भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 7-26

7

जग्राह दानेन स कांश् चिद् एव प्रियाभिधानैर् अपरान् विचित्रैः ।
तथार्थचर्याभिर् अनर्थभीरुः कांश् चित् समानार्थतयार्थभूतः

8

नैवा सौ स्वं परहितप्रतिपत्प्रकारो
यन् नात्मसाच् च नरलोकपतिश् चकार ।
को ऽपि त्व् असौ कथम् अपि द्युतिमान् कुतो ऽपि
लोकेष्व् असंस्तुतसुहृद् भगवान् बभूव

9

स कदा चिन् महीपतिर् अमात्यगणपुरस्कृत उदङ्मुखो ददर्शातसीकुसुमराशिसंकाशम् आकाशम् अवगाह्य पततो भगवतः प्रत्येकबुद्धान् परमविस्मितमना ह्य् अमात्यान् अब्रवीत् ॥ पश्यन्तु भवन्तः ॥
एते कषायपरुषाम्बरसंवृताङ्गा व्योमातसीकुसुमराशिनिभं विगाह्य ।
आयान्ति के ऽप्य् उपशमस्तिमितप्रचारा भूर्जद्रुमा इव मरुद्भिर् उदस्तमूलाः

10

अन्यतमो ऽप्य् अमात्यः ससंभ्रमो ऽब्रवीत् ॥ सम्यग् अभिहितं देवेन कुतः ॥
आयान्त्य् अमी काञ्चनराशिगौरा विधूतकाषायपटान्तभङ्गाः ।
परस्परास्लिष्टविकीर्णपक्षाः खं चक्रवाका इव शोभयन्तः

11

अपरो ऽप्य् आह ॥
स्वच्छेन्द्रनीलोपलरागम् एते नभः समुत्पत्य समापतन्ति ।
समीर्यमाणाः पवनेन संध्याकलङ्कितान्ताः शरदीव मेघाः

12

अनुपतति न चैतान् अभ्रमाली नभस्वान्
उपशमरमणीये चापतन्ति प्रकृत्या ।
चरणतलनिपातो लक्ष्यते व्योम्न्य् अमीषां
न च गगनम् असङ्गं पादसंचारयोग्यं

13

यथा यथा ते निकटी भवन्ति व्रतीश्वराः शान्तिम् इवाकिरन्तः ।
तथा तथा विस्मयहर्षपूर्णा राजन्वती सा समितिश् चकम्पे

14

अतृप्ता एव ते तेषां दर्शनेन महात्मनां ।
बभूवुर् अथ चातीयुस् तेषां नयनगोचरं

15

अथ स पार्थिवस् तेषां महर्षीणां दर्शनेनावर्जितमनास् तान् अमात्यान् अब्रवीत् ॥
इदम् आश्चार्यम् आलोक्य कौतूहलसमाकुलं ।
मनो मम तद् इच्छामि श्रोतुम् एषां प्रविस्तरं

16

अथ तेषां नृपतिसचिवानाम् अभिज्ञाततरो ऽमात्यस् तं राजानम् अब्रवीत् ॥ श्रूयतां महाराज ॥
नोत्पद्यन्ते यदा बुद्धा भगवन्तः कृपात्मकाः ।
अपास्य रजसां वृत्तिं दीर्घकालानुशायिनीम्

17

आवृते तमसा लोके समन्ताद् अपरायणे ।
भवत्य् एषां तदा जन्म जन्मपर्यन्तगामिनां

18

प्रतीत्योत्पादगाम्भीर्यदूरानुगतबुद्धयः ।
प्राप्तशय्यासनरता हीनदीनानुकम्पकाः

19

संसर्गभीरवो नित्यं तूष्णींभावपरायणाः ।
विचरन्ति जगत्य् एते जङ्गमाः पुण्यराशयः

20

आत्मानम् एकं प्रत्य् एते बुद्धा यस्माद् अतः किल ।
प्रत्येकबुद्धा इत्य् एवं प्रतिमानम् उपागताः

21

अथ स राजा सुतरां तद्गुणाकृष्टहृदयः स तम् अमात्यम् अब्रवीत् ॥ अथ कुत्रामी भगवन्तः प्रतिवसन्तीति ॥ स प्राह ॥
मेघस्य राज्ञो विजिते जितात्मन् वसन्त्य् अमी दग्धभवाधिवासाः ।
हिमाद्रिकुञ्जेषु नमन्नमेरुप्रतानसंसक्तमहीरुहेषु

22

राजोवाच ॥ अस्ति कश् चिद् उपायो येनामी मद्विषयान्तम् आवसेयुर् इत्य् अमात्यो ऽब्रवीत् ॥ अस्ति महाराज यदि मेघराजा प्रार्थ्यते तदन्वभ्यर्थिताः किलामी त्वद्विषयम् अलं कुर्वन्त्यः प्राप्नुवन्ति चेति ॥ अथ बोधिसत्त्वः पुण्येष्व् आदरोपदर्शनार्थम् अमात्यान् आह ॥ तेन हि भवन्तः सज्जीकुरुत ॥ तदनुरूपमानपात्रं स्वयम् एवाहं गत्वा मेघं राजानम् अस्मिन्न् अर्थे विज्ञापयिष्यामीत्य् अध्वसंभ्रान्तास् ते पुरुषा बोधिसत्त्वम् आहुः ॥ नार्हति देवो दूतमात्रसाध्ये प्रयोजने खेदम् आपत्तुम् ॥ अपि च महाराज ॥
आज्ञासुखरसं राज्यम् अनेकापायसंकटं ।
परराष्ट्रम् अतो गन्तुं सहसा तव न क्षमं

23

बोधिसत्त्वो ऽब्रवीत् ॥
स्वहिते ऽप्य् अभियुक्तानां करुणाविकलात्मनां ।
खेदः कः पुण्यकामानां भवाध्वपरिवर्तिनां

24

आत्मत्वेनैव यैर् एव तद् उपात्तं भवत्रयं ।
जगदत्यन्तबन्धूनां तेषां खेदः कथं भवेत्

25

न च कार्याभिनिष्पत्तिर् दूतसाध्या गरीयसी ।
नास्माद् गुरुतरं चास्ति करणीयं मम परं

26

न चाज्ञारभसारम्भे न राज्यभारं वहाम्य् अहं ।
जगतां वयम् एवेह कृपया किंकराः कृताः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc