हस्तवालप्रकरणवृत्ति · भाग 11
हस्तवालप्रकरणवृत्तिः (ह्व्प्व्)
मञ्जुश्रीये ज्ञानसत्त्वाय
नमः त्रैलोक्ये व्यवहारमात्रे सति परमर्थाभिमानात् तत्त्वार्थानवगाहिभिः सत्त्वैर्वस्तुस्वभावविवेकद्वारेणाविपर्ययज्ञानसंप्राप्तये शास्त्ररचनेयं ॥
रज्जौ सर्पमनस्कारो रज्जुं दृष्ट्वा निरर्थकः ।
तदंशान् वीक्ष्य तत्रापि भ्रान्ता बुद्धिरहाविव ॥ ह्व्प्व्_1 (6) ॥
सर्वाण्याश्रितवस्तूनि स्वरुपे सुविचरिते ।
आश्रितान्यन्यतो यावत् संवृतिज्ञानगोचरः ॥ ह्व्प्व्_2 (24) ॥
निरंशानामचिन्त्यत्वदण्त्यो ऽप्यवस्तुना समः ।
भ्रान्तमत्रमतः प्राज्ञैर् न चिन्त्यं परमार्थतः ॥ ह्व्प्व्_3 (45) ॥
भ्रान्तं तदप्य सम्यक्त्वद् यथा भनं तथास्ति न ।
अनर्थकं भासमानं तत्सदृशात्मकं भवेत्
सर्वमेवाश्रितं येन विद्यते सूक्स्मबुद्धिना ।
त्यजेत् स बुद्धिमन् सुष्थुरागाद्यहिभयं यथा
लौकिकार्थविचरेषु लोकसिद्धिमनुव्रजेत् ।
क्लेशन् सर्वसं त्यक्तुमन यतेत परमार्थतः
मूल पाठ: Hastavālaprakaraṇavṛtti · Edition: Bhagchandra Jain: Hastabalapranavrtti. Nagpur : Aloka Prakashan, 1971. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0