गरुड़ पुराण · अध्याय 1.216
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवादितर्पणनिरूपणं नाम पञ्जदशोत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 216
ब्रह्मोवाच ।
वैश्वदेवं प्रवक्ष्यामि होमलक्षणमुत्तमम् ।
प्रज्वाल्य चाग्निं पर्युक्ष्य-ओं क्रष्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानत् ।
ओं पावक वैश्वानर इदमासनं अरणीगर्भसंस्कृततेजोरूप महाब्रह्मन् मुहूर्तास्त्रिषु वैश्वानरं प्रतिबोधयामि ।
ओं वैश्वानरे न उभयं आप्रयातु परावतः अग्निर्न स्वद्युतीरूपपृष्ठो दिवि पृष्ठो ऽश्वि पृथिव्यां पृष्ठा विवेवा ओषधीचाविवेश वैश्वानरः सहसा पृष्ठो ऽग्निः नमो दिव्य स षष्ठां नक्तम्
ओं प्रजापतये स्वाहा ।
ओं सोमाय स्वाहा ।
ओं बृहस्पतये स्वाहा ।
ओं अग्निषोमाभ्यां स्वाहा ।
ओं इन्द्राग्निभ्यां स्वाहा ।
ओं द्यावापृथिवीभ्यां स्वाहा ।
ओं इन्द्राय स्वाहा ।
ओं विश्वेभ्यो देवेभ्यः स्वाहा ।
ओं ब्रह्मणे स्वाहा ।
ओं अद्भ्यः स्वाहा ।
ओं ओषधिवनस्पतिभ्यः स्वाहा ।
ओं ग्रह्याय स्वाहा ।
ओं देवदेवताभ्यः स्वाहा ।
ओं इन्द्राय स्वाहा ।
ओं इन्द्रपुरुषेभ्यः स्वाहा ।
ओं यमाय स्वाहा ।
ओं यमपुरुषाय स्वाहा ।
ओं सर्वेभ्यो भूतेभ्यो दिवाचारिभ्यः स्वाहा ।
ओं वसुधापितृभ्यः स्वाहा ।
ओं ये भूता प्रचरन्ति दीनाच निमिहन्तो भुवनस्य मध्ये ।
तेभ्यो बलिं पुष्टिकामो ददामि मयि पुष्टिं पुष्टिपतिर्ददातु ।
ओं आचाण्डालपतिर्ददातु आचाण्डालपतितवायसेभ्यः
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0