भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरसिद्धि (अन्य संस्करण) · अध्याय 2

2.1

तत्र मीमांसकाः प्राहुः - नायं सर्वार्थदर्शनशक्तिसम्पन्नः पुरुषो ऽभ्युपगममर्हति, अतिपतितसकलसाधकप्रमाणसम्भावनाभूमित्वात्स्फुटविविधबाधकत्वाच्च । तथाहि - अस्य पप्रत्यक्षमन्यद्वा साधकं भवेत् ? प्रत्यक्षमपि लौकिकं यौगिकं वा ?
(व्याख्या) ध्यात्वा श्रीपतिचरणौ नत्वा चाचार्यपादद्मयुगम् ।
ईश्वरसिद्धेर्विवृतिं कुर्वे ललितां सुखावबोधार्थाम्

2.2

त्रय्यन्तसिद्ध ईशो मतस्तु सद्युक्तिचिन्तकैरनिशम् ।
भक्त्या ध्यानाभ्यासात् प्रकटः प्रज्ञां तनोतु मे शुभ्राम्

मूल पाठ: Īśvarasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc