जातकपारिजातः · अध्याय p5
शाखाभिरष्टादशसङ्ख्यकाभिरध्यायरूपाभिरतिप्रकाशः ।
ज्योतिर्मयः सर्वफलप्रधानः सङ्किर्तितो जातकपारिजातः
उक्तं राशिगुणालयं ग्रहगतिस्थानस्वभावाकृति-
राधानादिसमस्तजीवजननं बालाद्यनिष्टाकरम् ।
आयुर्ज्जातकभङ्गयोगजविधिः श्रीराजयोगादिजो
द्विव्यादिग्रहयोगजः शुभकरि मान्द्यब्दजं च क्रमात्
पश्चादष्टकवर्गबिन्दुगणितं होराधनस्थानजं
दुश्चिक्यावनिभावजं सुतरिपुस्थानप्रयुक्तं फलम् ।
कन्दर्पाष्टमधर्मराशिजनितं व्यापारलाभान्त्यजं
नारीजातकलक्षणं निगदितं चक्रं दशान्तर्दशा
श्रीविद्याधिकवेङ्कटाद्रितनयः श्रीवैद्यनाथः सुधी-
रादित्यादिसमस्तखेटकृपया विद्वज्जनप्रीतये ।
होरासिन्धुसमुद्धृतामृतमयीमष्टादशाव्यायिनी
चक्रे जातकपारिजातसरणिं गीतोत्सुकश्लोकिनीम्
इति जातकपारिजातः समाप्तः ।
समाप्तोऽथं ग्रन्थः ।
मूल पाठ: jātakapārijātaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0