जातकमाला · श्लोक 92-111
शब्दायमानवरनूपुरमेखलाभिर् आदिश्यमानभवनं प्रवराप्सरोभिः ।
हैमाद्रिशृङ्गम् इव तत् पुरम् आविशन्तं नेमुः कृताञ्जलिपुटा बहवो ऽपि तत्र
अन्यैश् [!] च पुनः
किं दीप्तरश्मिर् विनिगूढरश्मिः किं पुष्पकेतुः सहसावतीर्णः ।
हा किं विनिक्षिप्तहराग्रवज्रो नाथः सुराणाम् इति तर्कितो ऽभूत्
तिमिरनिकरलेख्या श्यामगोपक्ष्मलेख्याः स्फुटितकनकहारा न्यस्तरत्नोज्ज्वलाङ्ग्यः ।
विपुलभवनमालाजालवातायनस्थाः प्रमुदितमनसो ऽन्याश् चिक्षिपुः स्रस्तकाञ्च्यः
रत्नप्रदीपप्रहतान्धकारं मुक्ताफलप्ररुचिरोरुहर्म्यम् ।
चलत्पताकाग्रविभिन्नमेघं गेहं विवेशाप्सरसां हि तासाम्
तासां विलासैर् गमनैः सलीलैर् हासैः कटाक्षैर् मधुरैः प्रलापैः ।
क्रीडन् स कालं न विवेद यातं सर्वात्मना रागपरीतचेताः
प्रत्यहं च दक्षिणेन गमनं वारयन्ति स्म । सो ऽपि यथा यथा निवार्यते तथा तथा तया दिशा गमनायोत्सुकमना बभूव ।
यत्रायं वार्यते लोको जनेन हितबुद्धिना ।
विपर्यस्तमतिस् तत्र जनः स परिधावति
यदि कुर्याद् अयं लोके सुहृदां वचनं हितम् ।
परैति स्वर्गं पातालश्वभ्रे [!] आ स्वप्नतो ऽपि न
अथ मैत्रकन्यको बोधिसत्त्वस् तासाम् अप्सरसाम् परिज्ञातगमनप्रयोजनो दक्षिणस्यां दिशि पदवीम् आरुह्य व्रजन् सदामत्तकं नाम नगरं ददर्श । तस्माद् अपि नगराद् अष्टाप्सरसः ससंभ्रमं निःसृत्य तं महासत्त्वं प्रवेशयाम् आसुः । तत्राप्य् अचिरं रतिम् अनुभूय प्रतिषिध्यमानगमनक्रियस् तेनैव दक्षिणेन पथा गच्छन् नन्दनं नाम नगरं ददर्श । तस्माद् अपि षोडशाप्सरोभिर् अभिगम्य सत्कृत्य प्रवेशयाम् आसे । तत्रापि चिरं क्रीडां सेवित्वा तस्माद् अपि ब्रह्मोत्तरं नाम नगरं प्रययौ । तत्रापि द्वात्रिंशताप्सरोभिर् भूयः सत्कारं विषयसुखम् भुक्त्वा ताः प्राह ।
इच्छामि गन्तुम् तद् अहं भवन्त्यो [!] मा मत्कृते शोकह्रदे शयिध्वम् ।
संपातभद्राणि हि कस्य नाम विश्लेषदुःखानि न सन्ति लोके
स्थित्वापि येनैव चिरं वियोगः शत्रोः कृतान्ताद् भवितान्तकाले ।
तेनैव नेत्राश्रुजलार्द्रगण्डान् [!] युष्मान् विहायाद्य यियासुर् अस्मि
वाताहताम्भोधितरङ्गलोले ये जीवलोके बहुदुःखभीमे ।
विश्लेषदुःखाय रतिं प्रयान्ति तेषां परो नास्ति विमूढचेताः
अथाप्सरसस् ताः समस्तास् तद्गमनवियोगशोकग्लपितऋदयाः ससंभ्रमाः कमलकुवलयकुड्मलविलासा नलिन्य इव शिरसि विरचितोभयकमलाञ्जलयः प्राहुः ।
अस्मासु ते कर्तुम् अनिष्टम् इष्टं कथं हि भक्तिप्रणयार्पितासु ।
सो ऽन्येन एकग्रहणीयरूपः शरीरकानेन वयो ग्रहीते
गत्वा तन् नगरत्रयं यद् अपि हे स्वामिन्न् इहाप्य् आगतः
संप्राप्ता विषयोपभोगमधुराः संपत्तयस् ते चिरम् ।
गन्तव्यं न पुनस् त्वया सुबहुना प्रोक्तेन किं यासि चेत्
संस्मर्तासि विपत्समुद्रपतितो वाक्यं हि नो दुःखितः
बोधिसत्त्वः प्राह ।
यद् अभ्यासवशान् नृणाम् उदयसंपदः स्थिराः ।
कथं ते नु निवार्येरन् निवर्तेरन् कथं नु वा
नियोजनीयाः सुहृदः सुहृद्भिर् यस्मिन् हिते कर्मणि नित्यकालम् ।
निवारणं तत्र तु ये प्रकुर्वते ते शत्रवो ऽमित्रतया भवन्ति
दिव्यं प्राप्य सुखं पुरे रमणके संचोदितः कर्मणा [!]
आयातो ऽस्मि निषेवणाय परमं सौख्यं सदामत्तकम् ।
संप्राप्तो ऽस्मि ततः स्वकर्मकुशलेनेष्टं पुरं नन्दनं
तस्माद् आगतकस्य यूयम् अधुना प्रोन्मूलिता भूमयः
तस्माद् अतो मे गमनं भवन्त्यो [!] मा वारयध्वं न हि नो ऽस्त्य् अपायः ।
अस्माद् विशेषाणि सुखानि मन्ये लप्स्ये ऽहम् इत्य् उच्चलितो ऽहम् अद्य
इत्य् अथ मित्रकन्यको बोधिसत्त्वस् तासाम् अप्सरसां हितम् अपि वाक्यम् अहितम् इवावज्ञया तिरस्कृत्य तेनैव दक्षिणेन पथा गच्छन् ददर्श महार्गडप्रटितप्रकटपुटचतुर्द्वारदारुणं सुरेश्वरेणाप्य् अभेद्योत्तुङ्गायसविशालप्राकारपरिवेष्टितम् अन्तर्भ्रमच्चक्रमण्डलालोकप्रमुक्तदमदमाशब्दगम्भीरभैरवम् आयसं नगरं तस्य च द्वारदेशम् उपचक्राम ।
संप्राप्तमात्रस्य तु तत्क्षणेन द्वारं च विस्फोटकपाटभारम् ।
वज्राग्रधारापरिभिन्नसानोर् विन्ध्याचलस्येव नितम्बकुक्षिः
ततो मैत्रकन्यको बोधिसत्त्वो ऽत्र विवेश ।
प्रविष्टमात्रस्य तु तत्क्षणेन द्वारं परिक्षिप्तकपाटयन्त्रम् ।
तत्कर्मवायुप्रभवैर् महद्भिः क्षणाद् भुजाग्रैर् इव संजघाट
अश्रौषीच् च प्रगाढवेदनाविक्लवहृदयपुरुषस्यान्तःप्राकारान्तरतिरस्कृतपरमभीषणनिर्नादं सकलजनोत्त्रासनम् उच्चरन्तं श्रुत्वा च द्वारदेशं त्वरितमतिर् ललङ्घ ।
प्रविष्टमात्रस्य ततो द्वितीयम् आस्फालितं द्वारम् इवोपरुद्धम् ।
पर्यन्तकालानिलवेगविद्धं द्वारं सुराणाम् इव वज्रकल्पम्
ततो मित्रकन्यको बोधिसत्त्वः प्रविवेश ।
प्रविष्टमात्रस्य पुनस् तृतीयं द्वारं परिक्षिप्तकपाटयन्त्रम् ।
क्षणाद् अभूत् तन् नगरं च सर्वं भ्रान्तं च कृत्स्नं स ददर्श भीतः
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0