहुलव पूजयेत् ।
सहस्रमयुतं चापि लक्षं वा कामरा क्रमात् ॥
अथातसंप्रवक्षामि मध्ये देवीं प्रपूजयेत् ।
इच्छां ज्ञानां क्रियां शक्तिं त्रिषु कोणे पूजयेत् ॥
पूजा प्रकारो होमश्च सर्वासामयमेव ही ।
विशेषःषुनरत्रास्तशत्रोच्छदाभिचारकै ॥
१८६अ)
खड्गचर्माधारामुद्रां ध्याये पद्भुजधारीनी ।
गरुडासममासीनां वैनिसिग्रह कालिका ॥
लक्षमेकं प्रजप्यादौ जपेलक्षं हि तपयेत् ।
सर्वशत्रु विनाशः स्या दुःखं नाप्नोति कुत्रचित् ॥
अथातसंप्रवक्षामिश्चन्द्रमातुश्च साधकः ।
मायाद्या वह्निजायान्तो मंगले मंगलालये ॥
एकादशाक्षर मन्त्रो मङ्गलाद्याः प्रकीर्तितः ।
कृत्वात्वेन षडंगादि दीर्घषड्ग पूजा तथा ॥
ध्यायद् देविं त्रिनयनामुद्यदादित्य संनिभां ।
दरस्मरमुखां भोजां सिन्दुराधरं ॥
पद्म द्वय धनुर्वाणान् दधन्ती भुजपलवैः ।
सुगंजन्मज्यमंजीरंक्तंचीगुण विराजितात् ॥
१८६ब्)
एवं ध्यात्वा महेशानि पूर्ववत् परिपूजयेत् ।
ततोलब्धं तनुं जप्त्वा तारमाया पुरःसरं ॥
योगिनी क्षत्रवटुक गणाधिपवलिं हरेत् ।
सर्वास्थयेत पूजांते मंगलैव प्रसीदति ॥
योगिन्यार्तुपसार्थाय लक्षजपेमनुं ।
दुयोगिन्यानां कुल्यार्थं जपे तत्संख्यका युतं ॥
श्रष्टदृष्ट प्रतिवद्ध शुभायास्तु फलस्य च ।
प्राप्तजे जपतां चत् सहस्रं प्रत्यहं जपं ॥
प्रकर्तव्या वर्णशतं यावदुष्टा तु योगिनी ।
स्रष्टाया वर्णदशकं रोगिणं चाभिं मन्त्रयेत् ॥
वर्ण तुल्य न मन्त्रेण यस्याः सवापरो भवेत् ।
तस्य पीडानिवृत्तव्योद्वर्णात्यंगततैर्दिनै ॥
सायं विधिर्न वांतु विज्ञेयः सुरसमाः ।
१८७अ)
योगिनी तुल्य फलदा वाम मार्गे च दक्षिणेः ।
अथातः संप्रवक्षामि भ्रामरी भौममातरं ॥
क्षीं भ्रामपि पदं प्रोक्त्वा जयतां मे अधीश्वरि ।
भ्रामय क्लीं षोडशानौर्मत्रो स्याः परीकीर्तितः ॥
पिंगलावत् सर्वस्याः सिद्धियं शर्करान्दश ।
मन्त्रयित्वा न यामर्गे दशदिक्षु च संत्यजेत् ॥
प्रातस्तता व्रजेन् मार्गं मार्गस्थाः सर्व एव हि ।
सर्वे मोहं समायाति व्याघ्रा सर्पाश्च तस्कराः ॥
शुक्लनादुष्टभूचाश्च नित्यमेकं समाचरेत् ।
उपानत्कतले यस्य लिखित्वा नाम वा व्रजेत् ॥
योजनैकं जपेन् मन्त्रं सभ्रमेच्च वसुन्धरां ।
१८७ब्)
अथातः संप्रवक्षामि भद्रिकां बुधमातर ।
व्लूं बीजं तोयभूयो गार्जानमादौ समुच्चरेत् ॥
भक्तिके मे मम भद्रं देहीति च पदं पुनः ।
वदेर्च्च परभद्राणि नाशये द्वितयं ततः ॥
स्वाहान्तोजिनवर्णोयं भद्रिकाया मनुर्मतः ।
षट्दीर्घ युक्तबीजेन षडंगं विधिरीरितंः ॥
मंगला च च्छुभानां स्याध्यानं दुःफलदायिनां ।
पिंगलावत् समुद्दिष्टं जपाद्यं प्रोक्तवर्त्मना ॥
अथातः संप्रवक्ष्यामि धन्याख्यां गुरुमातरं ।
श्रीध्वजदे समुर्च्चार्य धन्य स्वाहाष्टवर्णकः ॥
षट्दीर्घाद्य बीजेन षडंगं विधिरितः ।
नास्ति धन्या समाकाचिदिह लोके फल प्रदाः ॥
१८८अ)
पुरश्चर्या त्रयं कृत्वा प्रागुन्मार्जित पातकं ।
सस्तंत्यधन्या ददते धन्यत्वं साधकयतु ॥
वृहस्पतीश्वराल्पश्चात् काश्वाधन्यां विलोकयेत् ।
पुरश्चर्या तत्र कृत्वा वंशोधन्यः प्रजायते ॥
अथातः संप्रवक्ष्यामि सिद्ध्याशुक्रस्य मातरं ।
ह्रीं सिद्धमत्सर्व मानसमुक्ता साधयतद्वयं ॥
हृदयान्ता मन्त्रवर्णः सिद्धाया मनुरीरितः ।
बीजेनैव षडंगानि जपाद्यं प्रोक्तवच्चरेत् ॥
नास्तिसिद्धा पासकानां कर्मसिद्धिस्तु कुत्रचित् ।
उपासकाये सिद्धाया ये नाम्नाय न जायत ॥
तदाम्नाय पदेवानां पाकेस्याः सर्वमेव हि ।
षट् कर्मसिद्ध्यते तस्य मनोराराधनं विना ॥
१८८ब्)
अथातः संप्रवक्ष्यामि चोत्कामंदस्य मातरं ।
ओं मम रोगं नाशाय भंजकायै दशाक्षर ॥
सर्वरोगापहो मन्त्रा मर्जनात् सप्तद्यमतः ।
उल्का मंत्रो यस्य सिद्धा न गदास्तस्य मंदिरे ॥
शीतायां महामया महिषं लक्षणान्वितं ।
उल्काप्रीत्यैतमुत्सृज्य नगरे भ्रामयत् पुनः ॥
नानावाद्यैः परिवृतं वस्त्रादिभिरलंकृतं ।
उत्सृजेर्त्तपमशोयामुपद्रव शमो भवेत् ॥
अथात संःप्रवक्ष्यामि संकटां राहुमातरं ।
ह्रीं संकटा चरोममे परमं नाशय द्वयं ॥
षोडशार्णस्तु मन्त्रोयं सर्वदुःख पनोदयः ।
काला गृहे जपे रक्षं बन्धमोक्षः प्रजायते ॥
१८९अ)
वीरेश्वरादुदङ्काश्यां संकटा यत्र संस्थिता ।
तत्र षोडश लक्षाणि जप्त्वा होमस्तु दुर्वर्या ॥

तस्या सिद्धा भवेन्मन्त्रस्तन्मुखाद्यदि निःसरेत् ।
अमुकस्यामुकं कष्टं गंतं तद्गतमेव हि ॥
अथातः संप्रवक्ष्यामि विकटां केतु मातलं ।
तारौ नमो भगवति विकटे वीर पालिके ॥
प्रसीदयुगलं मंत्रः प्रकृर्तिता ।
कास्यां वीरेश्वरासन्नार्पश्चिमे विकटा स्थिता ।
तत्र मंत्रमिदं जप्त्वा ग्रहतस्ताश्च वालुकाः ॥
उदरं चापि वंध्यात्वा प्रशवंभ्यास्तथा शिरः ।
यात्रादिभिस्त्यक्त वालान्तथा मातृविवर्जितान् ॥
साधकरे पृष्ठा नीरोगञ्चरजीविनाः ॥
१८९ब्)
अथ मुक्त्युपायमाह ॥
देव्युवाच ॥
क्वचिद् दक्षं क्वचिद् वामं क्वचित् सौचं च शांभवं ।
उर्द्धाम्नायं क्वचिद् दक्ष मूर्तरं परश्विमं क्वचित् ॥
अथ आम्नायकं चापि गाणापत्यं च वैषुवं ।
पारसीक क्वचिद्धौर्द्धा पाषण्डं च कोचिक्वाचित् ॥
द्वीपधर्मात्खंड धर्मात् कुलधर्मात्कालधर्मान्व्राति धर्मान् क्वचित् चेत् ।
तत्त प्रकरणेस्तौषिक्वचिन्निन्दसितं पुनः ।
तंत्रोत्तममिदं तन्त्रं प्रशन्नश्वेत्सुरापिरि ॥
तदा तत्वं मम ब्रुहि निःसंदेहात्सुनीत्कुरुः ।
श्रीशिव उवाच ॥
अहोकालस्य माम्यहं तंत्र तंत्र त्वया पुनः ।
पृच्छ्यते तत् तदाधिक्यं सोहं कालं व्रवीमि तत् ॥
वलेयं सात्विकि चर्जा वा कालस्यम्वया उपकाराय सर्वेषां पृथ तत्वं
व्रवीमि तत् ॥
१९०अ)
यथा वेद तथा लोके यथाकारं प्रजायते ।
यथा ब्रह्माण्डगोलोयं लिख्यते मध्येतः ॥
सत्य तत्र च षश्यात्वं पनितं कियदंतरं ।
तथा नरेण कालेन्त वेदे नेतरशास्त्रतः ॥
अन्तरं पश्य देवेशि शृणु तत्वं समातरं ।
यथाचानाहतः शब्दो नरे क्षप्यः प्रवर्तते ॥
स नित्योपि पतेत्कणेन कदापि पतेत् कणे । न कदापि मूमूर्षतः ॥
महापुरुषकालस्य तथा वेदध्वनि स्मृतः ।
कलेद्दश सहस्राणि यदा वर्षाणि यांचित ॥
वेदो नारायणः साक्षात् काला वयव जंतुभिः ।
न श्रूयते तदा विंज्ञेयः(?) कालः समागतः ॥
१९०ब्)
वग्जम्भाजुत पदादि शब्दाश्चोत्पर्तितश्वरा ।
वेदभिन्नाशिनास्त्राणि तथा जानं तु देवताः ॥
यस्य शास्त्रस्य लोकेस्मिन् प्रचीरायावदस्तिभि ।
वातत्तमार्गिणां सौख्यं वेदमार्गोह्य कुंठितः ॥
तस्या तत्मार्गकत्तारः शिष्यात् स्तन्मन्त्र दायिनः ।
ताना नयंतिस्य मार्गे यतस्तावत् सुखं भवेत् ॥
नृपां ज्ञानं यथा षड्भिरिंद्रियै परिजायते ।
तथा षदंगै वेदार्थ ज्ञानं भवति निश्चितं ॥
कर्मेन्द्रियानि च तथा नृणां पंचमितानि तु ।
तद्वत्काले महेशस्य पंचाम्नाया मयेरिताः ॥
उर्द्धाम्नाय समुद्दिष्टं वाचिकं कर्म तस्य तत् ।
तत्र प्रमानं वेदाः स्युस्तदंशाः स्यूतयस्तथा ॥
तदंगानि पुराणाणि गायत्र्याद्यास्तु देवताः ।
१९१अ)
ब्रह्मबीजं तथा क्षेत्रं संस्कारा ब्रह्मसंम्भवाः ।
ब्रह्मणा चरणं ब्रह्म विद्याभि ब्राह्मणो भवेत् ॥
यस्यावक्ष्यावयं यस्य वाच मध्ये तु धावति ।
एकस्मिल्लक्षणे हीने वागर्थ मनु धावति ॥
द्विहिने लक्षणे देवि स्वाचाला ब्राह्मणो भवेत् ।
लक्षण त्रय हीनोयस्तंत्र मार्गेण सिद्ध्यति ॥
चतुलक्षणहीनानां मार्गाः स्यु कौलिकादयः ।
एतल्लक्षण भिन्नेन यथा देहं यथाकुलं ॥
यथाजाति यथाकालं कर्तव्यं धर्मसंग्रहः ।
मिथ्यासंभाषणस्तयं सर्वमार्गेषु गर्हितं ॥
यत्किंचिर्जन्मयेत् कर्म न जपो न तपः क्रिया ।
जीवन्मुक्तः सत्य वक्ता सर्वसत्ये प्रतिस्थितंः ॥
१९१ब्)
अहिंसा परधर्मोर्मः स च वाक्काय कर्मभिः ।
दृढो यस्य न चारो न जातिः सोपि मुक्तवत् ॥
परसर्ताय तत्रन्तु विष्टावद्यस्य चेतसि ।
स पुष्कलौपि जानी ही जीवन्मुक्त न संशयः ॥
पडिन्द्रियिज्ञियज्ञानवतां सृष्टि भवति मैथूनात् ।
त्यक्तं तन्मनसा येन जीवन्मुक्तः स कोपी हि ॥
वेदाः पूजनमिच्छंतिस्तथाद्वर्द्धाः प्रतिग्रहान् ।
शुकवद्यो प्रतिग्राही जीवन्मुक्तः सन्यवीहि ॥
शौचं प्रकुर्वता नित्यं विष्ठा वुद्धिः कले वले ।
देहमाभिमानो गलितो जीवमुक्तः स एव हि ॥
यठेच्छलाभसंतुष्टः स्तौतिनोन च विंदति ।
न मुखेन दुग्धःखे कर्मनाशात् मुच्यते ॥
१९२अ)
हित्वा विषय सौख्यं यस्तपस्तपति निर्जने ।
न फलं कामयत् किंचिर्जीवमुक्तः स एव हि ॥
यावद् देहस्य निर्वाहस्तावत् कलं परिक्षिपेत् ।
वेदस्यात्यास्तः सर्वंः योनयेत् स तु मोक्षमात् ॥
कोहं कीं दृश्यते कर्ता कास्ययाति क्वचेतसि ।
इति संभावयं नित्यं महाकाले लयं व्रजेत् ॥
कलौ पाप समाकीर्णे न समाभिर्न योगता ।
यदि योगा भवेद् देवि न हि तत्र फलं भवेत् ॥
तस्मात् कारणता देवि मन्त्रयोगं समत्यजेत् ।
एते तु भूगमोपाय नात्रचित्तस्थिरं भवेत् ॥
कामक्रोधारिसंतप्तं महामाया विमोहितं ।
दुर्विज्ञया दुर्निवारा महाकालास्यग्येहिनी ॥
१९२ब्)
तदंशाराधनात् सा तु प्रसन्ना चेद्विमुंचति ।
सुवुद्धिभिः प्रियैः पुत्रैर्यथा मता प्रतायते ॥
तथा प्रतार्यते चेयं जीवे मुक्तः स जायते ।
कृतं वंध्यार्थ मनया खानपानं च मैथुनं ॥
ते नैव चेदियं वर्द्धा स्वयं मुक्तस्तथा भवेत् ।
वामिकैकोलिकैस्तम्मादज्ञानैश्च गुरुं विनाः ॥
समस्तैरथवा ज्ञानै वद्ध्यतेयं न चेतरैः ।
वंध्येयं वंधनैः स्वस्य त्रोटयंद्वंधनानि च ॥
भावयेच्च महाकालं जीवन्मुक्तस्तदा भवेत् ।
वंधमोक्ष प्रकारस्तु तत्रयं कुलिता मताः ॥
यैज्ञाना गुरुमार्गेन तैवर्द्धेयं सदुस्तराः ।
सुकृतान्मानवो भूत्वा ज्ञानी चे मोक्षमायात् ॥
चतुराशीति लक्षे वुं? शरीरेषुरीरिणां ।
१९३अ)
नमानुष्यं विनान्यत्र तत्वज्ञानं तु लभ्यते ।
अत्र जन्म सहस्राणां सहस्रैरपि पार्वति ॥
कदाचिल्लभ्यते जन्तु मानुष्यं पुण्ये संचयात् ।
सोपानभूतं मोक्षस्य मानुष्यं प्राप्यदुर्लभं ॥
यस्तारयति नान्मानं तस्यत्वापतरोत्रकः ।
नरः प्राप्योत्तमं जन्म लब्द्धा चेन्द्रिय सौष्टवं ॥
न वेत्यान् महितयम्तु सम्भवेद्ब्रह्म घातकः ।
विना देहेन कस्यापि पुरुषार्था न विद्यते ॥
तस्माद् देहं धनं धनं राज्यं पुण्यकर्म नियोजयेत् ।
लक्षयेत् सर्वदान्मानमान्मा सर्वस्य भाजनं ॥
रक्षणे सत्वमातिष्टेज्जीवन भद्राणि पःश्यति ।
पुनग्रामं पुनःक्षेत्रं पुनर्वित्तं पुन गृहं ॥
१९३ब्)
पुनः शुभकर्म न शरीरं पुनः पुनः ।
शरीर रक्षणाया सः सततं क्रियते जनैः ॥
यावत् तिष्ठति देहीयं ताव तत्वं समभ्यसेत् ।
ब्रह्माविष्णुमहेशानि देवता भूतजायतः ॥
नाशमेवानुधावंति तस्मात् तत्वं समभ्यसेत् ।
यावन् न जीयते दुःखं योवन्ना याति चापदः ॥
यावन्नेन्द्रियकै वैकल्पं वर्तात्तत्वं समभ्यसेत् ।
इत्थं सर्वसमाख्यात तवाग्रेमपि पार्वतिः ॥
इति श्रीकौलरहस्य सर्वागमसारे षट्विंशपटलः

27

अथ बलिदानं ॥
अथाते वलिदानंस्य वधिरत्र निगद्यते ।
वलिस्तु त्रिविधौ ज्ञेयस्तांत्रिकस्मात्तन्य वच ॥
१९४अ)
वैदिकश्चेति तत्रादौ तान्त्रिकोष्ट विधः स्मृतः ।
नित्याऽनि पशुवलिर्नित्यो नैमिर्त्तिकार्चने ॥
आवश्यकः पशुवलिस्तस्मान्नैमिर्त्तिक विधौ ।
पशूनायांति भेदेन भिन्ना च प्रोक्षण क्रिया ॥
पूजान्ते वक्ष्यते सापि वलिदान क्षणे प्रिये ।
वलित्वेन विनिर्दिष्टा महिषष्टागलादयः ॥
जलजास्था लजाश्चापि ग्रामजारण्यजास्तथा ।
पश्यवः पक्षिणः कीटास्तीर्यग्योनयवच ॥
इमे विधात्रा विहिता वलित्वेन दिवौकसां ।
नान्यै नैवेद्ये संभारैस्तथा तुष्यन्ति देवतां ॥
यथा पशूनां वलिभिर्वीहिगानां तथैव च ।
अत एव हि देवेशि यज्ञादौ विहितस्वसौ ॥
देवानां प्रियशब्दस्तु पशुपर्याय उच्यते ।
१९४ब्)
एवं विज्ञाय सिद्धन्तं देव्याः संतोषहेतवे ॥
पशुन् दद्याद् वलिं त्वेन मध्यानपिहिताः प्रिये ।
आलभेत वृषं श्वेतां यज्ञं गोमधनामनि ॥
नरमेधे नरं चापि गजक्रान्ते गजन्तथा ।
अश्वमेध शंखचूड्क्षेवहस्तिनं ॥
व्रवीति यत्रकैवविदोपि तत्र चाणणा ।
तस्मान्नैमिर्तीकार्चार्या वलिरावश्यकः प्रिये ॥
विशेषेण प्रदातव्यो देवी संतोषहेतवे ।
वलिम्विना नैव देवी पूजानंगी करोति हि ॥
तत्राप्यूभौ प्रशस्यते महिषञ्छाग एव च ।
अन्य देवो चितवलि विचारैः किं प्रयोजनं ॥
येन संतुष्यते काली तद्विचारं ब्रुवे धुना ।
१९५अ)
आरण्य अथवा ग्राम्य जलवैजानां च जायतः ।
खगानां जातयश्चापि ता एवादौ व्रवीमिदे ॥
मत्स्यामृगावराहश्च कच्छपा महिषास्तथा ।
गंडक्या गोधिकाग्राहाः शार्कला हरयो पिवा ॥
नकुलाशलभाश्चापि गवयाञ्चापि गलास्तथा ।
मनुष्यापक्षिणश्चापि तेषां कोशा अपि प्रिये ॥
भगवत्या वलित्वेन विधात्रा वलि कल्पिताः ।
एतेषां वलिदानेन सर्वकार्याणि साधयेत् ॥
अथ वलिदान फलं ॥
वलिभिवर्द्धते कायुर्वलिभिः शाम्यतेरुजा ।
जयेत्परातीन् वलिभिर्वलिभिः प्राप्यते धनं ॥
वलिभिस्त्रिदिवं व्रजेत् ॥
निष्कामानं वलौदर्ते प्राप्यो मोक्ष्योपि यद् भवेत् ।
१९५ब्)
अथ जाति भेदा तथोवक्ष्य समासादुपरारये ।
अष्टादशविधामत्स्यो चतुर्विंशतिधामृगा ॥
वराहाः पंचधा प्रोक्तास्त्रिभेदाः
कच्छपाद्विभेदामभिषास्तद्वगण्डकाश्च चतुर्विधाः ॥
गाधिका च त्रिभेदास्युर्द्विविधा ग्राह एव च ।
त्रिविधौ व्याघ्रसिंहौ च नकुलो द्विधापि च ॥
शलभैश्चैकजातिः स्यान्नास्य भेदो वरानने ।
गवयस्त्रिविधः प्रोक्तः छागः षष्ठविधौ मतः ॥
चतुर्विधा मनुष्याश्च षट्त्रिंश जातयः खगा ।
क्रमेण नामान्य तेषां व्याहरामि तव प्रिया ॥
अथ पशुलक्षणं ॥
श्रेष्टस्तत्र कलौ देवि महापीठे नरोवलि महापीठे नरो वलिः ॥
कर्तव्यः साधकेन्द्रेण सचारोगी च सुन्दरः ॥
१९६अ)
धातुवर्द्धः कृष्णकुर्चोक्षरादिरनुलोमजः ।
मुल्योद्ग्रीहीतः पापिष्टा देवतैः स्वयमागतः ॥
वर्षषण्मासमर्थवा यथैच्छाचारपालित ।
स भवेद् वलियोग्यस्तु नान्यश्चौरादिकी हृतः ॥
महिषः पंचमादुर्द्धं दशाधस्ताद्वनोद्भवः ।
ग्रामजोपि महक्रूरो नीरकुसांडौकवर्णकः ॥
आरक्ताक्षश्चोर्ध गृग्रोदीघपुच्छश्च मांसल ।
अनारवाहकोभीतो वलि योग्यः परो नसत् ॥
वनस्थाःश्चैत वर्णोयावन एव प्रपालितः ।
महाशूरोमांशलश्च शुकरो योग्य उच्यते ॥
ऊर्द्धं त्रिवर्षात् सप्तार्वाक् मग्निहीनश्च मासलः ।
१९६ब्)
एकवर्णो देवताया वर्णरूपो शदोज्झितः ।
सांडः ससृगोयुर्गशागंधिमानौषधादिभिः ॥
विगंधी कृत्य वलये योह्यंः सर्वोत्तममृयं ।
अजस्य लक्षणं देवि कथयामि विशेषतः ॥
उर्द्धसंगमुर्द्ध लोमालम्बकणश्वपीवरः ।
साहंकारः पुष्टतनुर्वलीपलित वर्जितः ।
लम्बकर्णः शुर्द्धकृष्णः प्रशस्तः पशुलक्षणः ।
श्वेतः कृष्णालोहितश्च कपिलश्चित्र पांडरौ ॥
पद्धिधञ्छागलः प्रोक्ता गृहस्थानां पलोवलिः ।
उत्तमौसित कृष्णै च मध्यमौ चित्रपाडलौ ॥
लोहितः कपिलञ्चैश्चैव कविष्ठ परिकीर्तितः ।
त्रिमासात् परतश्चैव यावर्द्धोर्ष द्वयं भवेत् ॥
उर्त्तमोसौ वलिः प्रोक्तास्तस्मार्द्धीनोधमः स्मृताः ।
१९७अ)
कृष्णवर्णो वलिर्यस्तु श्वेतपूच्छो यदा भवेत् ।
च्छागलं तादृशं विद्वान् दुरः परिवर्जयेत् ॥
एवं सिते कृष्णपुच्छे वर्जयेन्मतिमात्सदा ।
कृष्णवर्ण्येच्छगलस्तु पृष्ठवंशेसितो यदि ॥
प्रशस्तं तं विजानीयाद् विपरीतं तु वर्जयेत् ।
पंचाब्दं महिषं श्वेतं प्रशस्तं परिकीर्तितं ॥
स एव महिषः श्वेतं प्रशस्तं परिकीर्तितं ।
स एव महिषः कृष्णः पांडलेश्चाधमो वलिः ॥
पञ्क्षिणस्तु प्रशस्ताः स्युः सर्ववर्णः सुशोभनाः ।
त्रिपक्षात् परतश्चैव दिने चापि विवर्जयेः ॥
सर्वेषामेव वर्णानां देवतानां तथैव च ।
अति कालः प्रीतिदश्च यज्ञप्येको विशिष्यते ॥
मेषः स शृंगस्त्वाजवच्छृंग हीनोपि कुत्रचित् ।
वर्षच्च यायार्धं च गृहे पालितो वलवर्तरः ॥
१९७ब्)
मांसभारोत्तथोदाने नक्षमः सारसो वरः ।
नीलकंठच्छविः कंठे कघोतः पुष्टकंधरः ॥
वर्षादूर्द्धं गृहे पुष्टो वल्यर्थं योग्य उच्यते ।
सर्वषामग्रतोरौति यः प्रातर्वहुवर्णकः ॥
मांसलस्त्वेक वर्णे वा ताम्रचूडो विशिष्यते ॥
अथ निषिद्धानि ॥
काश्चिन्निषिर्द्धानुक्ष्यामि विहितेषु वलिष्वपिः ।
ग्राम्यानाथवन्यानां पशूनां पक्षिणां तथा ॥
स्त्रियं नैव प्रजुर्जीत वलिकर्मनि साधकः ।
ज्ञानपूर्ववलिं दत्वा नरकं प्रतिपद्यते ॥
अज्ञानेन विनिर्याति किंचित् पायं समश्नुते ।
अत्रिसाससमुत्पन्नं पशुं न विनियोजपेत् ॥
पुनस्तर्द्धानुगतं जातु देव्यै समर्पयेत् ।
भग्नं शृगं भग्नदन्तमच्छिन्नानालमेव च ॥
काणं व्यंगं रोगिनं च शृगाहतनरं तथा ।
१९८अ)
दुष्टं गलितरोमानं क्षीरपंचगलद्विशं ।
पशुनददृशं तथा चैव हि हायसं ॥
च्छिन्न त्रोटिं च्छिन्नपक्षं नुग्नमाहारवर्जितं ।
अनुड्डीनं तथा काशे मातुरङ्कपरिस्थितं ॥
विहितावर्य विज्ञतौ न दद्यापशुपक्षिणौ ॥
भग्नाङ्गहीनः कृर्तार्णो वालोवृर्द्धो न शस्यते ।
न दद्यात् स्त्री पशोर्मांसं हव्यकव्ये विशेषतः ॥
अथानुकल्पः ॥
देवेश चानुकल्पस्य विधिं ब्रूहि सत्वरंः ।
वानप्रस्थो ब्रह्मचारी गृहस्थो वादयो परः ॥
सात्विकी ब्रह्मनिष्ठश्च यश्व हिंसा विवर्जतः ।
तेन दद्युः पशुवलिमनुकल्पं चरन्स्वपि ॥
तर्तात् पदानानां फलावात्यै वरानने ।
घृतगोधुमैक्षव्यद्यैः फातितैरनुजैस्तथा ॥
कृत्वा तं तं पशु दद्युस्तर्तत् फलमाप्नुयुः ।
१९८ब्)
कुष्माण्ड पनसा सवू(?) कर्कटी वील्वडाडिमाः ।
द्राक्षाखर्जुरलकुचरसालाऽमलजम्बूकं ॥
नालिकेलेक्षुदण्डाश्च मोचामोम्रातकतीर्कराः ।
नालिकंलेक्षुदण्डाश्च मोचाम्रातकतीर्कराः ॥
बीजपूरागरंगास्तालां च फललापि ।
वलि तुल्यानि चैतानि छागतुल्यानि तृप्तिषु ॥
माहिषत्वेन कुष्माण्डं च्छागत्वेनैव कर्कतीं ।
वृर्ताकं कुर्कुटे त्वेन तथा कोशातकं मृगे ॥
पायंसंतुगगजत्वेन मार्जात्वे कुलस्थकं ।
पटोलंशूकरत्वेन शर्करावाल्लुकं तथा ॥
खड्गत्वेन महेशानि मत्सत्वे कदली फलं ।
मुखत्वे मूलकं चैव सारंगत्वेकलिंजकं ॥
१९९अ)
कलित्वेनारिकेलं च कल्पयेत् परमेश्वरि ।
माषाः सर्व वलित्वेन सर्वेषां कृशरान्नतः ॥
पायसा पूपसंतापास्नुड्ड्रकैः कशरान्तकैः ।
शाकोदनैस्तथा सुपैपिण्याकाद्रकपोलिका ॥
वटकालसुनं गृजं कलिजं बीजहोदरं ।
नानोपायैः षड्रसैश्च वलिरेषः प्रकीर्तितः ॥
क्रूरविद्याविधौ देवि पशुंपिष्टयं चरेत् ।
यवक्षोद मयं वापि यद्वा धान्यसमुद्भवं ॥
माषपिष्टमयं देवि सर्वकर्मणि कारयेत् ।
गुडार्द्धक दधिगुडो लवणं गुडमेव च ॥
कुष्माण्डं नालिकेरं वा श्रीफलं चक्षुमेव च ।

वस्त्र संवेष्टितं कृत्वा छेदयच्छुलिकादिभिः ॥
एषस्मार्ता वलिः प्रोक्ता धर्मशास्त्रानुमिनां ।
१९९ब्)
पूर्वपूर्वात्रापि चोक्ता विशिष्टो देवताषकः ।
यस्य यत्राधिभक्तिस्तेन तुष्यति देवताः ॥
वैदिकं तु वलिं दद्यादोदनं स्विन्न मायमान् ।
सरोचन मति क्रूर दैवते वटते कान्वितं ॥
यथानुकल्पयोगेन योगिनियं महेश्वरिः ।
यथोक्तविधिमासाद्य यथोक्तं फलमाप्नुयात् ॥
अथ प्रोक्षणं ॥
श्रीपार्वत्युवाच ॥
प्रसूनां प्रोक्षणं देवि प्रकाराणि कथं विभो ।
श्रीभैरव उवाच ॥
देयादेय विचारस्तु एतावानुपवर्णितः ।
स्थान पात्राधिकारिंष्ट दानकाल क्रमोपि च ॥
इदानींमेकरूपेण सर्वेषां प्रोक्षणं शृणु ।
वाराही यमुना गंगा करतोया सरस्वती ॥
२००अ)
कावेरी चन्द्रभागा च सिंधु भैरव सागराः ।
अजस्नने महेशानि सानिध्यमिह कल्पयेत् ॥
अर्घपात्रोदकैः शुद्धैर्मूल न प्रोक्षय त्रिशः ।
पशुपाविनाशाय हेमकूट स्थिताय च ॥
पराय परमेष्ठिरे हूंकाराय च मूर्तयेत् ।
बिल्व पत्रोदकैरेभिः प्रोक्षणं कारयेदये ॥
पशुनां यत्र वाहुल्यं भवेद्विर्तानुसारतः ।
तत्रैव प्रथमं देवि सर्वलक्षणलक्षितं ॥
ड्डर्जस्विनं सुन्द्ररश्च वलिनं पशुमुत्सृजेत् ।
अनन्तरं क्रमेणैव न च तत्र विचारणा ॥
अस्त्र मन्त्रेण संरक्ष्य कवचेनाव गुण्ठ च ।
मूलमन्त्रं समुच्चार्य धेनुमुद्राः मृतीकृतंः ॥
गन्धपूष्पाक्षतैस्सम्यक् परिपूज्यो पचारकैः ॥
२००ब्)
वलिसंपूज्य विधिवद् गंधपूष्पाक्षतादिभिः ।
चैतन्यं काम डाकिन्यो बीजत्रयमिदं स्थितं ॥
वाक्पादो फत्परं पायुरूपख्या चक्षुषी ततः ।
कर्णौ सर्वाङ्गनिततो मनःशेषे निगद्यते ॥
सरस्वति च पृथिवी मित्रश्च जलमेव च ।
तेजा नभो दिशः काली लीयताञ्च क्रिया पदं ॥
हृदद्वस्तु शीर्षाण्यन्ते च मनवोऽष्टौ स्फुटा मताः ।
पाद्यार्घा चमनीयाद्यौ गन्धपुष्पै वलिं ततः ॥
पूजयेद् देवता वुद्ध्या प्रणमेन् मनसा तथा ॥
अथ पसु गायत्री यथा ॥
पशोः कर्णे चापि पशु गायत्रीं तदनुर्चरेत् ।
तत्परं तन्मनुं चापि समुर्द्धारं शृणु द्वयोः ॥
योगिनी बीजतो ङेन्तं वलिरूपं तु विद्महे ।
२०१अ)
देवी प्रिये पूर्वा वच धीमहीतिः परं ।
तन्नः पशुदिति प्रोच्य वदेर्चाथ प्रचोदयात् ॥
अथ खड्गलक्षणं लक्षणं तन्त्र वर्त्मना ।
येन संच्छेदनेनापि साधकः सिद्धिमालभेत् ॥
सर्वेषामुर्तमः खड्गश्चन्द्रहासः सुखावहः ।
पंचाशदंगुलोः कार्यः किम्वा तालत्रयेण तु ॥
करवीरदलाकारः किम्वा पद्म दला कृतिः ।
अथवा कुब्जखड्गेण दण्डखड्गेण भेदयेत् ॥
महावलीनां सर्वेषां दात्रमत्र प्रकीर्तितात् ।
कर्तकयां क्षुरेणापि छिद्याच्छुरिकया न च ॥
कुठारपर्शु खंडाभैश्च्छेदद्येयेन्न कदाचन ।
खड्गाग्रमध्येमुष्टो तु मिथुनानां त्रयं जपेत् ॥
वागीशी सहितो ब्रह्मा लक्ष्मी नारायणौ तथा ।
२०१ब्)
उमा महेश्वरो चैव तत आवाहयेदसौ ।
काली कृतान्त सदृशीं येनच्छेद्यो वलिः प्रिये ॥
माया कुर्चः शाकिनि च एह्येहि भगवत्यपि ।
चामुण्डा चाथ सानिध्यं कुरु युग्मत्यधिष्ठिता ॥
भवद्वयंधिहिनं फट् युगं शिरः ।
खड्गस्य मूलमन्त्रेण खड्गं समाभि पूजयेत् ॥
तारपाश त्रयाकूर्च शाकिनीभिः उच्यते ।
ध्यायेत् कुशुमादाय खड्गमादौ वलानने ॥
कृष्णापिणाकपाणि च कालताराति स्वपिणंः ।
उग्रं रक्तास्य नयनं रक्तमाल्यानुलेपनं ॥
रक्ताम्बर धरं चैव पाशहस्तं दुम्बिनंः ।
पिबमानश्च रुधिरं भुजानं क्रव्यसंहतिं ॥
क्षोभयन्तं जगत्सर्वं कंपनादि प्रसारणैः ।
२०२अ)
वेष्टितं मृत्युकालाभ्यां वामदक्षिणभागतः ।
पूर्वादितेन मन्त्रेण प्रत्येकं कीर्तितेन हि ॥
गन्धपूष्पाक्षतैद्धूप दीपैपाद्यादिभैर्यजेत् ।
ततो वर्द्धाजलि मन्त्रं पठेत् खड्गर्तिरीक्ष्यवीः ॥
रसनात्वं चण्डिकायाः सुरलोक प्रसाधक ।
तुक्षौ तस्य पशोरक्तं क्रव्यसंहंतिमेव च ॥
च्छिंधीममिव मे शत्रु मगलानि प्रयच्छ च ।
दैत्यदानवरक्षो सृक् मदोन्मत्त नमोस्तुते ॥
एतेन खड्गमान्त्र्य तन्नामाष्टकमुच्चरन् ।
गृह्नीन्निशितं खड्गं येन सत्यो भवेद् वधः ॥
अशिर्विंश सः खड्गस्तीक्ष्नुधारोदुरासदः ।
श्रीगर्भा विजयश्चैव धर्म पालस्तु नमोस्तुतेः ॥
२०२ब्)
तारकां युगं यज्ञ शारिलोहपदं वदेत् ।
दंडायै नम इत्यतेन् मन्त्रंः षोडश वर्णकः ॥
अष्टोत्तरशतं जप्त्वा तत उत्थाय साधकः ।
प्रहराणां चपि काली तेषामेव विधियते ॥
सोयं वा भ्रातृ पुत्रो वा भ्राता वा सुहृदेवताः ।
स पिण्डंश्चेदेयद्वापि शुद्धातः करणो यदि ॥
नरि पूर्णां गहिनो वा न काणं नापि कुब्जकं ।
न योजयेच्छत्रु पक्षं वलिच्छदन कर्मणि ॥
उर्तराभि मुखो भूत्वा वलिपूर्व मुखं तथा ।
नीरीक्ष्य सधकः पश्चादिदं मन्त्रमुदिरयेत् ॥
पशुस्त्वं वलि रूपेणे मम भाग्यादुपस्थितः ।
प्रणमामि ततः सर्वरूपिणं वलिलुपिणं ॥
चण्डिका प्रीति दानेन दातुरापद्विनाशिनं ।
चामुण्डा वलिरूपाय वलतुभ्यं नमोस्तुतेः ॥
यज्ञार्थे वलयः सृष्टास्वयमेव स्वयंभुवा ।
२०३अ)
अतस्तां घातयाम्यद्ये तस्माद् यज्ञ वधोऽवधेः ।
शिवात् कृतमिदं पिण्डं मतस्त्वं शिवतांगतः ॥
उवुद्ध्यास्वपशोत्व हिना शिवत्वं शिवाह्यसिः ॥
ऐं ह्रीं मिति मन्त्रेण वंते वलिमत्स्वरूपिणं ।
चिन्तयित्वा न्यसेत् पुष्पं कुम्भकेनास्यस्तकः ॥
छित्वानेन पशु सद्यस्तदीयं रुधिरं प्रिये ।
ततः स्वर्णादि पात्रेषु गृह्नीयदुर्ष्ण फणिलं ॥
पात्राणि यथाः ॥
अथ पात्रादि वक्षेहं स्थाप्यते यत्र शोणितं ।
हैमे वा राजते तांम्रे ग्राह्यं रक्ता महीभृताः ॥
समन्तर्मण्डलीकैश्च ताम्रे वाकंस्यरैस्वयोः ।
दरिद्र गृहिभिश्चापि मार्तके वाथ दारव ॥
अथ वाङ्मपुते वानैव लोहे कदाचन ॥
२०३ब्)
नरंगेसी सकेवापि नालिकेल फलेत्वचि ।
कौलाणां सर्वपात्रेभ्यः कपालं नान्यमीष्यते ॥
येषा पशूनां पललै यावती तृप्तिरीरिता ।
भगवत्या प्रिये तृप्ती रुधिरैरपि तावती ॥
नित्य नैमित्तिके वापि कात्यायन्याः प्रसूजने ।
विना कलि नैव दद्यादामे पललशोणिते ॥
पशोर्वा पक्षिणो वापि नरस्यापि विशेषतः ।
अथ मस्तकपति फलं ॥
एवं दत्वा वलिं देव्यै वलिदानविधिर्ययाः ।
शुभाशुभं स्वजानीयाद्राह्यस्य च नृपस्य च ।
यदि वयव्य दिग्भागे नै-ऋत्य दक्षिणेपि वा ॥
मस्तके पतिते चैव हारिरत्र विनिर्दीशेत् ।
शेषेषु दिक्षु सर्वासु विदिक्षु च फलं शृणुः ॥
२०४अ)
सर्वचोर्त्तर दिग्भागे पतते यदि मस्तकः ।
सर्वसंपत्करं विद्या डाजाराज्यं विर्दिशेत् ॥
भ्रमित्वा दक्षिणे कर्णे यदा पतति वै शिरः ।
तदा सिद्धिं च मासांते वामकर्णे विपर्भवेत् ॥
राज्ञामग्रे भवेर्द्धाणिर्गृहस्थानां शुभं भवेत् ।
ऐंशान्य मध्ययोश्चैव पतते यदि मस्तकंः ॥
तदा स्वल्पेन कालेन सर्वसिद्धि भवेद् ध्रुवं ।
च्छिन्नशिरो निपतितं सहास्यं यदि दृस्यतेः ॥
विभूतिं तस्य जानियाद् राजाराज्यं विनिर्दिशेत् ।
एकवारे भवेत् सिद्धींर्दिवारेहानिनुच्यते ॥
गृहस्थानां विजानीयाद्राज्ञां भुविपरीतकं ।
यदाश्रु दृश्यतेत्र तदाहानिं विनिर्दिशेत् ॥
यदा कटकटा शब्दो दन्ताना श्रूयते क्वचित् ।
२०४ब्)
तदा तु मरणं विद्यार्द्धानिंसर्वत्र विनिर्दिशेत् ।
दत्याद्रक्षसदिग्भागे मन्त्री वलिशिरः स्वयं ॥
तर्द्दक्षिणे रक्तपात्रं विपरीतं न संददेत् ।
देवस्य संमुखं कृत्वा च्छिन्नं भागं प्रकल्पयेत् ॥
तदैव शस्तं जानीयान् मध्यमं विपरीतकीं ।
वलीनामिति संज्ञानं शिरश्च पुरतो ददेत् ॥
कीलकान्ते न्यत्सर्वं यथाकम्पो न जायते ।
शीर्षोपरि ज्वलद् दीपं प्रदद्यार्चन्द्रनाक्षतंः ॥
घृतेन सार्वभौमः स्यात न सिद्धि च विन्दति ।

शिरश्च संमुखे स्थाप्यं स दीपं पात्रवर्जितं ॥
स चापि हविरक्तः स्यादथ वा तिलजाक्षितः ।
सार्षप्रन प्रदातव्यं न चान्य फलसंभव ॥
२०५अ)
मुर्द्धाभिधिक्ता हभिषा तैलेन वहुसिद्धिभात् ।
अन्यवीनोद्भवैरोगं शोकं मृत्यु च विन्दतिः ॥
यथा लोमानि दह्यन्ते यर्तात् कार्यन्तथा नरैः ।
सूत्रवर्तिं प्रदद्यार्च वस्त्रवर्त्या प्रश्यते ॥
अंगुष्ठस्य प्रमाणं च दीर्घ चैव षडंगुलं ।
कार्तलसुत्रै दद्यादेक विंशति सूत्रकैः ॥
सुगन्धी द्रव्यैस्त कुर्यात् कुर्पूरागुरुचन्दनैः ।
ग्रहाणां कच्छपानां च गोधायाश्च विशेषतः ॥
तत्स्यारामपि पक्षीणां न दीपं दापयेच्छिरः ।
शीर्षोपरि ज्वलद् दिपो यावत् कालं वत्तत ॥
तावत् कालं वसेत् स्वर्ग तस्माद् यत्नेन दापयेत् ।
होमदाहोद् भवं गंध घ्रात्वा देवी प्रसीदतति ॥
तस्मात् संवर्द्धयेद्वीपं तस्मात् पात्रं विवर्जयेत् ।
निर्वाणे मृत्युमाप्नोति दीयमाने प्रदीपके ॥
२०५ब्)
ततः पात्रं पुरकृत्वा देव्याः पशुशोभितं ।
शर्करा युतदुर्वाणां प्रदद्या त्रिमहाघृतं ॥
सैन्धवं शृंगवैरं च कदली फलमेव च ।
पातयेन् मधुराणां च काममुर्द्दिश्यसाधकः ॥
अष्टधा विभजेद् विद्वान् मध्ये चैकं कुशादिभिः ।
दत्वा किंचित् घृत तत्र कुर्यातर्तपमुद्रया ॥
तर्पणं भागभाजां वै देवीनां द्विर्द्विरेव च ।
आद्यन्तिमौतालाहार्द्दि मध्य आदि मनोनिपि ॥
तर्तन्नामान्नमपि च तर्पयामिति संयुतंः ।
द्वितीयं रूपं ङेन्तां च तद्वितीयो पदोदितं ॥
मध्ये नित्योदित आख्या पात्रवत् पीठशा क्रिया ।
पूर्वस्यां दिष्ठि चामुण्डा दक्षिणस्यां तु योगिनी ॥
डाकिखुक्ता पश्चिमाया मुर्तरस्यां तु भैरवी ।
२०६अ)
विदागिकाग्ने काणे नै-ऋत्यां पापराक्षसी ॥
पूतना चापि वायव्ये ऐशाने कालिका तथा ।
तत स्तुतिं प्रकुर्वीत वर्द्धाजलि पुटाग्रतः ॥
जय देवि जगत्मातात् र्जयपापौघहारिणा ।
जय जन्म जलाव्याधि तृण्यादावानाला कृते ॥
जयसर्वविपर्तिघ्ने जय त्रिदशवन्दिते ।
जयनित्यानन्दरूपे जयकल्ताण दायिने ॥
र्ययत्रुशक्षकरेर्यत जयरोग प्रणासिनि ।
जयभीमे जयघोरे जगशंकटतारिणि ॥
जयमृतरसा स्वाद तुन्दिलामन्दविग्रहा ।
त्रिनेत्र किकलालास्ये मुण्डमालाविभूषिते ॥
सर्वासुरक्षये करिखड्गखट्वांग धारिणी ।
महाघोरे महारावे दैत्यदर्पनिसुदनि ॥
इमं पशुवलिं देवि गृहात्वा कालरात्रिके ।
प्रीता भव महाचण्डे रक्षमां शरणागतंः ॥
२०६ब्)
आयुरा हि धनं देवि भाग्यं कीर्तिं च देहि मे ।
स्त्रियं देहि सुतान्द्रे हि सर्वाकामांश्च दोहि मे ॥
उग्र चण्डे प्रचण्डासि प्रचण्डकरवालिनि ।
महाचण्डोग्रदोर्दण्डे विश्वेश्वरि नमोस्तुते ॥
रक्षमांशरणापत्वं त्वपादार्पित मानसं ।
हरपापंहरक्ते हरशोकं हरासुखं ॥
हररोगं हरक्षोभं हरदैत्यं हर प्रिये ।
स्तुति मेतां पठित्वैवं दण्डवत् प्रणमे भुवि ॥
गुह्यकालि जगद्धात्रि सर्वान्तर्यामि निश्वरि ।
गृहेत्वेमं पशुवलिं यथोक्त फलदा भव ॥
कायेन न मनसा वाचा त्वर्ता नन्यागतिर्ममः ।
अन्तश्चरसि भूतानां उष्टीत्वं परमेश्वरिः ॥
इति श्रीकौलरहस्य सर्वागमसरे सप्तविंशपटलः

1

प्. २०७अ)
अथ सर्वापयुक्ततया मातृकावर्णानां प्रत्येकं ध्यानादिकमाहः ॥
श्रीभैरवोवाचः ॥
शृणु देवि प्रवक्ष्यामि पञ्चाशद् वर्ण निर्णयं ।
यैर्व्याप्तमखिलं देवि त्रौलोक्यं स चराचरं ॥
एकैकस्य तु वर्णस्य ध्यानधारनरूपकंः ।
आयुधन्यानसंङ्मुद्राः कर्म तेषां पृथक् पृथक् ॥
एत सर्वं समासे च शृणुष्व कथयामि ते ।
वहुशा मन्त्रकाट्यस्तु सासांरसं भवन्ति च ॥
सत्पाद्याः पशवः प्रोक्ता ईशानान्ताः सुमध्येमेः ।
ब्रह्मादेषां चरेदज्ञो मोचानायानकं प्रति ॥
पञ्चाशदक्षरा एते कलाः पञ्च तथैव च ।
पृथिव्यां जानि भूतानि पञ्चैतानि पृथक् पृथक् ॥
द्विसप्त भुवणं सर्वं ब्रह्म व्याप्ति समन्ततः ।
एभ्यो मन्त्रा समुद्भूता नानाकर्मश्चराश्चये ॥
मन्त्राणां चैव रूपंञ्च प्रमानं दैवतं तथा ।
२०७ब्)
ब्रह्माणि च भुजां चैव वर्णान्वर्ण युधानि च ।
साधकाय न जानन्ति न तेषां सिद्धिदा क्वचित् ॥
यानि कर्मानि कुर्वंन्ति यत्र यत्रापि जोजिताः ।
तस्मात् सर्व प्रजन्नेन ज्ञातव्या मातृका वुधाः ॥
ककारं कनकाभसं सौवर्ण कलशासनंः ।
सुवर्णकवचं हैमं महापुरुषविग्रहं ॥
खड्गहस्तं चतुभुजं महासौ उंचतुभुजंः ।
क्षोभयत् पृथिवी सर्वास शैलरकालनंः ॥
पुरुषो अस्मरे नित्यं विषनाशायका कथाः

2

खकालं धूम्रवर्णाभं चापपाणि खरासनं ।
त्रिशीर्ष त्रिभुजं रौद्रं त्रिचालं नवलोचनंः ॥
सर्वग्रहहरह्यन्तमन्तराय हरंन्तथाः ।
सर्वज्वल हलं चैव ग्रहसैन्य विमर्दनंः

3

२०८अ)
गकालं गगनारूढमष्टवाहुं चतुमुखंः ।
त्रिशूलपाणि रौद्रं च हिमकुन्देन्दु सन्निभं ॥
विषनाशयते ह्येषमर्जाग्रमस्थिशं तथा ।
गजवक्त्रं स्वयं ह्यन्तं सर्वविघ्नविनाशनं

4

घकालं वृषभारूढं दशवाहुं महावलं ।
पंचवक्त्रं त्रिनेत्रं च शूरपाणि महाभूजं ॥
गजचर्मोत्तरासंगं घंटाटंकविभूषतं ।
इं ह्री वरदलश्यामं मध्यमंम्भीरनिस्वनं ॥
ब्रह्मराक्षसवेतालान्नाशयन्नात्रसंशयः

5

ङकारं नागमारूढं द्विभुजं पिंगरोचनंः ।
हरहाससितं सौम्यं वीणाखड्गरतं सदा ॥
स्मरतां चैव सर्वेषां बालग्रहविमर्दनं ।
नाशयशरणादेष विषं स्थावरजंगमं

6

चकारं तु हिनाभासं शशाङ्काङ्कितशेखरं ।
२०८ब्)
चतुर्वक्त्रं चाष्टभुजं पाश पट्टिशधारिणं ।
पद्मासन स्थितं नित्यं सर्पमण्डितमेखलं ॥
ध्यानधारणसंयुक्तं ये पाश्वदि समन्वितं ।
दुष्टरोगैश्वने केचिद् व्याधिका ज्वल व्याधिभिः ॥
सर्वते मुक्तरोगांश्च स्मरणास्य न जायते ।
गोनासागरैद्दिर्ष्टादुंदुमासैश्च मारिताः ॥
विषणाशाशनं ह्येष कलोत्येव न संशयः ।
तद्विषं नाससायाति तमः सूर्योदय यथा

7

छकारं श्वेतवर्णाभं छालस्थं च महावलं ।
भुजैः षोडशभिर्दिव्यैराहुमानं यथा रविंः ॥
पट्टिसंपरशुंशुरं मुद्गलं कनसं तथा ।
अन्यानिधारयस्वन्तमायुधानि विशेषतः ॥
यस्मिं स्थानं विषं घोरं स्थितं स्थाकरजंगमं ।
नाशयेत् स्वरितं ह्येष स्मरितो नात्रसंशयः

8

२०९अ)
जकारं हरिणाकारं द्विभुजं नवशीर्षकंः ।
शृंषका चायुधं तस्य शशाङ्काङ्कित शेखरं ॥
यस्यानुस्मरणा देवि विषं स्थावरजंगमं ।
माशये पथितो ह्येष पेयोदामिवभास्करः

9

ऋकारं कृष्ण मेघाभं षट्भुजं नवलोचनं ।
त्रिशिर्ष च महाकालं उष्ट्रालीढं वलीयसंः ॥
यस्य ग्रहा महारौद्रा ज्वलम्वा भूतदोषजं ।
विषं हालाहलं रौद्रं योगानां कृत्रिमं तथा ॥
मुष्टिणा ग्राहयित्वा तु उत्थापयति तत्क्षणात्

10

ञकारं घनवर्णाहं भिनाञ्चन निभोपमं ।
कमरस्थं चतुवक्त्रं भुजाष्टक विभूषितं ॥
असिमुद्गर हस्त्र च वज्रहस्तं महावलं ।
वालग्रहाणां सर्वेषां पठेनाद् देवनाशनं

11

टकारमग्निवर्णाभं दहन्तमिव पावकं ।
२०९ब्)
भुजै षोडशभिर्देव्यैद्दिव्यमाल्याकेतं वपुः ।
मेषारुधं महाकायं सर्वमेखल मन्त्रितं ॥
त्रिशीर्षं च वृहद्रूप सेंन्दुराभं महाद्यूतिः ।
जलंतं मुद्ग्रलं शक्ति ज्वाला ज्वलित भूषितं ॥
ग्रहाणां निग्रहो ह्येष भूतानां दाकिनीषु च ।
निमर्जत्मा जपेदेनं तं नयेदुषिभूषितः

12

ठकारंक्तंदपुष्पाभं वृषारूढं महावलं ।
चतुभुजं महाकायमेक शीर्ष त्रिरोचनं ॥
गौक्षिरधवलं नित्यं विषस्यैन्यविमर्दनं ।
आन्मलक्षा परस्यैववर्थिवा निर्जने वने ॥
गसिंहवलाहेषु व्यालव्याघ्र भयेषु च ।
विषवंधे प्रमोक्तव्यं जीवलक्षासु चिन्तयेत् ॥
सुवर्णममृतं ह्येनं कालद्रष्ट्रो भवेद् यदि ।
अहिनां स्तंभने प्रोक्तां सर्वसत्वेषु सीतलं

13

२१०अ)
डकालं हरिं तं ध्यायेदुष्ट्राभीषणविग्रहं ।
चतुर्वक्त्रं महाकायं चतुर्विंशार्द्धलोचनं ॥
धर्मासनसमारूढं दण्डपाणिं जटाधरं ।
जक्षराक्षसभूतादि डाकिनि सिद्धियोगिनि ॥
स्तंदादीनी सरौघाश्या पिशाचोरगकिन्नभाः ।
कुष्माण्डराक्षसांश्चैव स्मरमा देवनाशयेत्

14

धकारं भुजगारूढं फणिलक्षणभूषितं ।
ज्वलनार्क प्रतीकाशमालक्तायत लोचणं ॥
द्रंष्ट्राकलालिनं घोरं मेघगम्भीर निःस्वरंः ।
चतुःषष्ठी भुजैर्दिव्यंन्नाना प्रहणा युताधुनं ॥
द्रष्ट्राटंकाक्षमालांश्च शूलपट्टशधारिणंः ।
गदामुगरपाशांश्च खड्गचक्रं च विभ्रतां ॥
क्षोभय पृथिविं सर्वां सशैलवनकाननां दैत्यदानवलाक्षसां ।
२१०ब्)
नागानां दमनोह्येष पाताल भववासिणी ।
द्रढिमाकर्षणे योज्यं मेघानां च निवारणे ॥
लूतागर्दभ विस्फो * *? सहलिंगादि चर्चिकाः ।
डाकिनीभूतदोषांश्च नाशयेन्नात्रसंशयः

15

णकारं गौरवर्णाभं तामसी कुसुम प्रभं ।
चतुर्भुजं चतुवक्त्रं कृर्ष्णं द्रंष्ट्राकलोलिनं ॥
राजवर्णनिभं श्यामं ज्वलद्भासुरलोचनं ।
मेरु शृगयुतं भीमं चाहहस्त विभूषितं ॥
त्रासयन्तं महानादं क्षोभयन्तं रसातरंः ।
विषांश्च विविधाकारा नश्यंन्ते नात्रसंशयः

16

तकालं रक्तवर्णाभं पूर्णकुम्भोपरिस्थितं ।
शशाङ्ककृतमुर्द्धानं द्विभुजं मीनवाहणंः ॥
एकशीर्ष ततसूक्ष्मै नेत्रतयविभूषितं ।
२११अ)
निःशेषविषनागनामंतरायं विशेषतः ।
स्मरणान् णाशयच्छुलंघनवाताहतां यथा

18

थकालं हिरवर्णाभं शंखकुन्द्रदुनिम्मलं ।
मकालापृष्टमारूढमारक्तापितलोचनं ॥
दीर्घस्थंधं सुरुचापं च विभ्रतं ।
मन्मथञ्च स्वयं देवी कन्द्रर्प शहणाशनं ॥
दीपैरगरपुष्पैञ्च सुगंधौश्चानु लेपनैः ।
अकारमरणं ह्येष नाशयत्य विचारनं ॥
दीर्घस्थंधं सुरूपञ्च शराचापं च विभ्रतांः ।
मन्मथञ्च स्वयं देवि कन्द्रर्प्य ग्रहवर्णाभं कंकवाहनसंस्थितं ॥
क्षीरोदकलसावर्त मध्यगं चिन्तयेत् सदा ।
त्रित्रिर्शीर्षो महाकायं शोभमीनं त्रिलोचनं ॥
त्रिनेत्राणि च पार्वाणि वक्त्रानिमुस्थितानि च ।
२११ब्)
ज्वरंनाशयते घोरं तृतीयक चतुर्थकंः ॥
साध्यं रात्रि ज्वलं चैव शीतादाह ज्वलं तथा

19

धकारं पाटलाभासं धनुष्पाणिं चतुर्भुजं ।
एकशीर्षमहाकायं सिंहारूढं महावलं ॥
रौद्राट्टहासनिनदं ग्रहसैन्यविमर्दनं ।
तुष्टा तु हरते दोषं छायादोषंञ्च नाशयेत् ॥
परदोष कृतं चैव वलीनां लंघनं तथा ।
अनिरघु प्रहारैश्च रक्षते नात्रसंशयः

20

नकारं नीलवर्णाभं कृत्वा सारकृतायनं ।
चतुर्वक्त्रं चाष्टवहुं ज्वालावंशधरं शुभं ॥
तोमरास्त्रधनं शुभं ॥
ततो रास्त्रधनं सत्यं चक्रपाणिं सुभूषितं ।
विविधानि च यन्त्रानि च धायेर्तु विशेषतः ॥
२१२अ)
आकाश गगणं चैव गुलिजाञ्चनसंनिभंः ।
वेतालास्थापनं चैव स्वस्थाने सर्वकर्मणि

21

पकारं रक्तपद्माभं पद्मस्थं पद्मधारिणं ।
शंखचक्रगदापद्मपीताकार्षायवासनं ॥
चतुभुजं चतुवक्त्रं पद्मशस्योपरिस्थितंः ।
यक्षराक्षस भूता च पिशाचान् ब्रह्मरक्षसान् ॥
कुष्माण्ड दाकिनीं चैव भूतवेतालराक्षसात् ।
अपस्मारग्रहांश्चैव तथा वालग्रहानपि ॥
स्मरणान्नाशयेत्यष विषं स्थावरजंगमंः ।
कायिकं चैचिकं चैव मानसं त्रिविधं तथाः ॥
जन्मान्तर कृतं पापं नाशयेत् स्मरणादसौ

22

फलारं पथ्यते योगी योगीनी हृदये तथाः ।
चतुभुजं चतुर्वक्त्रं हंसारूढं विचिन्तयेत् ॥
२१२ब्)
कपाली चाक्षमाली च म्रश्विमेखलवानंपिः ।
सृष्टिकर्ता जगत्यैव त्रैलोक्य प्रभुरव्ययं ॥
अमृता कर्षणा ह्येष जीवदाने विशेषतः ।
भयनाशं सदा कुर्यात् सत्वानन्द्रविशेषतः

23

वकालं कृष्णवर्णाभं साक्षाद् वरुणं दैवतं ।
नागासनसमारूढं फणिव्याकुललोचनं ॥
हिमकुन्द्रे संकासं शंखगोक्षीरसंनिभं ।
षड्विशार्द्ध भुजं सौम्यं मणिरत्नविभूषितं ॥
गदापाणि च देवेशिं राशिचक्र समाकुलं ।
खड्गपाशधरं सौख्यं दाहज्वलविनाशनं ॥
चातिकैपैत्तिकं चैव श्लेष्मक सान्निपातिकां ।
वाधिरिन्निपतेन निविषं कुलुते क्षणात्

24

फकांरं कृर्ष्णवर्णाभा पीतकौसीपरासनं ।
२१३अ)
दण्डहस्तं महाकायं महिषासूरवाहणंः ।
कालपासधरं रौद्रं मारक्तायतलोचनं ॥
तस्मा सर्व प्रयत्नेन कालदष्टास्यजोजयेत्

25

मकारं वृषभारूढंः ॥ भस्माद्रूरितधूसरं ॥
नीलकण्ठञ्च जतिलं सर्वणितिकलं शिवंः ।
पंचवक्त्रदशभुजं त्रिशद्धपिङ्गरोचनंः ॥
कपालासिधरं तीक्षां त्रिशूराकुशधारिणं

26

यकालं संप्रवक्ष्यामि स्वयं वायुं व्यवस्थितंः ।
षड्भजं शतवक्त्रं च महावलपराक्रमंः ॥
कुलं शासनमारूढं शुभावरधरं तथा ।
सर्वदोषाः समं यान्ति सिंहदृष्ट्वा यथामृगाः

27

रकारमग्निवर्णं तु रक्तकौशीय वासनं ।
रक्ताक्षरक्त दंष्ट्रञ्च रसमासप्तव्याकुलंः ॥
२१३ब्)
चतुर्भुजं चतुवक्त्रं काराग्निरुद्रतेजसंः ।
दुष्टानां प्रसमास्थाय विषसुप्तप्रबोधयत् ः

28

लकारं पीतवर्णाभं वज्रहस्तं महावलंः ।
ऐरावत समारूढं सहस्राक्षं सुरेश्वरंः ॥
चामलेण सुवर्णेन वीजमानं सुरासुरैः ।
मेरु पृष्ट सुखाशिनमप्सराभिः सुसेवितंः

29

वकालं तु हिनाभासं मुखकपरिसंस्थितं ।
आयुधं तस्य पासं तु चतुवक्त्रं चतुभुजं ॥
शुक्लवस्त्रधरं नित्यं सौम्यरूपं सुलोचनं ।
आप्यायनं च सर्वेषां विषानां चैव नाशनं

30

शकारं शितपद्मास्थं सितचन्दणशोभितं ।
षड्भुजं शक्तिहस्तं च शिशीवाहनसंस्थितं ॥
षड्वक्त्रां स्वयमेव शतं निजं शिखि वल्लभं ।
२१४अ)
दर्शनार्तस्य नश्यन्ति महापातकनाशयः

31

षकारं षड्भुजं रौद्रं त्रिशीर्ष नवलोचन ।
त्रिपादं रक्तनेत्रं च ज्वलन्तमिव पावकं ॥
भूतपृष्ठे समारूढं पाशतोमरमुद्गरैः ।
शोभितं भुजदण्डैश्च सौम्यरूपं महाप्रभुं

32

सकालं सर्वभूतेषु सर्वभूतेष्ववस्थितं ।
भूमिकीटपटंगोषु चिन्तयेदमृतोपमं

33

हकारं संप्रवक्ष्यामि शब्दरूपं परात्परं ।
सूक्षं निलंजनं नित्यं शब्दातितं परात्परंः ॥
भिन्नेन्दुनीलसंकाशं कालिन्दी जलसंनिभं ।
ध्यात्वा च नासयत्येष विषं स्थावरजंगमंः

34

२१४ब्)
क्षकालं पठ्यते यस्तु स्वयंभुवरुणायकं ।
पद्मासनसमारूढं शशाङ्कङ्कितशेखरं ॥
जटामुकुटसन्नर्द्धं पचवक्त्रत्रिलोचनं ।
अनिमाद्यष्टकं प्रोक्तं सर्वायुधविभूषितं ॥
दण्डं कंठाख्य मालां च गडा चक्र त्रिशूलिकं ।
अकुशं रत्नपात्रं च सर्वत्रोपरिवारितं ॥
सर्वसिद्धिकलो ह्येषः क्षकारः परिपठ्यतां ।
ब्रह्माविष्णुमहेशाद्या नित्यं ध्यायन्ति योगीनः ॥
एतमन्त्रं वलं प्राप्य त्यजेदन्मलालवत् ः ।
नवतत्व समायुक्तं क्षकालं परिपठ्यतां ॥
व्याधितस्कर चौरेभ्यां वंधने ग्रहसंकटा ।
जपत्स्मरन्तं ध्यापयेन् न भयं विन्दते क्वचित् ॥
अधुना संप्रवक्षामि कलानाञ्च यता तथाः ।
२१५अ)
पूर्वतं चैव वर्णाणां तथैव मनुपूर्वशः

1

अकालं विर्ष्णु दैवत्वं वैर्ष्णव्याचापालजितं ।
शंखं चक्रगदापाणि चतुर्वक्त्रं चतुभुजं ॥
गरुडासनमारूढं सर्वदुष्टनिकृन्तनं

2

आकारं ब्रह्मदैवत्यं हंसारूढं चतुभुजं ।
चतुर्वक्त्रं सस्वरूपं सुराक्तायितलोचनः ॥
दण्डंकमण्डरूं चैव मुजमेखलधाणिणं ।
ब्रह्मसूत्रधरा देवी ब्रह्मणी परिपथ्यतां

3

इकालं पार्वति देवी सौम्यरूप्य त्रीरोचन ।
सभ्रूललाठविम्बोष्ठा वलि त्रितयशालिका ॥
कुटिलाकुब्जिताकेशी पीन्नोन्नत पयोधारा

4

ईकालमीश्वरं विद्या जतामुकुटधारिणं ।
शशाङ्क शेखरं देवि पंचवक्त्र त्रिलोचनं ॥
कपालमालिनं देवी पचवक्त्रं त्रिलोचनंः ।
२१५ब्)
कपालमालिनं देवि जतामुकुटधारिणं देवी ।
शिवसक्त्या सहैकोयं त्रिदशैरपि दुल्लभंः

5

उकारं विनता पुत्रं स्वयं ताक्षपतिं शुभं ।
अव्याहत गतिं नित्यं भुवनानि चतुर्दशः ॥
हरिं वहा तु तर्द्देवी यक्षभूताविनाशिनीः ।
गारुडी सा तु विज्ञया सर्वदुष्टविनाशिनी ॥
सर्वेषां च ग्रहादीनामुन्मादकारिणी शुभाः

6

ऊकालं हंसमीत्युक्तं शंखकुण्डसि निभंः ।
स्मरणात् सर्वपापाणी नाशयनात्रसंशयः

10

अथ ऌ ॡः ऋग्वेदं च यजुः सामः प्रसीत्तितः ।
वेदमार्थर्वलं चैव पूजाकाले तु चिन्तयेत्

12

एकारं षण्मुखं विद्यार्चर्तुविंशाद्धलोचनं ।
शिखिवाहनमारुढा शक्तिहस्तं महावलं ॥
२१६अ)
स्मरनान्नाशये देवी कौमार ग्रहपीडनंडनं ॥
ऐंकालं सुरराजेन्द्रमैरावतरथे स्थितं ।
तेजस्विनं सहस्राक्षं वज्रहस्तं महावलं ॥
द्विभुजं सौम्यवदनं नेत्रय विभूषितं

13

उकारं सिंहमारूढं त्रिनेत्रं च महावलं ।
द्विभुजं सौम्य वदनं शोभनं च महाभुजं ॥
शिवदुति च सा देवी श्मशानिलया प्रियाः

14

औकालो भैरवः साक्षाज्वालाकपिललोचनं ।
दंष्ट्राकरालिनं भीमं लेलिहानं सुभीषणं ॥
त्रिपादं त्रिकरं ज्ञेयं त्रिशीर्षक्लरशेषरं ।
२१६ब्)
अधारमुर्द्धमातृणां योगीनीनां सदालयं ।
शूलमुर्द्गलवीणासिनी वीणांकुशधरं तथा ॥
गजचर्मनिवर्धाङ्गं सर्वमेखलमण्डितं ।
सर्वाभरनसंयुक्तं मणिकुण्डलभूषितं ॥
नृत्यमानं श्मशानेषु वेतालैः सह क्रीडते

15

अंगारं वीन्दुसंयुक्तं शुष्का देवि तु भीषणा ।
अंत्रात्रपिशिता हारा चास्थिभिः कृतमेखला ॥
अस्थिशेषा च निर्मांसा प्रेतवाहनसंस्थित्वा ।
दंष्टाकरारिणी चाग्रामेघगंरनितः स्वाराः ॥
शुष्काशुष्कमुषिभीमा चोर्द्धकेशि भयानका ।
समांसुरुधिराहारा श्मशाने नित्यवासीनी ॥
गजचर्मोत्तरीया तु नागभरणभूषिताः ।
चामुण्डामुण्डवेता च खेचरी हृदयं गमा

28

२१७अ)
अः षोडशं चैव बीजं शीतं तु हिनशीतलं ।
पूर्णेन्दु चन्दनं सौम्यं करो षोडशवत्सदा ॥
सिच्यमानं स दध्येयेदमृतं श्रवते सदा ।
एतच्चाप्यायनं जीवो विषमज्वारनाशनं ॥
एकाह्निकं मुहुत्ते च तितियेक चतुर्थकं ।
गीतज्वलमहाघोरे पिर्त्तान्मादज्वरं तथा ॥
मासे षण्मासिके चैव तथा स वत्सरादिके ।
नाशशनं सर्वरोगाणामायुरारार्गे वर्द्धनं ॥
एतद् देवि मयाख्यातं धर्मसर्वस्वमात्मनः ।
न कस्यचित् मयाख्यातं त्वां विनावरवर्णिनी ॥
जानुजानातिमोधात्मा मातृकाज्ञानमुर्त्तमं ।
व्यर्थपरिः श्रमस्तेषां सिद्धिं मार्गस्तु दुरगा ॥
क्षमे शंभूः स्वयं देवे पंचास्यश्चन्द्रशेखरः ।
२१७ब्)
खट्वांगाकुशशूलाक्षामालाटंकं मनीगदां ।
दण्डमुद्गरचक्रांक दशपाणिर्हलायुधः ॥
धर्माधर्म वेदयुगो धर्मासनरोर्द्धतः ।
वर्णाक्षेत्रेश्वरा मन्त्रा न पृथक्त्वेन संस्थिता ॥
सिद्धिदाः पूजिता नित्यं जपध्यान पतर्पणैः ।
तस्मात् सर्वप्रजन्नेन वर्णध्यानं भुजायुताः ॥
कार्यसिद्धि चिन्तनियानि योज्यास्तत्व दर्शना ।
उमातिलकनित्येताः प्रेक्षवाक्या गमात्वहुनुः ॥
अथ नेपालपीठ ॥
नेपारं तु इकारस्याः गुदं तत्र तु पार्वति ।
तस्माद् वामस्य मार्गस्य मूलस्थानं तदुच्यतेः ॥
षट्पंचाशलक्षमिता भैरव्यो भैरवीस्तथा ।
शक्तिनां च सहस्रे द्वे पीठानां च शतत्रयं ॥
चर्तुदशश्मशानानि तत्र संहिति तानि च ।
२१८अ)
दक्षमार्गे सिद्धिदानी पीठान्यष्टौ च तप्र च ।
सिद्धि वैदिक मन्त्राणां तत्र पीथ चतुष्ट च ॥
तन्मलं यत्र पतितं जातं तदुपपीठकं ।
नेपालात् पूर्वदेशे तत् किंरातैरुपवेष्टितं ॥
त्रिशत्तसहस्राणि देवयोनि निसंति हिः ॥
इति श्रीकौलरहस्य सर्वागमसारे अष्टाविंशतिमे पटलः

1

अथ दशविद्यायन्त्रमाह ॥
अथ काली ॥
आदौ यन्त्रं प्रवक्ष्यामि यज्ञात्वामरतां व्रजेत् ।
आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्वहि न्यसेत् ॥
ततो वै विलिखेन् मन्त्री त्रिकोण त्रय मुत्तमं ।
२१८ब्)
वृर्तं विलिख्य विधिवल्लिखेत् पद्मं सुरक्षणं ।
तस्याध्यानं ॥
ध्यानमध्याः प्रवक्षामि स्मरणाच्छिवतां व्रजेत् ।
करारवदना घोरां मुक्तकेशि चतुभुजां ॥
कालिका दक्षिणा दिव्यां मुण्डमालाविभूषितां ।
सद्य छिन्नशिरः खड्ग वामार्द्धाधः करांवुजां ॥
अभयवरदं चैव दक्षिणाधोर्द्धपार्णिकां ।
महामेघ प्रभा श्यामं तथा चैदिवगदिगम्वरां ॥
कण्ठावसिक्तमुण्डाली गलद्रुधिर चर्चितांः ।
कर्णावतं समानीत सवयुग्म भयानकां ॥
घोरदष्ट्राकलालो च पीन्नोन्नत पयोधरांः ।
शवानां करशंघातैः कृतकाञ्चा सहन्मुखी ॥
सृक्व द्वय गलद्रक्त धारो विस्फुरिताननां ।
घोररावां महारौद्रीं शाशानालयवासिनीं ॥
२१९अ)
अथ ताराधासयानिं चन्दनेनाष्ट पत्रपद्मं लिखेत् ततः ।
मृदुमासेन मातह्ये माया पूर्वदले लिखेत् ॥
तस्याध्यानं ॥
कतृपरिगतां ध्यायदात्मानं तारिणी मयं ।
प्रत्यारीढं पदां घोरां मुत्रमाला विभूषितं ॥
खर्वारं चोदरीं भामां व्याघ्रचर्म धृता कटी ।
नवयौनव संपन्ना पंचमुद्रां विभूषितांः ॥
भैरवोक्त महं वक्षा यन्त्रं सर्वसमृर्द्धीदं ।
त्रिकोणं प्रथमे लेख्यं खट्कोणैवेष्टयेर्चतं ॥
त्रिविर्ति च ततो दद्याद् गुणानां परिणमकं ।
भूपुर त्रितयं कुर्याद् वज्रशूलसमिन्वितंः ॥
कोणदेशे ततो दद्यात् टंकास्त्र सुमनोहरं ।
यथास्थाने लिखेद्धीमान् कतृखर्परकं शुभं ॥
२१९ब्)
रतिकामे पादिध्यायेद् देवीं वैरोचनीं शुभां ।
तस्याध्यानं ॥
ध्यायेद् देवि महामायां सर्वकल्यान कारिणी ।
सुधासागर द्विपै च स्मरेदुद्यानमद्भुतं ॥
तस्मिनमसरस्त्रीरेशोभनं रक्तमंत्रपं ।
चतुद्वार समोपेत स्तंभराजि विलाजितंः ॥
गवाक्ष्मार्गदशक वायु युक्त स केशणं ।
सुधासंसाविसततं कल्पविक्ष्य चतुष्टयं ॥
निविष्टां रत्न स्तंभे च संस्मरे निज देवतां ।
शवाशनकतां ध्यायच्छिन्नमष्टां महोररीं ॥
चतुभुजां समारूढां रक्तवस्त्रां त्रिलोचनां ।
मुक्ताटोपसंपन्नां दक्षिणे खड्गधारिणे ॥
सात्परां वामहस्तेन दोर्भ्यां पुस्तकधारिणिं ।
निकृत्यसशिरः खड्गैः पिवन्ति रुधीरं वहुः ॥
२२०अ)
उद्यदिनकराभावं चंद्रार्धकृतसेखरांः ।
योगिभिः व्यासमुनिशंनाग यज्ञोपवीतिनीं ॥
त्रिपूराया ॥
विन्दुत्रिकोणवसुकोणदसालयुग्मंन्वश्रेनागदलसंयुतं षोदसालां
वृत्तत्रयं च धरनी सदन त्रयं च श्रीयन्त्रराजमुदितं पर देवतायाः ॥
तस्याध्यानं ॥
वालार्कमण्डलाभासां चतुर्वाहुं त्रिलोचनं ।
पाशाङ्कुश सरश्चापं धारयन्तीं शिवाम्भजेत् ॥
भैरवी जन्त्रं ॥
तन्मध्य कल्पयेद् यन्त्रं जवजोनिंत्मकं शुभं ।
अष्टच्छदश्व तद् वाह्ये चतुरम्रं मनोरमं ॥
तस्या ध्यानं ॥
रक्तांसुरर्मूलविलसन् मनिपीठगां ।
सणिपाशकपालेषु मातुलुंगधनुधरान् ॥
रक्तैररं कृता पूष्पैर्मदाघूर्णित रोचणं ।
हैलाविलाससंपन्ना नवयोवनसुन्दरीं ॥
२२०ब्)
देवी ध्यात्वा जपे लक्षं यो बीजं मध्यमं वशी ।
त्रौलोक्यं क्षोभयदाशुयुसावत्सिर्द्धि भागसौः ॥
अथ महालक्ष्माया ॥
वालभास्करसत्कान्तिं शशिशेखरमण्डितं ।
मुक्ताहारो ज्वत्वां रम्यां लत्नाकल्पविभूषितिं ॥
हस्ताभाजैश्च विभ्राणां रुतमांगानिमंजलिं ।
पद्म द्वयं कौस्तुभं च सस्मितास्य सरोरुहां ॥
विकचोत्पल संशोभिलोचनत्रयशोभितां ।
क्वणनूपुरसंस्फुल्लरक्तोत्पल पद्वयं ॥
नितम्बबिम्बविरसद्रसनाद्रामनंजुलां ।
वलित्रयलसद् देवि मध्ये देशे सुशोभनं ॥
गम्भीरावत्तकृन्नाभि ह्रदमण्डलमण्डितां ।
यक्षकर्दमसंलिप्त पिन्नोन्नत घनस्तनीं ॥
२२१अ)
कुंम्भीकुम्भोद्भवद्राद्य मुक्तादामविराजितांः ।
क्षोमोत्तरासंगवती पुर्ष्पदाममभूषितां ॥
माणिक्यस्वर्णखचित वैदर्याद्यंगंगदो ज्वलां ।
कांचनोद्यत्पद्मरागमणिसंवद्धककणां नाना विधं
लसद्रत्नमुद्रिकालं कृतांगुलिं ॥
कंबुकण्ठकरारवां स्वर्णग्रे वे पराजितां ।
विचिन्त नानालंकाला कृतीलगीसुविस्मीतां ॥
उद्यदर्क प्रभाभास्वद्रत्नताटंकशोभितां ।
कर्णपूरि कृतस्वर्ण वर्द्धरन्नां कुलां भुभां ॥
प्रवालविलसस्कान्तिरुचिराधारपचिकां ।
शिषरप्रोल्लुसद्रम्य दशनावलिशोभितां ॥
निर्लांच्छतशरडाकाकाराधिपशुभाननां ।
पञ्चसायककोदण्ड विलास्यधिक चिल्लिकां ॥
२२१ब्)
विभ्राणां नाशिकां प्रोद्यर्तिलपुष्टा ज्वलोद्यतां ।
शीतांशु सकलाररुचिलारिकराजितां ॥
घनसौगन्धसंपन्न मृगनाभि विशेषतांः ।
मनाक्तंतसस्निग्धनीलमंजुलमुर्द्धजांयते ॥
पारिजातद्रुकुसुमगन्धवाहि समुर्द्धजांः ।
तप्तहातकसंवर्द्ध नानारत्नौघषरां सौन्दर्य भूमेरवधिं तेजसां
जन्मभूमिकां ॥
विलासलक्ष्मी भवनं महालक्ष्मी विचिन्तयेत् ।
वामालधः करामरत्यध्यायद्दक्षकराविधिः ॥
आयुरानी महारक्ष्माः कराम्बुज गतानिमः ।
धर्मादि कल्पिते पीठे भूरद्वारशोभिते ॥
दलाष्टकेशराराढ्य कर्णिकायां जजेदिमां ।
२२२अ)
अथ मातंगीनि ॥
षट्कोणाष्टदलं पद्मं लिखेन् मन्त्रं मनोरमं ।
एतस्मिन् पूजयेठे नवशक्तिं क्रमादितः ॥
तस्याध्यानं ॥
श्यामागी शशिशेषरां त्रिनयनां सद्रन्नसिहासने संस्कारत्नविविभूषण
युतां क्षीण मध्यस्थलांः ॥
आपीनस्तन मण्डलां स्मितमुखीं ध्यायेद् दधन्ती
क्रमाद्वदैर्वाहुभिरुंकुशासिलतिकेपाशं तथा खटकं ॥
एवं ध्यात्वा महादेवि गन्धपुष्पैर्मनोहरैः ।
भुवनेश्वरीः ॥
पद्ममष्टदरं वाह्य वृर्तिषोडशभिर्दलैः ।
विलिखेत् कणिका मध्य षट्कोणमकिसुन्द्ररं ॥
तस्याध्यानं ॥
उद्यदिनद्युतिमिन्दु किरिटां भुंगं कुचां नयनत्रययुक्तां ।
स्मेरमुखी वरदां कुशाभिति करां प्रभजे भुवनेश्वरींः ॥
२२२ब्)
अथ धूमावती क्रमः ॥
पूर्वोक्त पूजयेत् पीठे ज्येष्ठां शत्रु निवृत्तये ।
केशरेषु षडंगानि पत्रस्था अष्टशक्तयः ॥
अस्याध्यानं ॥
विवर्णाचञ्चला कृर्ष्णादीर्घा च मलिनांवरा ।
विमुक्तकुण्डदीर्घा विधवा विरलद्विजा ॥
काकध्वजरथारूढा विलमृत तवयोधराः ।
शुर्षहस्तातिरुक्ष्माक्षी धुतहस्तात्वरान्विता ॥
प्रवृर्द्धरोमा तु भृशं जटिलाकुटिलाक्षणाः ।
क्षुत्पिपासादिता नित्यं सदा कलह तत्परा ॥
एवं विधा सदा ध्यायेत् ततः कर्म समाचरेत् ।
अथ वगलामुखी ॥
मध्ययो समालिख्य तद् वाह्ये तु षडंम्रकं ।
तद्वाह्येष्ट दलं पद्मं तद् वाह्ये षोडशच्छदं ॥
चतुरस्र त्रयं वाह्ये चतुद्वारो पशोभितंत् ।
२२३अ)
अस्याध्यानं ॥
गभीरां च मदोन्मर्तां तप्तकांचनसंनिभां ।
चतुभुजां त्रिनयनां कमलासनसंस्थितांः ॥
मुद्गलं दक्षिणे पासां वामे जिह्वां च वज्रकं ।
पीताम्वलधरां सान्द्र वृर्त्तपीनपयोधरां ॥
हेमकुण्डलभूषां च पीतचन्द्रार्द्धशेखरां ।
पीतभूषणभूषा च स्वर्णसिंहासन स्थिता ॥
एवं ध्यात्वा च देवेशि शत्रु स्तंभनकारिणीं ॥
अथ भुवनेश्वरि मन्त्रार्थ ॥
हहित्वा च हरत्वा च मुंपकृत्योस्तु युक्तयोः ।
श्लिष्टोच्चारितमेवेदं शब्दतद्रूपमीरितं

2

व्योमबीजे महेशानि कैलाशाद्रिः प्रतिष्ठिताः ।
वह्नि बीजात् सुवर्णादि निष्पन्नं वहुधा प्रिये

3

तेन यं वत्तते लोके भूमण्डल स्थितं ततः ।
२२३ब्)
तूर्यस्वरेण पाताले शेषरूपेण धार्ययेत्

4

महाभूमण्डलं तस्यात् पातालस्यापि नायिका ।
अत एव महेशानि भुवनाधीश्वरी प्रिये

5

हकारे व्योम तूर्येण स्वरेनानिलसंभव ।
वाकिरे सतिले फेण साक्षाद् ब्रह्म स्वरूपीणि

6

वह्निवीर्यं वसुज्ञया तस्योद्रकेवसुंधरा ।
अत एव महेशानि रलयोः संमता भवेत्

7

बिंदुनामृतरूपेण प्लावयन्ती जगत्त्रयं ।
द्रवरूपा भवेत् तस्माद्रवन्ति बोधमात्रया

29

अत एव महेशानि भुवनेशीति कथ्यते ॥
अथ योनि मुद्रामाह ॥
श्रीदेव्युवाच ॥
योनिमुद्रावकथितां यत्नतो ब्रह्मकाशितः ।
२२४अ)
सा प्रतं श्रोतुमिच्छामि मुद्रायाश्वपि लक्षणं ।
योनि मुद्रा च किं नाम फलं तस्याश्च कि प्रभो ॥
विधनं कं स्वरूपं च कथयस्व जग प्रभो ।
श्रीशिव उवाच ॥
शृणु देवि महाभागे मुद्राज्ञान स्वरूपिणी ।
याज्ञात्वा साधका सर्वे ज्ञानपीयुष सागरेः ॥
निमर्जन्ति कुलैसार्द्धं सकृदत्यास योगतः ।
षन्नवत्यास्तुलायं शशरीरमुभयान्मकं ॥
गुदध्वजान्तरे केन्द्रं डच्छोषोध्यस्तुलं प्रिये ।
तस्य द्विगुणविस्तारं वृर्त्तरूपेन शोभितंः ॥
नाद्यस्तत्र समुत्पन्ना सुख्यास्ति प्रातिभाविनी ।
इदावामे स्थितानाडी पिङ्गला दक्षिणेस्थीता ॥
तयो मध्यर्गता नाडी सुम्नापृष्ठरंशगा ।
पादाङ्गुष्ट द्वयं जाते शिखाया शिरशा पुनः ॥
ब्रह्मस्थानं समुययाग्नि रूपिणी ॥
२२४ब्)
तस्या मध्यगतानाडी चित्राख्या योगी वल्लभा ।
धर्मनी चित्रिना मध्या वज्रायामेद्र देशतः ॥
ब्रह्मरंध्र विदुस्तत्र पद्मसुत्रनिभपरं ।
इडाया चरते चन्द्र पिंगलायां दिवाकरः ॥
शृणु सर्वविधानेन सुष्ष्नायान्तुरावुभौ ।
आधारकन्द मध्यस्थं त्रिकोणमति सुन्दरं ॥
त्रिकोण मध्य देवेशि कामबीजमनुत्तमं ।
कामबीजोद्भवं तत्र स्वयंभुलिंगमुत्तमं ॥
तत्र त्रिवलयाकारा कुण्डरी परदेवतां ।
श्यामवर्णा महाशुक्ष्मी स्वयम्भुलिंगवेष्टिता ॥
परिस्फुरती सर्वान्मो स्वयंभुलिंगमुर्तमं ।
तत्र त्रिविलयाकारा कुण्डरी परदेवतां ॥
श्यामवर्णा महाशूक्ष्मी स्वयम्भुलिंग वेष्टिता ।
परिस्फुरति सर्वात्मा सुप्ता हि सदृशो कृति ॥
२२५अ)
विभर्ति कुण्डली रूपामात्मानं हंसमाश्रिताः ।
हंसप्राणाश्रयो नित्यं प्राणानाडी समाश्रयः ॥
आधारादुङ्गतो वायु यथा च सर्वदेहिनां ।
देहं प्राप्य स्वनाडीभिः प्रयानं कुरुते वहि ॥
द्वादशाङ्गुलमानेन तस्मात् प्राणसमीरितः ।
रस्ये मृर्द्धासने शुद्धे पठ्याजिन कुशोद्भवे ॥
वर्द्धेक मासनं योगि योगमार्गं परो भवेत् ।
इदाया कर्षयेद् वायु वाह्यं तस्मैव मुद्रया ॥
धारयेत् पुरितं वायु उभाभ्यां कुम्भकेन च ।
नाड्यापिंगलया चैवं रेचयेर्च शनैः शनैः ॥
भूयो भूयः क्रमातस्य वाभ्यासेन समाचरेत् ।
एवं मत्यशतः पुंसो देहस्वदोङ्गमोधमः ॥
मध्यमः कल्पयं युक्तो भूमित्यागो परा ततः ।
२२५ब्)
एवं क्रमेण डानां च शोधनं कल्पयेद् बुधः ॥
ततो गुह्ये वामपाद पार्श्वञ्च विनिवेशयेत् ।
तस्यौपरि महादेवी दक्षपादं निधापयेत् ॥
ऋजुकायः शिरो ग्रिवः काकचञ्चु पुटै न च ।
आकालेन वहि वायुं जठरे परिपूरयेत् ॥
अङ्गलीभि दृढं वध्वा करणानि समाहितः ।
अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां च लोचने ॥
नासारन्ध्रे च मध्याभ्यां मन्याभ्यां वेदनं दृढं ।
वध्वान्मण प्राणसा एकत्वं तन्मनुस्मरेत् ॥
धारये मारुतं सम्यक् योगोयं योगि वल्लभाः ।
नादरवसमः पश्चा घनमेद्ये स्वलोशतः सनैः ॥
मत्तभृग्यगनाशीत सदृसः प्रथिमध्वनीः ।
२२६अ)
विशिकाश्वादिना पूर्ण वंशस्वनिनिभो परः ।
घण्टारव समः पश्चा घनमेद्य स्वलोपरः ॥
ततः सप्तादि शदृशीं कुण्डली परदेवतां ।
सुषम्ना मुखमादृशवेष्टितां परिचिन्तयेत् ॥
कान्तावस्थित योन्यास्तु भ्रमन्तं रक्त वर्णकं ।
कामशिवश्च रूपञ्च चिन्तये साधकोत्तमः ॥
अनाहत ततो ध्याये चित्कलां हंसमाश्रितां ।
प्रदीप कलिकाकारां कुण्डल्यासश्वरूपिनीं ॥
विकलया कुण्डलिनीं तेजो रूपं जगर्न्मयीं ।
हंसेन मनुना देवी ब्रह्मपद्मं नयेत् सुनीः ॥
पट् चक्र सन्धिमार्गेण सुषुम्नावन्मना तथा ।
ऊर्द्धं नये कुण्डलिनां जीवोन्मसहितां परां ॥
आधारो स्थित मरुता नयेद् ब्रह्म शनैः शनैः ।
२२६ब्)
ते नैव मरुता तानि पद्मान्युर्द्धमुखानि च ।
भावये संविको योगी ज्ञानमार्गेन चेतसा ॥
आधारे चक्रपद्म वै वेदपत्रं सुशोभनं ।
स्वाधिष्ठाने लिङ्गमूले षट्दलं परिचिन्तयो ॥
मनिपूरे नाभिमूले दिग्दलं सुरसुन्दरी ।
अनाहते हृदि ध्याये द्वादशांसलक्षणं ॥
विशुर्द्धाख्यो महाचक्रे शोदषेच्छपङ्कजं ।
भुवो मध्ये महाचक्रे आज्ञाख्येदिरसस्तथा ॥
आधारादिनि चक्रानि भित्वा तेज स्वरूपिनी ।
ब्रह्मपद्मं नये देवि कुण्डलीं परदेवतां ॥
डाकिणी लाकिणि चैव लाकिनि साकिनी तथा ।
काकिनि हाकिनि चैव एटा षट् चक्र देवताः ॥
एतानि योज्य षट्चक्रे ब्रह्मत्वेन महेश्वरि ।
२२७अ)
ब्रह्मणंन्धे सहस्रारे कुण्डली स्थापये वधुः ॥
परमान्मा च तत्रैव ब्रह्म पद्मे स्थितः प्रभुः ।
कुण्डरि शक्तिरूपा च परमात्मा शिरस्वयं ॥
क्रियासम हि हारेण तयोरैक्यं विभावये ।
पृथिव्याधिनि तत्वानि जीवभावे विलिनयेत् ॥
तमेव परमेशानी चन्द्रमुण्डरमेव च ।
अमुतपरमं स्थानं ज्ञानपीयुखसागलं ॥
तस्माद् विनीर्गता धारां षत्वक्तेषु विचिन्तयेत् ।
तत्संगङ्गाच्च चक्रा च नितेजारूपानि चिन्तयेत् ॥
सहस्रारे महापद्मे अमृतं विनिवेशयेत् ।
तेनामृतेन संप्राप्य कुण्डली परदेवतांः ॥
तेनैव वर्मना देवि स्वस्थानमानयेत् पुनः ।
सोहि नित्यात्मना ज्ञानं भावयेत् साधकोत्तमः ॥
२२७ब्)
षट्चक्र देवतास्तातु लोलीभूता मृतेन च ।
चिन्तयित्वा महापद्मे स्वस्वस्थाने निवेशयेत् ॥
वैष्णवस्य च शाक्तस्य शौरेस्य च वरानने ।
शिव सक्त्या समायोगा महातज्ञा प्रयातपे ॥
ततस्तु चित्रिनी नाड्यामक्षमालां विभावयेत् ः ।
पञ्चाशन्मनि रूपा च मातृका च सरस्वती ॥
अकारादि क्षकारान्ता अक्षमाला प्रकीर्तिता ।
क्षकाल मेरु रूपन्तु रङ्गा येन कदाचन ॥
अनुरोम विलोमस्थ कॢप्तय वर्णमालया ।
आदिरान्तलाद्यकारा क्रमेण परमेश्वरि ॥
अष्टोत्तर शतं मूलं मन्त्रं ज्ञानेण संजपेत् ।
मनसा च मनुं जप्त्वा मन्त्रसिद्धा भवे ध्रुवं ॥
अष्टोत्तर शतं जापे आदौ कु?वंसमाचरेत् ।
२२८अ)
अष्टवालं जपं मन्त्रं पुनः क्लीवं परित्यजे ।
वर्गाणामपवर्गन अष्टवारं जपेत् सुधी ॥
अकचटतपय इत्येवं चाष्टवर्गतः ।
स विन्द्वं वर्णं संस्मृत्य पश्चा मन्त्रञ्च संस्मरेत् ॥
इति ते कथीतं देवि मुद्रालक्षणमुत्तमं ।
अनया मुद्रया देवी सुप्तादितोषसान्तय ॥
मासमेकं जपेन्मन्त्र हविष्यासी जीतेन्द्रियः ।
योनि प्राक्ति रूपाय तत्र नास्ति महेश्वरि ॥
तत्र देवा न गृह्नंति पूजाहोमादिकं तु यत् ।
शक्तिहिनं गुरुं द्राप्य शिष्यः शक्तीं कुतः प्रिये ॥
मूले च्छिन्ने द्रुमे देवी कुतः पुष्प फलादिकं ।
मनोन्यत्र शिवोन्यत्र शाक्तिरन्यत्र पार्वति ॥
न सिद्ध्यन्ति वरानने कल्पकोटि शटैरपि ।
योनिमुद्रा महामुद्रा ज्ञातव्या यत्नतः सुधी ॥
अज्ञात्वा शकरं देवि भस्मी भवति काष्टवेत् ।
एषा मुद्रा मया गुप्ता तन्त्रादि यामलेपि च ॥
२२८ब्)
साम्प्रतं कथितं देवी शृणु पर्वत कन्यके ।
इति श्रीमन्त्रमुक्तावल्यां शिवदेव्यासम्वादे योनिमुद्रालक्षणं संपूर्णं ॥
इति श्रीकौलरहस्य सर्वागमसारे उनविंशपटलः

1

अथ दशमहाविद्यानां कवचमाह ॥
तत्रादौ ॥ श्यामाया ॥
भैरव्युवाच ॥
कारी पूजा श्रुतानाथ भावाश्च त्रिविधाः प्रभो ।
इदाणीं श्रोतुमिच्छामि कवचं पूर्वसूचितं ॥
त्वमेव शरणं नाथ ऋहिमां दुःखसंकटात् ।
भैरव उवाच ॥
रहस्यं शृणु वक्ष्यामि भैरवी प्राणवल्लभे ।
श्रीजगन्मंगलं नाम कवचं मन्त्रविग्रहं ॥
पठेद्वाधारयित्वेदं त्रैलोक्यं मोहये क्षणात् ।
२२९अ)
नारायनोपियधृत्वा नारी भूत्वा महेश्वरं ।
योगे शंक्षोभनयघृद्धृत्वा च घुद्वहः ॥
वरदृप्ता जघानैव रावणादि निशा चरेत् ।
यस्य प्रमादानी शोपि त्रैलोक्यं विजय प्रभुः ॥
धनाधिप कुवेरोपिः सुरेशो भूचरी पतिः ।
एवं हि शकला देव्याः सर्वसिद्धि स्वरा प्रियेत् ॥
श्रीपगमंगलस्यास्य कवचंस्यरिषिः शिवः ।
छन्द्रोऽनुष्टुब्देवता च का दक्षिणेतिरा ॥
जगतां मोहयेदुष्ट विजय भुक्तिमुक्तिषुः ।
योषिडा कर्षणे चैवै नियोगः प्रकीर्तितः ॥
शिरो मे कालिकापतुकीं कारैकाक्षरी परः ।
क्रीं क्रीं क्रीं मेललाटं च कालिका खड्गधारिणीः ॥
हूं हूं पातु नेत्र युग्मं ह्रीं ह्रीं पाशु श्रुती मम ।
२२९ब्)
दक्षिणे कालीका पातु घ्राणयुग्मं महेश्वरी ॥
क्रीं क्रीं क्रीं रसतां पातु हूं हूं पातु कपोलकं ।
वदनं सकलं पातु ह्रीं ह्रीं स्वाहा स्वरूपिणि ॥
द्वाविंश त्यक्षरी स्कंधौ महाविद्या सुखप्रदा ।
खड्गं मुंडधराकाली सर्वागमभितोवतु ॥
क्रीं हूं ह्रींञ्च क्षरी पातु चामुंडा हृदयं मम ।
ऐं हूं ओं ऐं स्तन द्वद्वं ह्रीं फट् स्वाहा ककुत्स्थलं ॥
अष्टाक्षरी महाविद्या भुजौ पातु सकर्तृका ।
क्रीं क्रीं हूं हूं ह्रीं ह्रीं करौ पातु षदक्षरी मम ॥
ह्रीं नासिं मध्यदेशं चः दक्षिणि कालिकेव तु ।
ह्रीं स्वाहा पातु पृष्ठ तु कालिका सा दशाक्षरी ॥
हूं हूं दक्षिण कालिके हूं हूं पातु कटि द्वयं ।
काली दशाक्षरी विद्या स्वाहा सान्तौरुयुग्मकंः ॥
२३०अ)
ओं ज्रीं ह्रीं मे स्वाहा पातु कालिका जानुनी सदा ।
काल्नी हृन्नाम विद्ययं चतुवर्गा फल प्रदा ॥
क्रीं हूं क्रीं या तु गल्फं दक्षिणे कालिकेव तु ।
ह्रीं हूं ह्रीं स्वाहा पातु चतुर्दशाक्षरी ममः ॥
खड्गमुडधला पातु वरदाभय हारीणि ।
विद्याभि सकलाभिश्च सर्वागम हितोऽवतु ॥
कालि कपालिनि कुल्या कुलुकुल्या विरोधिनी ।
विप्राचिर्त्ता तथा चोग्रा प्रभादीसाद्यनन्विषः ॥
नीलाषनावलाका च मात्रामुद्रामिचमां ।
एताः सर्वाः खड्गधरा मुंडमाला विभूषणाः ॥
लक्ष तु दिग्वदिक्षु मां ब्राह्मी नारायणी तथा ।
महेश्वरी च चामुंडा कौमारी चापराजिता ॥
वाराहि नारसिंही च सर्वाश्वासित भूषणाः ।
२३०ब्)
लक्षस्तु आयुधै दिक्षुगां(?) यथा तथा ।
इति ते कथितं दिव्यं कवचं परमाद्भुतं ॥
श्रीजगन्मंगलं नाम महा * *? घ विग्रहं ।
त्रैलोक्य कवचं ब्रह्म कवचं मन्मुखोदितं ॥
* *? जं विधि यथाविधिवत् प्रपठेत् ततः ।
कवचं त्रिःसकृत्वापि यावद् वा पंचधा पुनः(?) ॥
एतच्छताद्धमातृभ्य त्रैलोक्ये विजयि भवेत् ।
त्रैलोक्यं क्षोभयेत्येवकवदस्य प्रसादतः ॥
महाकविर्भवेन्मासा सर्वसीद्धिश्वरो भवेत् ।
पुष्पाञ्जलि कालिका * *? ले नैव पठेत् स कृत् ॥
शतवर्षसहस्राणां पूजाफलमाप्नुया ।
भूर्जे विलि * * ता * * त् ॥ स्वर्णस्थं धारयेद् यदि ॥
शिखायां दक्षिणे वाहौ कंठे वा धारयेद् यदि ।
२३१अ)
त्रैलोक्यं मोहयेत् क्रोधात् त्रैलोक्यं मोहयेत् क्षणा ।
पुत्रवां धनवान् श्रीमावान् नानाविद्या निधिर्भवेत् ॥
ब्रह्मस्त्रादीणि नस्त्राणि तद्गात्रस्पर्शनात् ततः ।
नाशमायांति या नारी वंध्या वा मृत पुत्रिणी ॥
कंठे वा वामहौ हौ वा कवचस्य * * * *? ।
वह्वपत्या जीववत्सा भवेत् पीठ न शंशयेः ॥
न देयं परशिष्यस्या * * * * * * *? ।
शिष्यस्यो भक्ति युक्तेभ्यो नान्यधा मृत्युमाप्नुयात् ॥
स्पर्द्धामुद्धृव * * *? वाग्देवी मंदिले मुखे ।
पौत्रान्तं स्थैयमास्थाय निवसस्योवन्निश्चितं ॥
इ * *? वचमज्ञात्वा यो भवेदक्षकालिकां ।
शतलक्ष प्रजप्तोपि तस्या विद्या न सिद्ध्यति ॥
२३१ब्)
मणन्त्र घातमाप्नोति सोचिरामृत्युमाप्नुयात् ।
तस्मात् सर्व प्रयत्नेन एतर्द्धर्ता पुरःसरं ॥
संजपा सिद्धिदा काली साधकाय भवे ध्रुवं ॥
इति श्रीभैरवे भैरवं भैरवी सम्वादे श्यामा कवचं संपूर्णंः

2

अथ तारा कवचमाह ॥
पुराकैलाशशिखरे ताला प्रपच्छशंङ्करः ।
गुप्तभावेन वेसिथ कथयस्व तु सादरं ॥
केनोपायन शहशाशरीरं सुन्दढं भवेत् ।
कथवा सिद्धिरतुला तव मन्त्रविदी प्रिये ॥
श्री तारोवाच ॥
अति गुह्यतरं ह्येतन् निःसृतं मुखपंकजान् ।
इदं रहस्यं परमं कथयामि त्वयी प्रभो ॥
श्रुतातां सवाधानेन कवचं मन्मुखान्सृते ।
२३२अ)
मधुकैटभ यो मुर्द्धे कथितं पद्म जन्मना ॥
तत्प्रभावात् तु देवेश नासं विष्णु न गच्छति ।
भव सुकथितं पूर्वं तन्न स्मरसि मालया ॥
उद्धृतं सारभूतानां कवचं योगिनी मते ।
न कस्मिचित् प्रवक्तव्यं न प्रकास्यं कथंचन ॥
णपथं कुरुते देवि यदि स्नेहास्ति मां प्रति ।
श्रुयतां सवधानेन कवचं साधसंग्रहं ॥
सत्यं सत्यंः पुनः पुनः ॥
कवचेन विना देव योमामर्चयति क्षणात् ।
मतश्नोमि महोग्राहं योगिनीः सुनिश्चितं ॥
ब्रह्मविष्णु महेशानां बीजं लक्ष तु मूलकं ।
तदुर्द्धं शक्ति विजंन्तु लिंगं रक्षण यत्नतः ॥
मणिपूरं सदा पातु वधुबीजं विशेषतः ।
अनाहतं वर्मबीजं पातु मे सर्वसर्वतः ॥
२३२ब्)
अस्त्राणि सर्वदा पातु विशुद्धं कण्ठभूषितं ।
शेषस्तु पातु मे नित्यमाज्ञा स्थानं द्विपत्रकं ॥
शीर्षम्या तु तारा जटाजटा पातु सदाननं ।
नीलसरस्वती पातु वधुबीजं स दैव हि ॥
स्तनद्वयं सदा पातु कुर्चविघ्न विघातकं ।
रसना मे सदा पातु लक्ष्मीद्देवी च सास्वती ॥
रसानाग्रं सदा पातु सरस्वति प्रयत्नतः ।
रतिः पातु सदा बीजं प्रीति कम्मे वदनं सदा ॥
कीर्तिः कीर्तिं सदा पातु शान्तिंः शान्तिंः सदावतु ।
पुष्टिर्म पातु पुष्टं चं तुष्टिं तुष्टिः सदावतु ॥
वैरोचनः पातु शंखं शंख पूर्वस्तथैवचः ।
पातुलोमे सदागण्डं पातु नित्यं च सर्वसः ॥
२३३अ)
पद्मनाभः सदा पातु नाभिमेदशपत्रकं ।
असिताभः पातु लिंगः नामकः पातु चतुषी ॥
मामको मे तथा हस्तै ग्रीवा मे पातु पाण्डरः ।
तरक्वः पातु हृदयं पृष्ठं पद्मान्तको मम ॥
पाश्वद्वन्तं सदा पातु मयान्तक नरान्तको ।
चरणै मे पातु नित्यं विघ्नान्तक सदाङ्कयः ॥
तार मे पातु सततंमष्टांगं परमेश्वरीः ।
इदंन्तु कवचं देव कथितं मन्मुखात्सृतं ॥
प्रमादाद्यदि देवेश यत्र कुत्र पकाश्यते ।
योगिनीभिस्तदाहन्तु स्वयं च वेधकारिणी ॥
दद्याच्छान्ताष शिष्याय तन्त्रमन्त्र युताय च ।
गुरुभक्ति युन्म चैव तदा सिद्धिरनुत्तमा ॥
रहस्यं कथितं सर्वं मनन्त फलदायकं ।
२३३ब्)
गोपितव्यं त्वया देव न प्रकाश्यं कदाचनः ॥
इति श्रीयोगिनी तन्त्रोक्तैक जटाकवचं समाप्तंः

2

अथ च्छीन्नमस्ताकवचं ॥
श्रीभैरव्युवाच ॥
कथितास्छिन्नमस्ताया या विद्याः सुगोपिताः ।
त्वया नाथेन जीवेश श्रुता च गदिता मया ॥
इदानिं शोतुमिच्छामि कवचं पूर्वसूचितंः ।
त्रैलोक्यविजयंन्नाम कृपया कथ्यतां विभो ॥
भैरवोवाच ॥
शृणु वक्ष्यामि देवेशि सर्वदेव नमस्कृते ।
त्रैलोक्य विजयन्नाम कवचं शर्वमोहनं ॥
सर्वविद्या मयं साक्षात् सुरासुर जय प्रदंः ।
धारनात् पवनादी शस्त्रैलोक्यं विजयी विभुः ॥
ब्रह्माणारायणरुद्रधारणात् पंवनाद्यतः ।
२३४अ)
कर्ता पाता च संहर्ता भुवनानां सुरेश्वरि ।
न देयं परसिख्यत्यप्य भक्तेभ्यो विशेषतः ॥
दियं शिख्योय भक्ताय प्राणेभ्योप्यधिकाय च ।
देव्याश्च च्छिन्नमस्ताया कवचस्य च भैरवः ॥
ऋषिसंप्राविरातच्छन्द्रो देवताच्छिन्न मस्ताका ।
त्रैरुक्यविजयमुक्तो विनियोगः प्रकीर्तितः ॥
हुंकारो मे शिरः पातु च्छिन्नमस्ता नल प्रभा ।
ह्रीं हूं ऐं श्वक्षरी पातु भालं रक्तदिगंवरी ॥
श्रीं क्रीं हू ऐं दृपाणो तु मुंडेक त्रिधरापि सा ।
सा विद्या प्रणवाद्यंता शुचि युग्मं सदावतु ॥
वज्रवैरोचनी हुं हुं फट् ॥ स्वाहा ध्रुवादिकः ॥
प्राणं पातु चिन्नमस्तां स्वमुण्डक त्रिधारीणी ।
श्रीमाया कुर्चवाग्वीजे वज्रवैरोचनीये हुं ॥
२३४ब्)
हुं फट् स्वाहा महाविद्यां षोडशी ब्रह्मरूपीणी ।
स्वपार्श्वे कलिकाभ्यां स्वामृग्यारांविततीमुदा ॥
वेदनं सर्वदा पातु च्छिन्नमस्ताशसक्तिका ।
मुद्राकविधरारक्ता साधकाभीष्टदायिनी ॥
वर्णीनी डाकीनि युक्ता सापि मामभितोवतु ।
च्छिन्नमस्ताशसक्तिका ॥
रमाद्या पातु जिह्वां च लर्ज्जा पतुटाकंटक ।
कुर्चद्या हृदयं पातु वागाद्यास्तनयुग्मकं ॥
रमया पुटिता विद्या पश्वौ पातु सुरेश्वरी ।
मायया पुटिता पातु नाभिदेशं दिगम्वरीं ॥
कुर्च न पुटिता देवी पृष्ठदेशे सदावतु ।
वाग्बीजं पुटिता चैव मध्य पातु स शक्तिकः ॥
ईश्वरी कुर्च वाग्बीजं वज्रवैरोचनीय हुं ।
फेत् स्वाहेति महाविद्या कोटिसूर्य समप्रभाः ॥
२३५अ)
च्छिन्नमस्ता सदापायादुरुयुग्मंसशक्तिका ।
ह्रां हुं ह्रीं वर्णिनी जानुं श्रीं ह्रीं हूं डाकिनी पदं ॥
सर्वविद्या स्थिता नित्या सर्वांगं मे सदावतु ।
पाच्यांपायादेकलिंगा योगिनि पावकवतु ॥
दाकिणि दक्षिणे पातु श्रीश्रीमहाभैरवी पातु भैरवी पश्चिमेव तु भै ।
इद्राक्षी पातु वायव्येसितां मा पातु चात्तरे ॥
संहारिनि सदा पातु शिव कोणे सवर्त्रिका ।
इत्यष्ट सकयः पातु दिग्वीदिक्ष सकत्रिकाः ॥
क्रीं क्रीं क्रीं मां पातु पूर्व हूं हूं मां तु पवके ।
ह्रीं ह्रीं मां दक्षिणे कालिकेव तु ॥ क्रीं क्रीं क्रीं चैव नै-ऋत्यां हुं
हुं मां पश्चिमेव तु ॥ ह्रीं ह्रीं पातु मुरुत्कोणे स्वाहा पातु सदोभरे ।
महाकाली खड्गहस्ता इशकोणे सदावर्तारो मायावधुकूर्च फट्कारोयं
महामनुः ॥
२३५ब्)
खड्गकत्रिधरापराचोध्व देशं सदावतु ।
ह्रीं स्त्रीं हूं चैव पाताले पातु नीलसरस्वतीः ॥
इति ते कथितं देव्याः कवचं मन्त्रविग्रहं ।
यद्धृत्वा पवनाद्भीमः क्रोधाख्या भैरवः प्रभुः ॥
सुरासुरमुनिद्राणां कर्ताहर्ता भवेत् स्वयं ।
यस्याग्यायामधुमति सा साधकान्तिकं ॥
भूतिन्याद्याश्च यक्षिण्यो डाकीन्याद्याश्वरे वेचराः ।
आज्ञा कुर्वतितास्तस्य च्छिन्ना देव्याः प्रसादतः ॥
एत देव परं ब्रह्म कवचं तन्मुखोदितं ।
देविमभ्यर्च्य गंधाद्यैः मूले नैवं पत्सकृत् ॥
संवसर कृतायान्तु पूजाया फलमाप्नुयात् ।
भुजे विलिखितं चैतद्गुटिकांचन स्थितं ॥
धारयेद् दक्षिणे भागे कंवेया यदि भाग्यतः ।
सर्वेश्वर्य युतो भूत्वा त्रैलोक्यं वशमानसत् ॥
तस्य गेहे वसेल्लक्ष्मीर्वाणी चदननांवुजे ।
ब्रह्मस्त्रादीनी शास्त्राणि तङ्गात्रे यान्ति भग्नतां ॥
२३६अ)
इदं कवचमज्ञात्वा योजपेच्छिन्नमस्तकां ।
सोपिसस्त्र पहारेण मृत्युं प्राप्नोति सत्वरंः ॥
इति श्रीभैरवतेस्त्रे भैरवभैरवीसंवादे च्छिन्नमस्ताकल्पे त्रैलोक्यविजयं
नामस्ताराकवचं समाप्तं

अथ महात्रिपुरसुन्दरी कवचमाह ॥
श्रीदेव्युवाच ॥
भगवं देवदेवेशि लोकानुग्रहकरका ।
त्वत् प्रसादान् महादेव श्रुतामन्त्रास्त्वनेकधा ॥
साधनं विविधं देवकीरकोर्द्धारणन्तथा ।
पाशादि दुषणोर्द्धारः श्रुतस्त्वत्तो मया प्रभो ॥
राजराजेश्वरि विद्याः कवचंः शुचितं मयि ।
श्रोतुमिच्छामि तत्वर्तत् कथयस्व मयी प्रभो ॥
श्री इश्वर उवाच ॥
लक्षवालसहस्राणि वारितासि पुनः पुनः ।
स्त्रीस्वभावान् महादेवी पृच्छसित्वंम प्रिये ॥
अभ्यन्त कवचं गुप्तं सर्वकामफलप्रदं ।
पीतये तव देवेशि कथयामि शृणुष्वत् ॥
२३६ब्)
अस्य श्रीषोडशी विद्या कवचस्य रीषि स्मृतः ।
महादेवश्च प्रस्तार पक्तिच्छन्द्रदाहृतं ॥
राजराजेश्वरि देवि देवता परीकीर्तिताः ।
सर्वार्थ साधन देवि विनीप्रोयोग प्रकीर्तिताः ॥
पूर्वमां भैरवी पातु वालामां पातु त्रासिनी तत्तरेव तु त्रासिनी तूत्तरेव तु ॥
उर्द्धं पातु महादेवि महात्रिपुरसुन्दरीः ।
अधस्तान्पातु देवेशी पातालातलवासिनी ॥
आधारे वाग्भवः पातु कामराजस्तथा हृदि ।
भ्रामलः पातु मा नित्यं मस्तके सर्वकामदः ॥
ब्रह्मरन्ध्र सर्वगात्रैच्छिन्द्रस्थाने च सर्वदाः ।
माहाविद्या भगवती पातु मां परमेश्वरि ॥
ऐं क्लीं ललाटे मां पातु पायात् ह्रीं क्लीं व्लूं सश्व नेत्रयोः ॥
नासायां वर्णयोश्चैव द्रां द्रं द्रीं चिबुक तथाः ॥
सौंः पातु गले हृदये मनु सः क्रीं नाभिशके ॥
२३७अ)
कल ह्रीं क्लीं स्त्रीं गुह्य देशे स ह्रीं पातु पादयोः ।
स ह्रीं मां पातु सर्वत्र म क्लीं मां पातु मे सन्धिषु ॥
जले स्थले तथा काशि दिक्षुराज गृहे तथा ।
हूंखे मां त्वरिता पातु स ह्रीं स क्रीं मनोभवां ॥
हंशश्च पायान्महादेवि परं निस्कर देवताः ।
विजयामंगलादुता कल्याणी भगमालिनी ॥
ज्ञाना च मालिनी विद्या सर्वदा पातु मा शिवा ।
इत्येव कवचं देवि देवानामपि दुर्लभं ॥
तव प्रीत्या मयाख्यातं गोपनीयं प्रयत्नतः ।
इदं रहस्यं परमं गुह्याद्गुह्यतरं प्रियेत् ॥
धान्यं यस्य मायुग्मं भोगमोक्ष प्रदं शुभं ।
दुःस्वप्ननासनं पुमां नरनादि वशंकरं ॥
आकर्षण करं देवि स्तम्भार्चाटकरं शिवेः ।
२३७ब्)
इदं कवचमज्ञात्वा राजराजेश्वरि शिवां ।
योर्चयेत् योगीनी वृन्दैः भक्षा नात्रयसंशये ॥
न तस्य मन्त्र सिद्धि स्यात् कदाचिदपि शांकरिः ।
इह लोके च दारोगदुःख भयानि च ॥
परत्र नरकं गत्वा पशुयोनिमवाप्नुया ।
तस्मादेतत् सदा भ्यासादधिकारी भवेत् ततः ॥
मद्वक्त्र निर्गतमिदं कवचं सुपुण्यं पूजा विधिश्च पुरतोपि निधानायथे
तयः ।
सौभाग्य भोगललितानिशुभानिभुक्ता देव्याः पदं भजति तत्पुनरन्त काले ॥
इति कुलान्तसंहितायां श्रीमहात्रिपुरसुन्दरी षोडशी कवचं संपूर्णं ॥
अथ त्रिपुर भैरव्यै ॥
श्रीपार्वत्युवाच ॥
देव देव महादेव सर्वशास्त्र विशारद ।
कृपां कुरु जगन्नाथ धर्मज्ञासि महामते ॥
सुन्दरी या पुरा प्रोक्ता विद्या त्रिपुर भैर्विकाः ।
२३८अ)
तस्यास्तु कवचं दिव्यं मह्ये कथय तत्वतः ।
तस्यास्तद्वचनं श्रुत्वा जगादजगदीश्वरी ॥
अभुतं कवचं देव्याः सुन्दर्यादि विरुपिपैः ।
श्री इश्वरवाच ॥
कथयामि महाविद्या कवचं सर्वदुर्लभं ।
शृणुष्वत्वं च विधिना श्रुत्वा गोप्यं तोयपि तत् ॥
यस्याः प्रसादान्मकंलं विभर्मि भुवन त्रयं ।
यस्याः सर्वं समुत्पन्नं यस्यामद्यापि तिष्ठति ॥
मतापिता जगन्मान्या जगद्रक्षास्वरूपिणी ।
सिद्धिदात्री च सिद्धास्यादसिद्धादुष्ट जन्तुषु ॥
सर्वभूत हितकरी सर्व भूतस्वरूपिणी ।
ककारः पातु मां देवी कामिनी कामदायिनी ॥
ऐं काली पातु मां देवी मूलाधालार स्वरूपिणी ।
इकाली पातु मां देवी रवि सर्वस्तु स्वः प्रदा ॥
लकारि पातु मां देवि इद्राणी वरवल्लभा ।
ह्रीं काली पातु मां देवी सर्वत्र? शंन्तु(?) सुन्दरी ॥
२३८ब्)
एतै वर्णैर्महामोहा शाम्भवी मस्तकं भुव ।
कपाले पातु मां देवि सर्वाणी हर गेहिनी ॥
मकाले पातु मां देवी सर्वपाप प्रणासिनी ।
ककारे पातु मां देवि कामरूप धरास्तदा ॥
ककाले पातु मां देवि शम्बरारि प्रिया सदा ।
लकाली पातु मां देवी धराधरणि रूपधृक् ॥
ह्रीं काली पातु मां देवी शंकारार्द्ध शरीरिणी ।
एतै वर्णै महामाया पातु शक्ति स्वरूपिणी ॥
वाग्भवं मस्तकं पातु वदनं कामराजिका ।
शक्तिस्वुरूपिणी पातु हृदयं मन्त्रसिद्धिदा ॥
सुन्यरी सर्वदा पातु सुन्द्ररी परिरक्षतु ।
रक्तवर्ण सदा पातु सुन्दरी सर्वदायीणि ॥
नानालंकारसंयुक्ता सुन्द्ररी पातु सर्वदाः ।
सर्वांगसुन्द्ररी पातु सर्वदा ॥
२३९अ)
सर्वागसुन्दरी पातु सर्वत्र शिवदायिणी ।
जगदा ह्लादजननी शंभुरूपा च मां सदा ॥
सर्वमन्त्रमयी पातु सर्वसौभाग्यदायिणी ।
सर्वलक्ष्मी मयी देवी परमानन्ददायिनी ॥
पातु मां सर्वदा देवी नानाशंखा निधिः शिवा ।
ततः पद्म निधिद् देवि सर्वणी सर्वदायिणी ॥
दक्षिणामूर्ति मां पातु ऋषिः सर्वत्र मस्तको पंक्तिः च्छन्द्र स्वरूपा च
मुखे पातु सुरेश्वरी ।
गंधाष्टकात्मिका पातु हृदयंन्ति शन्तरी सदा ।
सर्वसन्मोहिनी पातु संक्षोभिणी सदावतु ॥
सर्वविद्राविणी पातु सर्वाकर्षणकारिणी ।
सर्वा कर्षणकाह्लाद करी पातु सर्वसक्षोभिणी सदा ॥
सर्वसिद्धि प्रदा पातु सर्वाकर्षण कारिणी ।
क्षोभिनी सर्वदा वशीनि मां सदावतु ॥
आकर्षिणी सदा पातु संमोहिनी सदावतु ।
रतिद्देवी सदा पातु भगा मां सर्वदावतु ॥
२३९ब्)
महेश्वरी सदा पातु कौमारी सर्वदावतुः ।
सर्वा ह्लादन काली मां पातु सर्ववशंकली ॥
क्षेमंकरी सदा पातु सर्वांग सुन्दरी सदा ।
सर्वांग युवतिः पातुः सर्वसौभाग्यदायिणी ॥
वाग्देवी सर्वदा पातु वाणिनी सर्वदावतु ।
वशिनी सर्वदा पातु महासिद्धि प्रदा सदा ॥
सर्वविद्राविणी पातु गणनाथः सदावतुः ।
दुर्गा देवी सदा पातु वटुकः सर्वदावतु ॥
क्षेत्रपालः सदा पातु चाधारशक्तिका ।
अनन्तः सर्वदा पातु वाराहः सर्वदा पातु ॥
पृथिवी सर्वदा पातु स्वर्णसिहासनं तथा ।
रक्तामृदं च स पातु मा सर्वकालतः ॥
सुधार्णिवः सदा पातु कल्पकृक्षेः सदावतु ।
श्वेतच्छत्रं सदापातु रक्तदीप सदावतु ॥
२४०अ)
नन्दनोद्यान सततं पातु मां सर्वसिद्धये ।
दिकपालाः सर्वदा पातु इद्राद्याः सकला तथा ॥
वाहानानी सदा पातु अस्त्राणि पास्तु सर्वदा ।
शस्त्राणि सर्वदा पान्तु योगिनीन्यः पातु सर्वदा ॥
सिद्ध्यः पांतु सदा देवी सर्वसिद्धि प्रदावतु ।
सर्वाङ्ग सुन्दरी देवी सर्वत्र सर्वदावतु ॥
आनन्दरूपिणी देवी चित्स्वरूपा चिदात्मिका ।
सर्वांगसुन्दरी पातु सुन्द्ररी भव सुन्दरी ॥
पृथग् देवालये घोरे संकटे दुर्गमे गिरौ ।
अरस्य प्रान्तरे वापि पातु मां सुन्दरी शिवा ॥
इदं कवचमित्युक्तं मन्त्रोद्धारश्च पार्वति ।
यः पठेन् प्रयतो भूत्वा त्रिसंध्यंतियेतः शुचिः ॥
तस्य सर्वार्थ सिद्धिस्याः स्याद्यद्यन्मनसि वर्तते ।
गोरोचना कुंकुमेन रक्तचन्द्रनकेन वा ॥
स्वयंभू कुसुमैः शुक्लै भूमि पुत्रे शनिश्चरे ।
२४०ब्)
श्मशाने प्रातरे वापि शुन्यागरे शिवालये ।
सक्त्य गुरुणा यन्त्रं पूजयित्वा कुमारिका ॥
तन्मनुं जपयित्वा च गुरुपक्ति विशेषतः ।
पूजयित्वा यथाशक्त्या स्तुत्वा च विविनासुरा ॥
धारयेद् गुरुणा यन्त्रं पूजयित्वा कुमादिका ।
तन्यौनौ पूजयित्वा च गुरुपक्तिं तथैव च ॥
देव्यै वलिं निवेद्याथ नरमाजारसुकरैः ।
नकुलै महिषैर्मेषैः पूजयित्वा विधानतः ॥
धृत्वासुव्वर्णमध्यस्थं कंठे वामस्तके भुजे ।
सुतिथौ शुभनक्षत्र सूर्यस्योदयेने तथा ॥
धारयित्वा च कवचं सर्वसिद्धीं लभेन्नरः ।
कवचस्य च महात्म्यं नाहवर्षशतैरपि ॥

शक्तोमि तु महेशानि वक्तुं तस्य फलं च तत् ।
२४१अ)
नास्ति चौर भयं तस्य न तत्रा व्याधि पाडनं ।
न दुर्भिक्ष भयं तत्र न च पीडनं सदा ॥
विघ्न प्रशमनं सर्वं सर्वव्याधि विनासनं ।
सर्वलक्षाकरं जम्भोश्चतुवर्गा फलप्रदं ॥
यत्र तत्र न वक्तव्यं न दातव्यं कदाचन ।
मन्त्रं प्राप्य विधानेन पूजयेत् सततं सुधी ॥
तत्रापि दुल्लभं मन्य कवचं देवरूपिणं ।
गुरोः प्रसाद्या प्राप्रेसुगोपितं ॥
तत्रापि कवचं दिव्यं दुल्लभं भुवन त्रये ।
श्लोकं वास्तवमेकं वा यः पठेन् प्रयतः शुचिः ॥
तस्य सर्वार्थ सिद्धि स्याच्छंकरेण प्रभाषितं ।
गुरु देवो हरसाक्षात् पर्त्ती तस्य च पार्वती ॥
अभेदन यजेद् यस्तु तस्य सिद्धि न दूरतः ।
इति श्रीविश्वसार तन्त्रे त्रिपुरभैरवई कवचं समाप्तं ॥
२४१ब्)
अथ लक्ष्मी कवचं ॥
अथ वक्ष्य महेशानि कवचं सर्वकामदं ।
यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥
अर्चनं पूजनं तस्या मन्त्रजापं जपेन् नरः ।
सभेत् पार्वती पुत्र सर्वशास्त्र पुरस्कृतः ॥
विद्यावतार्थिना सेव्या विशेषविष्णुवल्लभा ।
अस्य श्रीचतुरक्षरी विष्णुवतिता कवचस्य भगवान् श्रीणिव ऋषिः
अनुष्टुप्छन्दः वाग्भवी देवता वाग्भवीजं लर्जाशक्तिः रमाकीलकं
कामबीजान्मकं कवचं ममस्वकवित्वपांडित्य सर्वसिद्धि समृद्धये
विनियोगः ॥
ऐंकारो मस्तके पातु वाग्भबीजं द्विर्धीदा ।
ह्रीं पातु चक्षुयो मध्ये चक्षुयुग्म च शाकरी ॥
जिह्वायां मुखवृत्ते च कणवाणसिते ओष्टाधरे दन्तपक्तौ तालुमूले हलौ
पुनः ॥
२४२अ)
पातु मां विष्णुवतिता लक्ष्मीः श्रीवर्णरूपिणी ।
कर्णयुग्म भुजद्वन्द्वे पेच पार्वति ॥
हृदयमणि वन्ध चमीवायां पार्श्वयोः पुनः ।
पृष्टदशे तथा गुह्ये वामे च दक्षिणे तथा ॥
उपत्थे च नितम्बे च नाभौ जंघ द्वये पुनः ।
जानु चक्रे पदद्वंद्व गुतिकेगुलिमूलके ॥
स्वधा तु प्राणशक्त्यां मे सीमंत्यां मस्तके पुनः ।
सर्वाङ्गपाकामेशी महादेवी समुन्नतिः ॥
पुष्टियातु महामाया उत्कृष्टिः सर्वदावतु ।
व ऋषिः पातु मे देवि सर्वत्रस्तु वर्लभा ॥
वाग्भवी सर्वदा पातु पातु मां हर गेहिनी ।
रमा पातु सदा देवी पातु माया स्वरास्वयं ॥
सव्वागे पातु मां नित्युमुग्रतारा शतावतु ।
पातु मां कालिका नित्यं कालरात्रिः सदावतु ॥
२४२ब्)
नवदुर्गा सदावतु कामाख्या सर्वदावतु ।
योगिन्यः सर्वदा मम महालक्ष्मी सदा मम ॥
मात्रां यान्तु सदा देव्याश्च कुष्ठां योगिनीगना ।
सर्वत्र संर्वकार्यषु सर्वकर्म सदार्वदा ॥
पातु मां देवदेवेशी लक्ष्मी सर्वसमृद्धिदा ।
इति ते कवचं दिव्यं कथितं सर्वसिद्धयेत् ॥
यत्र यत्र न वक्तव्यं यदिच्छेदान् सनोहितं ।
शठाय भक्तिहीनाय निन्दकाय महेश्वरी ॥
न्यूनांगे नानि रिक्त न दर्शयन्न कदाचन ।
नस्तवंशर्य ये दिव्यं सदश्य शिवहा भवेत् ॥
कुलीनाय महेशाय दुर्गाभक्ति पराय च ।
वैष्णवाय विशुधाय दद्यात् कचमूर्तमं ॥
निजशिष्याय शान्ताय धर्मिणे ज्ञानिते तथा ।
शनौमंगल च नन्दकैश्च लिखेन् मन्त्रं ॥
सर्वमत्रसमन्वितं ॥ वलिखेत् कवचं दिव्यं स्वयंभू कुसुमैः शुभैः ॥
२४३अ)
श्वशुकैः परशुक्तैश्च नानागन्धसमन्वितैः ।
गोरोचनाक्तं मुमेनरक्तचन्द्रनके नवा ॥
सुतिथौ शुभयोगे वा श्रवणायां रवे दिने ।
अश्विन्यां च मघासु च पूर्वभद्र पदा यागे स्वाभ्यां मंगलवासरे ॥
विलिखेन् प्रपठे स्त्रोत्रं शुभयोगे सुरालये ।
आयुष्माम्प्रीति योगे च ब्रह्मयोगे विशेषटः ॥
इद्रयोगे शुभे योगे शुक्लयोगे तथौव च ।
कौलवे वालंवे चैव वनिजे चैव सत्तमः ॥
शून्यागारे श्मशाने वा रिजते च विशेषतः ।
कुमालि पूजयीत्वा च जयेद् देवीं सनातनीं ॥
मत्स्योर्मांसैः शाकसूपैः पूजयेत् पर देवतांः ।
घृताद्यैश्चोपकरणै धूपदीपै विशेषतः ॥
ब्रह्माणाम्भोजयित्वा च पूजयेत् परमेश्वरि ।
२४३ब्)
आषेटकमुपाख्यानं तत्र कुर्याद् दिन त्रयं ।
तदा भवेन् महारक्षा शंकरेण च भाषितं ॥
मारणा द्वेषणादीनिलभंते नात्रसंशयः ।
स भवे पार्वती पुत्रः सर्वाशास्त्र वहिःकृतः ॥
गुरु देवो हरसाक्षात् पत्नी तस्य हर प्रिये ।
अभेदेन यजेद् यस्तु तस्य सिद्धिर्न दूरतः ॥
पठति य इहमत्यो विस्मिमाद्रा तरात्मा जपफलमनुमेनं लप्सते सो विधि यं ।
स भवति पदमुच्चैः संपदां पादनम्नः क्षिति पद नम्नः क्षिति पन्यु
कुटलक्ष्मी लक्ष्माणानां चिरायः ॥
इति श्रीविश्वसारतन्त्रे लक्ष्मीकवचं संपूर्णं ॥
अथ मातंगीनी कवचं ॥
श्रीभैरव उवाच ॥
शृणु देवि प्रवक्ष्यामि मांतंगी कवचं शुभं ।
२४४अ)
गोपनीय महादेवि मौन जाप्यं समाचरेत् ।
श्रीदेव्युवाच ॥
साधु साधु महादेव कथयस्व महेश्वरः ।
येन सम्यग् विधानेन साधकानां जयं भवेत् ॥
विणाध्यानं विधाना मन्त्रं विना होमं विना वलिं ।
येन स्मरन मात्रेन साधको धरणि पती ॥
श्रीभैरव उवाच ॥
मातंगी कवचं दिव्यं सर्वरक्षा करं नृणां ।
कवित्वं च धनित्वं गगजिसुखानि च मुखं शुभदं सभ्य मणिमादि
प्रदायकं ॥
ब्रह्मविष्णु महेशानि तेषामाद्या महेश्वरी ।
श्लोकार्द्धा श्लोकमेकं वायस्तु सम्यकाठेन्नरः ॥
तस्य हस्ते सहै वास्ति राजलीक्ष्मी न संशयः ।
उच्छिष्ट वदना भूत्वा कमलासनसंस्थितः ॥
योनि मुद्रा कले वध्वा शक्ति ध्यान परायन ।
ब्रह्मरन्ध्र सन्मत्यस्तैलोक्यैश्वर्या भाग्भवेत् ॥
२४४ब्)
त्रैलोक्यमंगलसांस्य कवचं मन्त्रविग्रह ॥
सिद्धि विद्या मे देवि सर्वैश्वर्य प्रदायकं ।
कवचश्यमिषी शिवः ॥
छन्दो विराट् जगर्द्धात्रि देवता भुवनेश्वरी ।
धर्मकामार्थ मोक्षाषु विनियोगः प्रकीर्तिताः ॥
ह्रीं बीजं मे शिरे पातु ऐं भुनेशी ललाटकं ।
ऐं पातु रक्षनेत्रं मे ह्रीं पातु वाम लोचना ॥
श्रीं पातु दक्षकर्ण मे त्रिवर्णा महेश्वरी ।
वामकर्ण सदा पातु ऐं घ्राणां पातु मे सदा ॥
ह्रीं पातु वदनं देवी ऐं पातु रसनां माम ।
वाक् त्रिपुमा त्रिवर्णान् मा कण्ठ पातु पातु पराम्बिका ॥
श्री स्कंधौ पातु नियतं ह्रीं पातु भुजा सर्वदा ।
क्लीं कलौ त्रिपुरेशानि त्रिपुटैः स्वर्यहायिनी ॥
आं पातु हृदयं ह्रामे मध्ये देशं सा त्र्यक्षरी भुवनेश्वरी ।
fओलिओ ४५-४६ नोत् fओउन्द्
२४७अ)
सर्वबीजं सदा पृष्ठं पातु सर्ववशंकरीः ॥
ह्रीं पातु गुह्य देशं मनमो भवगवती कटिं ।
माहेश्वरि सदा पातु शक्तिबीजानु युग्मकं ॥
अर्णं पूर्णा सदा पातु स्वाहा पातु पद्वयं ।
सामां दशाक्षरी पायादन्नपूर्णाखिलं वपुः ॥
तारं मायारमाकामः षोडशार्ण्य ततः परं ।
शिरस्था सर्वदा पातु विशस्वन्ना स्थिता मुदा ॥
तारं दुर्गे युगं रक्ष स्वाहेति चत?न्दक्षिरी ।
जये दुर्गा घनस्याम पातु सां सर्वतो भवे ॥
मया बीजांदिका चैषा दशार्णा च ततः पराः ।
शिरस्था सर्वदाः पातु विश्वर्त्यन्ना स्थिता मुदा ॥
तारं दुर्गे युगं रक्ष स्वाहति च दशाक्षरी ।
जय दुर्गा च न श्यामा पातु मां सर्वतो मुदा ॥
माया बीजा शिर पातु दसवर्णा च तः परा ।
२४७ब्)
प्रतप्तकांचना भासा जयदुर्गा ननवतु ।
तारं ह्रीं दुदुःर्गायै नमोष्टवर्णन्मिका पारा ॥
शंखचक्रधुनुव्यार्ण धरा मां दक्षिणेवतु ।
महिषमर्दनी स्वाहा वसुवर्णामिका परा ॥
नै-ऋत्या सर्वदा पातु महिषासुरनासिनी ।
माया पद्मावती स्वाहा सप्तार्णा परीकीर्तिता ॥
पद्मावती पद्मसंस्था पश्चिमे मां सदा पातु ।
पाशांकुश पुटामायै हिमरपरमेश्वरि स्वाहा ॥
जयो दशाक्षारार्णाद्या साश्वरुधाननेव तु ।
सरस्वति पञ्चशरो नित्या क्लिन्ने मद द्रवे ॥
स्वाहारत्यक्षरी नित्या मानुत्तर सदावतु ।
तारं माया कवचं खेचरक्ष ततो वधु ॥
क्रू-ओं क्ष ह्रीं फट् महाविद्या द्वादशार्णाखिल प्रदा ।

२४८अ)
अरिष्टादिभिः पायाच्छिव काणे सदा च मां ।
ऐं क्लीं सौंः साततीवालामामुर्द्धा दशेतोवतु ॥
विन्द्वन्ता भैरवी वाला भूमौ मां सर्वदावतु ।
इति ते कथितं पुण्यं त्रैलोक्य मंगलं परं ॥
सारारतरं पुण्यं महाविद्मौघ विग्रहं ।
अस्यापि पठनात् सद्यः कुवेरोपि धनेश्वरः ॥
इद्राद्याः सकला देवा धारणात् पठनाद्यतः ।
सर्वसिद्धिश्वराः सन्तः सर्वैश्वर्यमवाप्नुया ॥
पुष्पाञ्जल्यष्टकं दद्यान् मूले नैव पृथक् पृथक् ।
संवल्सरशतायास्तु पूजाया फलमाप्नुयाः ॥
प्रीतीमन्यान्यतः कृत्वा कमलाशिश्वला गृहः ।
वाणी च निवसेद्वक्त्रे सत्यं सत्यं त्वमंशयः ॥
योधारयति पुण्यान्मात्रौ लोक्यमंगलाभिध ।
२४८ब्)
कवचं परमं पुण्यं सोपि पुण्यवतांवरः ।
सर्वश्वर्य युतो भूत्वा त्रैलोक्य विजयी भवेत् ॥
पुरुषो दक्षिणे वाहौ नाली वाम भुजे तथा ।
वहु पुत्रवती भूत्वा वंध्यापि लभते सुतं ॥
ब्रह्मास्त्रादिणि नैवदं शान्तितंजनं ।
एतत् कवचमज्ञात्वा जानुजा भुवनेश्वरीं ॥
दारिद्र्यं परमं प्राप्य सो चिरान् मृत्युमाप्नुया ।
इति श्रीरुद्रयामले देवी ईश्वरसंवादे त्रैलोक्यमंगलं नाम भुवनेश्वरी
कवचं संपूर्णं ॥
अथ धूमावतीकवचमाहः ॥
पार्वत्युवाच ॥
देवदेवं महादेव भक्तानुग्रहकारकः ।
धूमावत्याश्रु कवचं तु ब्रुहि मे करुणा निधे ॥
महादेव उवाच ॥
अस्ति गुह्यतमं लोके कवचं शत्रु निग्रहं ।
सर्वस्थित प्रदं देवि तव स्नेहां प्रकाश्यते ॥
२४९अ)
यच्छुत्वारामचन्द्रेण संगरे रावने हतः ।
भोगवेणपि यछुत्वाजितं सर्वं चराचसं ॥
तमेव कवचं वच्मि सावधानावधारय ।
कवचस्य महादेवि पिप्यद ऋषिः स्मृतः ॥
च्छन्द्रो विराट् देवता च श्रीमद्धुमवती प्रिये ।
शत्रुणां मारणा देवि विनीयोगः प्रकीर्तितः ॥
तु धूमावतां सदा पातु शिरो मे शत्रु मर्दिनि ।
चण्डरूपा महादेवी ललाट पातु मां सदा ॥
क्षुक्षा मां नयने पातु पातु मा श्रुती ममः ।
काक ध्वजा नासिकां मे सर्वशत्रु विनाशीनी ॥
प्रणम्वी सदा पातु वदनं मुण्डमालिका ।
विकृतास्या सदा पातु गलं मे रिपु सुन्दरी ॥
धूं बीजं ख्या सदा पातु घाट मे रिष्टितारिणी ।
स्कधौकंकालि
समाप्तं
अपूर्णमस्ति

मूल पाठ: kaularahasyam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc