जातकमाला · श्लोक 68-6
विशदागलितैः शिरोमणीनां किरणैर् यच् छलयन्ति पादपीठम् ।
नृपतेर् अनुजीविनो विनीता मधुरं त्यागवनस्पतेः फलं तत्
कृपणासु बवोपभोगमात्रास्व् अथ वा कैव कथा विनाशिनीषु ।
निरवद्यसुखानुबन्धि रम्यं फलम् आप्नोति सनातनं प्रदानात्
अवधूय बलं शमद्विषां यज् जलदानाम् इव मण्डलं नभस्वान् ।
पदम् अव्ययम् आप्नुवन्ति बुद्धा भगवन्तस् तद् अपि प्रदानबिजम्
अभिभूय परप्रवादिपूगान् परमार्थं गमयन्ति शासनं स्वम् ।
मुनयो भुवनैकशासितारस् तद् इदं त्यागपरंपरावसानम्
अथ भगवान् पात्रीकृताध्याशयं तं जनम् अवेत्य रत्नत्रयाविचलितप्रसादं संसारवासविमुखं भवदुःखोपशमप्रतिसंयुक्ताम् एव कथां आविश् चकार ।
दुःखान्य् अमूनि सति जन्मनि संभवन्ति क्षीणे च जन्मनि न दुःखम् उपैति भूयः ।
जन्मक्षयाय मतिमान् प्रयतेत तस्माद् यः प्राप्तुम् इच्छति न दुःखशताभिघातम्
दुःखं सकारणम् इदं समुपैत्य् अनादिसंतानवर्तिभयशोकविषादयोनि ।
तृष्णां प्रतीत्य विपरीतसुखाभिमानव्यामोहनीं त्रिभवनाटकयोगधूर्तां
एषो ऽहम् इत्य् उचित एव मनोविदाही सत्कायदर्शनमयः पुरुषस्य कीलः ।
जन्माध्वनि भ्रमयतीदम् अनादिमध्यं संसारचक्रम् अपरिग्रहम् अप्रशान्तम्
स्थित्वा शीले विगतरजसि प्राप्य चेतः समाधिं
प्रज्ञालोकैर् मनसि शयितं ध्वान्तम् उल्लिख्य कृत्स्नम् ।
जन्माम्भोधेर् व्यसनमहतः क्षेमम् आसाद्य पारं
संशान्तात्मा न दिवि भुवि वा भिक्षुर् आयाति संख्यम्
यैर् निर्दग्धा मतिहुतभुजा स्कन्धसंबन्धलक्ष्यी
तृष्णा नैकव्यसनविशिखापातसंधानमौर्वी ।
ते ऽस्मिन् धन्या जगति सुखिनस् ते त एवानवद्यास्
तेषां भद्रं स्थितम् अभिमुखं ते भयेभ्यो विमुक्ताः
रिक्ताकारद्रवरतिरसास्वादपर्यस्तबुद्धेर्
लेशनापि व्यनुसृतवतो जालिनीं चित्रमायाम् ।
आयासिन्यः शिरसि विपदः संचरन्ति प्रगल्भा
जन्माभ्यस्तं सुचरितफलं व्यर्थम् एव प्रयाति
आयासिनीं भवविभूतिम् अवाप्तुकामैः शान्तिं परां च परतः कुशलं प्रचेयम् ।
आशीविषो नरपतेर् निधनाय मुक्तो हारो बभूव कुशलैः स्फुटचन्द्रगौरः
किं च भूयः
दुःखद्विषा हृदि न लोभकलिर् निषेव्यो जन्मान्तरोपचितलोभविषाशयस्य ।
शान्तात्मनो ऽपि किल निर्विवरं बभूव भक्ताभिहारसमये मुखम् एव भिक्षोः
तस्मात् प्रदानसलिलैः स्नपयन्तु सन्तो मात्सर्यपङ्कमलिनानि मनोगृहाणि ।
लोभानलेन्धनम् इदं निधनं धनं वो यावन् न याति विपदग्निशिखावलीढम्
श्रुत्वा वचांसि स जनो जगदेकबन्धोर् नन्दस्य तां च विपदं विपुलाम् उदीक्ष्य ।
विक्षिप्य मत्सरमयीं मनसस् तमिस्रां दानादिकं सुचरितं प्रथयां बभूव
इति मत्सरनन्दावदानम् ॥
8. मेघ
पुण्यैर् वितृप्तिम् उपयान्ति न बोधिसत्त्वाः
कामैः प्रमादिन इव प्रतिपत्तिवामैः ।
राज्याश्रयाण्य् अपि सुखान्य् अवधीर्य धीराः
पुण्याय पुण्यनिधयः श्रमम् आश्रयन्ते
तद्यथानुश्रूयते
बोधिसत्त्वः किल भगवान् प्रकृतिदक्षिणो दक्षिणापथे राजा बभूव ॥
संतर्पयाम् आस यतः स लोकं दानाम्बुभिः सस्यम् इवाम्बुगर्भः ।
ततो महामेघ इति क्षितीशो यथार्थनामातिशयो बभूव
न तस्य राज्यद्युतिविस्तरेषु व्यासक्तदीनं हृदयं बभूव ।
अनर्थभूतान् स परार्थम् अर्थान् द्रुमः फलानीव बभार साधुः
बभूव तस्मिन् पितरीव लोको विश्रम्भसंभोगसुखप्रगल्भः ।
सुतेष्व् इव प्रेमनिबद्धभावो बभूव सो ऽपि क्षितिपः प्रजासु
सगौरवो ऽसौ गुरुषु प्रकृत्या दीनेषु कारुण्यमृदुस्वभावः ।
कृतापराधेष्व् अपि मैत्रचित्तः समन्तभद्रस् तु सुहृज्जनेषु
बभूव तस्य ग्रहराजकीर्तेस् तथाग्रहो न स्वपरिग्रहेषु ।
यथा तदीयासु ममत्वम् आसीज् जनस्य संपत्स्व् अतिशायिनीषु
मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0